पृष्ठम्:वादनक्षत्रमाला.djvu/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । ३६९ इत्यादिना तत्तदनन्दैक्यस्य अन्ते ‘ख यश्चायं पुरुषे । य ऽसावादित्ये । स एकः’ इति पुरुषादित्यशब्दोकयो- मनुष्यदेवजत्योः जीववर्गपरब्रह्मणोर्वा आनन्दैक्यस्य प्रति पादनमस्तीति तद्वलत्तयोः औपाधिकत्वकल्पनं युक्तम् ; वर्णेषु ध्वनिविशेषाणामिव आनन्देष्वपि विषयविशेषाणाम भिव्यञ्जकानां तारतम्यसत्वात् । प्रत्यक्षप्रत्यभिज्ञाबलादिव शब्दबलात् भेदभेदकप्रतीत्य: औपाधिकविषयत्वकल्पनमयु कभिति चेत्, न, प्राग्विषयविशेषसुखमनुभूतवत: काला न्तरेऽपि तद्विषयलाभे तदेव सुखमिदानीमपि अनुभूयते इति प्रत्यक्षप्रत्यभिज्ञानस्याप अत्र सत्त्वात् ; न हेि सऽयं गकर

इति प्रत्यभिज्ञानात् अस्य मात्रयापि विशेषमीक्षामहे ; किं च सर्वेष्वपि आनन्देषु आनन्दाकारानुगतबुद्धिरपि आनन्दै. क्ये प्रमाणम् ; न च सा जतिविषयेति कल्पनीयम् ; क्यते स्पष्टं हि व्यक्तिभेदे जातिविषयत्वं कल्पनीयम् ; आनन्देषु विषयविशेषोपाधिं विना स्वतः भेदाप्रतीते: व्यक्यैकयमेवो. पपद्यत इति कुतो जातिः कुतस्तरां तद्विषयता बुद्धे: ; अपि च संभावितदोषात् प्रत्यक्षात् निदोषा तात्पर्यवर्ती श्रुतिरेव प्रबल ; तात्पर्यवती च आनन्दमीमांसा, सर्वकामावाप्तिफल- विवरणार्थं प्रवृत्तत्वात् ; न च तात्पर्यवत्यामुपचारकल्पनमपे