पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अस्माकं च कुले पूर्व सगरस्याज्ञया पितुः || खनद्भिः सागरैर्भूमिमवाप्तः सुमहान्वधः ॥ ३३ ॥ जामदग्येन रामेण रेणुका जननी स्वयम् ॥ कूत्ता परशुनारण्ये पितुर्वचनकारिणा ॥ ३४ ॥ एतैरन्यैचें बेहुभिर्देवि देवसमैः कृतम् || पितुर्वचनमकीवं करिष्यामि पितुर्हितम् ॥ ३५ ॥ न खल्वेतन्मयैकेन क्रियते पितृशासनम् ॥ एतैरपि कृतं देवि ये मया तँव कीर्तिताः ॥ ३६ ॥ नाहं धर्ममपूर्व ते प्रतिकूलं प्रवर्तये ॥ पूर्वैरँयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३७॥ तदेतत्तु मया कार्य क्रियते भुवि नान्यथा ॥ पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३८ ॥ तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् || वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||३९ || तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् || विक्रमं चैव सत्वं च तेजंच सुदुरासदम् ॥ ४० ॥ मम मातुर्महद्दुः खमतुलं शुभलक्षण || अभिप्रायमभिज्ञाय सत्यस्य च शमस्य च ॥ ४१ ॥ धर्मो हि परमो लोके धर्मे स॒त्यं प्रतिष्ठितम् ॥ धर्मसंश्रितमेच पितुर्वचनमुत्तमम् ॥ ४२ ॥ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ॥ न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ४३ ॥ सोहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् || पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ ४४॥ तदेना विसृजानार्थी क्षत्रधर्माश्रितां मतिम् ॥ धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ४५ ॥ " ॥ ३२–३४ ॥ अक्कीबम् अकातरम् | अक्लिष्टमिति | यतइतिशेषः । धर्मरहस्यंजानन्नपित्वंकिमर्थमेवंवदसी- यावत् ॥ ३५–३६ ॥ अपूर्व अभिनवं । अभिप्रेतः तिभावः ॥४१॥ धर्मतत्वमाह — धर्मोहीति । लोके पु अङ्गीकृतइत्यर्थः । सर्वसंमतइतिवार्थः । तेनचन्द्र- रुषार्थेषु धर्मः परम: प्राथमिक : प्रधानभूतः । ततः ततारागमनादिव्यावृत्तिः । ननु “ दृष्टोधर्मव्यतिक्रमः किमित्याह — धर्मेसत्यं प्रतिष्ठितमिति । धर्मैकपर्यव- साहसंचपूर्वेषां ” इतिमातृवधादिकंसाहसत्वेननिन्दि - सायि सत्यमित्यर्थः । उत्तमं मातृवचनापेक्षयाउत्कृष्टं। तमितिचेन्न । साहसस्यपितृनियुक्तव्यतिरिक्तविषय- एतत् पितृवचनंच | धर्मकं ॥ ४२ ॥ त्वात् । व्याख्यातृभिस्तदुदाहरणमज्ञानविजृंभितं । एवंसत्यवचनंपितृवचनकरणंचद्वयमपिधर्मनिमित्तमि- “पितुःशतगुणंमातागौरवेणातिरिच्यते” इतितुशुश्रूषा- त्युक्तं तत्रसत्यस्यकर्तव्यत्वमाह-संश्रुत्येति । धर्ममा- मात्रे नतुवचनकरणे । पितुरेवनियन्तृत्वात् । अतए- श्रित्यतिष्ठता धर्मरूपफलमिच्छता ॥ ४३|| पितृवचन- व " माताभस्त्रापितुः पुत्रोयस्माज्जातःसएवसः करणस्यकर्तव्यत्वमाह - सोहमिति । प्रतिज्ञातवानह- तिवचनेनाप्यविरोधः ॥ ३७ ॥ तत्तस्मात्कारणात् । मित्यर्थः । नियोगं आज्ञां । पितृवचनत्वाभावंपरिहर- भुवि कार्ये कर्तव्यम् । एतत् पितृवचनं मयात्वन्यथा ति—पितुति | पितृवचनकरणं सत्यंचएकैकमेवध- नक्रियतइतिसंबन्धः । हियस्मात् पितृवचनं कुर्वन्कश्चि- र्ममूलंकार्य किंपुनर्मिलितमितिभावः ॥ ४४ ॥ एवंसत्य- न्नहीयतेनाम । नामेतिप्रसिद्धौ ॥ ३८ ॥ पुनः अन- रहस्यमुक्त्वाशमस्यतत्वमाह - तदिति । अनार्थी दुष्टां न्तरमित्यर्थः ॥ ३९–४० ॥ सत्यस्य धर्मस्य | अभि- पितरमपिहत्वाराज्यंकुर्यामित्येवंरूपां । क्षत्रधर्माश्रितां प्रायं रहस्यं । अविज्ञायमममातुः अतुलंमहद्दुःखं जा- केवलशूरधर्माश्रितां । रौद्रशाठ्यसहितक्षत्रधर्माश्रिता- ऋषिणापिमन्त्रद्रष्ट्रापिपितृवाक्यतोगौर्हता । तस्मात्पितृवाक्याकरणेमहानधर्मइतिसूचितं | स० पितुर्वाक्यंघर्मंजानता। अथवा गो- हनन अधर्मजानता ॥ ३२ ॥ ती० अवाप्तः सुमहान्वधइत्यनेनप्राणान पिपरित्यज्यपितृवाक्यंपरिपालनीयंकिमुत कियत्कालवनवास- मात्रेणेत्याशयः सूचितः । स० यद्वातुरिवार्थः । सगरस्यगरपायिनोवधइव | तेनसगरस्येत्यधिक मितिशङ्कानवकाशः ॥३३॥ स० कश्चित् ना पुरुषः । अमहीयते नपूज्यतइतिन अपितुमहीयत एवेत्यर्थोवा ॥ ३८ ॥ शि० अपिनासत्यतिं । ति० अनो- इ- । [ पा० ] १ ङ. च. छ. झ. ञ. ट. अस्माकंतु. २ च. ञ. भूमिसंप्राप्तः ३ ख. ङ.. छ. झ. ट. वचनकारणात् ४ घ. बहुविधै . ५ क. देव. ६ ङ – ट. परिकीर्तिताः क. कीर्तितास्तव. ७ च. मभिप्रेत्य. ८ ख. चेदमब्रवीत्. ९ क. ज. श्रेष्ठं. १० क. च. ज. तेजश्चैव. ११ ज. दुःखद्दुःखं. क. दुःखमशुभं. १२ ङ. छ. झ. ट. प्रायंनविज्ञाय १३ ङ. छ. झ ञ ट. मप्येतत्पितु. १४ घ, ज. सुसंश्रिय, १५ ङ. च. ज-ट, पुनः १६ ट. तुवचनाद्वीर. १७ कञ. तदेतां. ""