१६८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ मन्ये खलु मया पूर्व विवत्सा बहवः कृताः ॥ प्राणिनो हिंसिता वाऽपि तस्मादिदमुपस्थितम् ||४|| न त्वेवानागते काले देहाव्यवति जीवितम् || कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५॥ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् || विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६॥ ऍकस्याः खलु कैकेय्याः कृतेऽयं क्लिंश्यते जनः ॥ स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ||७ एवमुक्त्वा तु वचनं बाप्पेण पिहितेन्द्रियः ॥ रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक है ॥ ८ ॥ संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः | नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥ औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ॥ प्रापयैनं महाभागमितो जनपदात्परम् ॥ १० ॥ एवं मन्ये गुणवतां गुणानां फलमुच्यते || पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ ११ ॥ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ॥ योजयित्वाऽऽययौ तत्र रथमश्वैरलंकृतम् ॥ १२ ॥ "तं रथं राजपुत्राय सूतः कनकभूषितम् || आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥ • राजा सत्वरमाहूय व्याटतं वित्तसंचये || उवाच देशकालज्ञं " निश्चितं सर्वतः शुचिम् ॥ १४ ॥ वासांसि च महार्हाणि भूषणानि वैराणि च ॥ वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ १५ ॥ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ॥ प्रायच्छत्सर्वमाहत्य सीतायै सममेव तत् ॥ १६ ॥ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ॥ भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥ व्यराजयत वैदेही वेश्म तत्सुविभूषिता | उद्यतोंशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥ तां भुजाभ्यां परिष्वज्य वर्वचनमब्रवीत् || अनाचरन्तीं कृपणं मूर्युपाघ्राय मैथिलीम् ॥ १९ ॥ असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ॥ भर्तारं नानुमन्यन्ते विनिपातंर्गतं स्त्रियः ॥ २० ॥ 22 विवत्साः धेनवइतिशेष: । उपस्थितमित्यत्रेतिकरणंद्र- | त्वाययावित्यत्र आययावितिपदच्छेदः ॥ १२–१३॥ ष्टव्यं । इतिमन्यइत्यन्वयः ||४|| काले देहारम्भककर्म- वित्तसंचये कोशगृहे | व्याप्तं अध्यक्षत्वेनव्याप्तं ध विनाशकाले ।। ५–६ ।। निकृतिः शाठ्यं । “कुसृति- नाध्यक्षमित्यर्थः । निश्चितं यावदवस्थिततत्तद्वस्तुविष र्निकृतिःशाठ्यं” इत्यमरः । निकृतिंसंश्रित्य स्वार्थेप्रयत- यनिश्चितज्ञानवन्तं । शुचिं बाह्यान्तरशुद्धियुक्तं ॥ १४ ॥ मानायाइत्यन्वयः ॥ ७-८ || नेत्राभ्यामित्युपलक्षणे | वर्षाण्येतानि संख्याय गणयित्वा । चतुर्दशवर्षपर्याप्ता- तृतीया ॥ ९ ॥ औपवाह्यं उपवहनमानयोग्यं । युद्धा- न्यानयेत्यर्थः ||१५|| प्रायच्छत् कोशाध्यक्षइतिशेषः । नर्हमित्यर्थः । राजयोग्यमितिवार्थः । युक्त्वा योज- समं युगपत् । तत्सर्वमित्यन्वयः ।। १६ ।। सुजाता यित्वा ॥१०॥ गुणवतां पुंसांसंबन्धिगुणानां फलंयदु- सुजन्मा । अयोनिजेतियावत् । “सम: समविभक्ताङ्गः” च्यते तत् एवं एवंविधं। मन्ये अननुरूपंमन्ये । एवंश- इतिवत्सामुद्रिकोत्तलक्षणवत्तयाउत्पन्नानि ॥ १७ ॥ ब्दार्थमाह—पित्रेति । यस्मात्साधुर्वीर: पित्रामात्राच अंशुमतः प्रशस्तकिरणस्य ॥ १८ ॥ श्वश्रूः कौसल्या । वनंप्रतिनिर्वा|स्यते । अतो गुणा नार्जनीयाएवेतिभावः कृपणं क्षुद्रं | अनाचरन्तीं अकुर्वतीं ॥ १९ ॥ असत्यः ॥ ११ ॥ शीघ्रविक्रमः शीघ्रपदविक्षेपः । योजयि - कुलटा: | विनिपातगतं स्वस्थानात्प्रच्युतिं प्राप्तमित्यर्थः । स० विवत्साः विगतपुत्राः ॥ ४ ॥ ति० आच्छाद्यते अनेनेत्याच्छादः । तापसानामाच्छादयस्यतं ॥ ६ ॥ ति० साधुवरो रामः पित्रामात्राचचनं निर्वास्यतेयत् अतोगुणवतांपुंसांगुणानांफलं एवंनिर्वासनरूपमुच्यते । शास्त्रेणेतिमन्येइतिदुःखातिशयादुक्तिः । उत्प्रेक्षालङ्कारः ॥११॥ ति० आचचक्षे रथउपस्थितइत्युक्तवान् ॥ १३॥ ति० सर्वतश्शुचिः इहामुत्रानृणः ॥१४॥ ति० एता । [ पा० ] १ ङ. छ. झ. ट. तन्मामिदं. २ घ. सोहं. ज. योयं. ३ ङ. च. ञ. आच्छादनात्मजं. ४ ख. एतस्याः. ५ ङ. छ. ट. खिद्यते. ६ झ विहतेन्द्रियः, ग. ज. पिहितेक्षणः ७ छ. झ. ट. सः. ८ च. ञ. योज्य. ९ घ. जनपदावहिः. १० घ. पापं. ११ ज. मात्रापित्रा. १२ तंरथमितिश्लोकेपूर्वोत्तरार्धयोः पौर्वापर्य छ. पुस्तकेदृश्यते १३ क— ङ. छ. ज. झ. ट. देशकालज्ञो. १४ घ. निष्ठितं. १५ ङ च छ. झ. शुचिः १६ ग. ङ. च. छ. झ. ज. ट. वरार्हाणि १७ छ. स. महा- न्तिच. १८ ख० वर्षाणितानि. १९ क. ङ, छ. ज. झ. ट. क्षिप्रमेव. क. सर्वमेव. २० घ. व्यराजयच. २१ घ. गताः.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति