1 सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अयं तु मामात्मभवस्तवादर्शनमारुतः || विलापदुःख समिधो रुदिताश्रुहुताहुतिः ॥ ६ ॥ चिन्ताबाष्पमहाधूमस्तवादेर्शनचित्तजः || कर्शयित्वा भृशं पुत्र निश्वासायास संभवः ॥ ७॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान् ॥ प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ८ ॥ र्कैथं हि धेनुः स्वं वत्सं गॅच्छन्तं नानुगच्छति ॥ अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥९॥ तँथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः ॥ श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥१०॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते ॥ भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११ ॥ भर्तुः किँल परित्यागो नृशंसः केवलं स्त्रियाः ॥ स भवत्या न कर्तव्यो मनसाऽपि विगर्हितः ॥ १२॥ यावज्जीवति काकुत्स्थ: पिता मे जगतीपतिः ॥ शुश्रूषा क्रियतां तावत्सं हि धर्मस्सनातनः ॥१३॥ एवमुक्ता तु रामेण कौसल्या शुभदर्शना || तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४ ॥ एवमुक्तस्तु वचनं रामो धर्मभृतांवरः ॥ भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५ ॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः ॥ राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १६ ॥ इमानि तु महारण्ये विहृत्य नव पञ्च च ॥ वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥ १७ ॥ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा ॥ उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥ १८ ॥ ११५ a आदिशन् प्रदिशन् । कृतान्तः दैवं । यत्र दैवेनिमित्ते | मां शोकवाग्निः शोकाग्निः वैतानिकाग्निः । कर्शयित्वा ॥ ५ ॥ अयंत्वित्यादिलोकत्रयमेकंवाक्यम् । अन्नवि- शुष्कीकृत्य | हिमात्यये शिशिरत । कक्षं गुल्मं । लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभव: देह - चित्रभानुः वन्योग्निरिव | मां प्रधक्ष्यति भस्मीकरि- जः । अदर्शनमारुतः शोकानेरदर्शनजत्वात्तस्यमारु- ष्यति ॥ ६-८ ॥ उत्तरार्धादौतथेत्युपस्कार्यं ॥ ९ ॥ तत्वनिरूपणं । विलापदुःखंप्रलापजंदुःखं तदेवसमि- तथानिगदितमितिस्ववाचोप्यविषयत्वं दर्शयतिमुनिः धायस्य । तस्यतद्वर्धकत्वात् । “आपचैवहलन्तानां" इ- ॥ १० ॥ नवर्तयिष्यति नजीविष्यतीत्यर्थः ॥ ११ ॥ तिसमिच्छब्दाट्टाप् | रुदिताश्रूणि रोदनजाश्रूणितान्ये - नृशंसः नृशंसत्वं । सिध्यतीतिशेषः । मनसापिनक- बहुताक्षिप्ताआहुतिर्यस्य । चिन्ताबाष्पः चिन्तोष्मा र्तव्यः नचिन्तनीयइत्यर्थः || १२ || सः शुश्रूषा स एवमहाधूमोयस्य । तवादर्शनेनहेतुनाचित्तजइतिहे- धर्मापेक्षयापुँल्लिङ्गत्वम् ||१३|| शुभदर्शना धर्म्यबुद्धि- तुमात्रोक्तिः। आगमनचित्तजइतिपाठान्तरं । निश्वास रित्यर्थः ॥ १४ ॥ दाढ्यर्थपुनराहेत्याह — एवमित्या- एवायासः पुरुषप्रयत्नः । समिदादिजन्याग्नेः पुरुषप्रय - |दिना ॥ १५ ॥ मयेति । उत्तरार्धादौसइत्युपस्कार्य त्नजत्वात्तथानिरूपणं । त्वया जलस्थानीयेन । विहीनां ॥ १६ ॥ प्राथमिकपितृवचनपरिपालनानन्तरंतवव- भयं रामगमनेकथमत्रत्यानांजीवन मितिकस्यायोध्याजनस्यभीतिर्नभवेत् ॥ ४ ॥ सत्य० मामात्मभवस्तवेत्येकंपदं । मा रमा माया आत्मभवोब्रह्माताभ्यांस्तवोयस्यासौतथोक्तः ॥ ६ ॥ शि० आगमनचिन्तजः कथमयमागमिष्यतीतिचिन्तनजनितः । त्वयाविद्दीनां मां मां राज्यलक्ष्मींच । प्रधक्ष्यति । अतएवमांमामित्यनयोर्नपौनरुत्यम् । चिन्तजइति बाहुलकाव इतिभट्टाः । अदर्शनचिन्तज इतिपाठेपिअदर्शनजातचिन्ताजनितइत्यर्थः । परेतु अदर्शनस्यमारुतत्वेन निरूपणात्सचिन्त्यइत्याहुरितिभट्टाः । वस्तुतस्त्वेवंपाठे आदर्शनेतिच्छेदः । आदर्शनं नित्यदर्शनं कदा स्यादितिचिन्ताजनितइत्यर्थः । सत्य० तवागमने चिन्तायस्यतत्आगमन चिन्तंमनः तस्माज्जायतइतितथा । विश्वासायासयोस्संभवोयस्मात्सतथा ॥ ७-८ ॥ शि० कथंशब्दोयथार्थकः । क्वचित्तथैवपाठइतिभट्टाः । त्वा त्वां । नानुगच्छतीतिपाठेतुकथमोनयथार्थकत्वं । तत्रोत्तरार्धादौतस्मादितिपूरणीयम् ॥ ९ ॥ ती० यथानिगदितं येनप्रकारे- णनिगदितं ॥ १० ॥ शि० अक्लिष्टकारिणं क्लेशका रिप्रतियोगिक भेद विशिष्टम् ॥ १४ ॥ [ पा० ] १ ग घ. ज. विवास. २ङ. छ. झ ञ ट गमनचिन्तजः ३ ख. ङ. छ. झ. ट. sधिकं. ४ ङ. छ. झ ञ. ट. यथाहि. ५ ङ. छ. झ ञ ट गच्छन्तमनु. ६ ङ. च. छ. झ ञ ट . यत्रवत्स. क. ख. ग. घ. ज. यत्रपुत्र. ७ क. च. छ. झ ञ ट यथा. ८ च. मास्थिते. ९ क. ग. घ. ङ, छ ज झ ट पुनः १० च. सच ११क. कौसल्यारामेण . १२ क. इदानीं. १३ ङ. छ. झ ञ ट प्रीत्या. १४ ग. घ. ज. दुःखान्यसहमानासाकौसल्याराममब्रवीत्. १५ ङ. च. छ. झ ञ ट सुतवत्सला. ख. पुत्रलालसा.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति