पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् || सुमन्त्रः संतानश्वान्वायुवेगसमाजवे ।। १८ ।। मँतियाते महारण्यं चिररात्राय राघवे । बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ १९ ॥ तत्समाकुलसंभ्रान्तं मतसंकुपितद्विपम् ॥ हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ २० ॥ ततः सबालवृद्धा सा पुरी परमपीडिता || राममेवाभिदुद्राव घेर्मार्ता सलिलं यथा ॥ २१ ॥ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः || बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिस्वनाः ॥ २२ ॥ संयँच्छ वाजिनां रश्मीन्स्त याहि शनैः शनैः ॥ मुखं द्रक्ष्याम रामस्य दुर्दर्श नो भविष्यति ॥ २३ ॥ आयसं हृदयं नूनं राममातुरसंशयम् || यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २४ ॥ कृतकृत्या हि वैदेही छायेवानुगता पतिम् ॥ न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २५ ॥ अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम् ॥ भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २६ ॥ महत्येषा हि ते 'सिद्धिरेष चाभ्युदयो महान् ॥ एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २७ ॥ एवं वदन्तस्ते सोडुं न शेकुंर्बाष्पमागतम् || नरास्तमनुगच्छन्तः प्रियमिक्ष्वांकुनन्दनम् ॥ २८ ॥ अथ राजा वृतः स्त्रीभिनाभिर्दीनचेतनः ॥ निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् ॥ २९ ॥ शुश्रुवे चाग्रतः स्त्रीणां सैदन्तीनां महावनः ॥ यथा नाद करेणूनां बद्धे महति कुञ्जरे ॥ ३० ॥ पिता हि राजा काकुत्स्थः श्रीमान्सन्नस्तैदाऽभवत् || परिपूर्णः शशी काले ग्रहेणोपडतो यथा ॥ ३१ ॥ स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ॥ सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ ३२ ॥ रामो याहीति सूतं तं " तिष्ठेति स जनस्तदा ॥ उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३३ ॥ निर्गच्छति महाबाहौ रामे पौरजनश्रुभिः ॥ पतितैरभ्यवहितं प्रशशाम महीरजः ॥ ३४ ॥ १.७४ - सीताऽऽत्मनोलंकारंकृत्वा यानिश्वशुरोददौ यानिभ्रा- | षणरवेणसंजातघोषमित्यर्थः । " भूषणानांतुशिञ्जि- तृभ्यामानीतानिआयुधजालानिकवचानि सचर्मकठि- तं " इत्यमरः । अतएवमहास्वनमासीत् ॥ २० ॥ नंच तत्सर्वैरथोपस्थेप्रतिन्यस्यारुरोहेत्यन्वयः ।। १६- परमपीडिता रामविरहदुःखेनेतिशेषः ॥ २१॥ लम्ब- १८ ॥ चिररात्राय चिरकालं | नगरेमूर्च्छाबभूव मानाः रथैकदेशमाश्रित्येतिशेषः ॥२२–२३॥ देवग- नगरस्थस्त्रीबालादिषुदुःखातिशयेनविसंज्ञताबभूवेत्य- र्भप्रतिमे देवकुमारसदृशे ॥ २४ ॥ मेरुमर्कप्रभायथे- र्थः । बलमूर्च्छा अश्वगजादिमोह: । जनस्य उत्सवा- ति सूर्यस्यप्रादक्षिण्येनमेरुगमनमितिसर्वदातस्यमेरुसं- र्थमागतजनपदुजनस्य ॥ १९ ॥ समाकुलं अन्त:- | बन्धोस्त्येव ॥ २५ – ३० || सन्नः अवसन्नतेजाइत्य- करणक्षोभयुक्तं । संभ्रान्तं बाह्येन्द्रियक्षोभयुक्तं । सर्वे- र्थः ॥ ३१ ॥ अचिन्त्यात्मा इयत्तयापरिच्छेत्तुमशक्य- न्द्रियक्षोभवत्पौरजनयुक्तमित्यर्थः । मत्तसंकुपितद्विपं धैर्यइत्यर्थः || ३२ || याहितिष्ठेति उभयत्राचोदयदि- व्यसनातिशयेनसंकुपितमत्तद्विपमित्यर्थः । हयशि- |तिशेषः । उभयं यानंस्थानंच | अध्वनिरामजनाभ्यां जितनिर्घोषं परितापातिशयेनततइतञ्चलतांयानांभू- | चोदितःसन् कर्तुनाशकत् ॥ ३३ ॥ अभ्यवहितं सिक्तं बनं” इतितदुक्तिः ॥ १५ ॥ ति० संमतान् संमतसर्वलक्षणान् । स० संमतान् सम्यग्ज्ञातगुणकान् ॥ १८ ॥ ति० चिर- रात्रायेत्यव्ययम् । चिरकालावस्थित्यर्थमित्यर्थः । स० बलेनमूर्च्छा समुच्छ्रयोयस्यजनस्यसतथा । ततःकर्मधारयः । “मूर्च्छा- ‘मोहनसमुच्छ्राययोः” इतिधातुव्याख्यानात् ॥ १९ ॥ स० घर्मार्तःआतपार्तः । “घर्मस्स्यादात पे” इतिविश्वः ॥ २१ ॥ ति० देवगर्भप्रतिमे स्कन्दतुल्ये । यद्वा देवगर्भो देवनिधिर्हिरण्यगर्भस्तत्प्रतिमे । स० वेदगर्भप्रतिमइ हिरण्यगर्भसदृशइत्यर्थः ॥ २४ ॥ ति० करेणूनां तत्पालकवृद्धकरिणीनां ॥ ३० ॥ ति० अभ्यवहितं रथनेयुद्धतम् ॥ ३४ ॥ [ पा० ] १ ङ. च. झ – ठ. रथमचोदयत् २ च. न. संयतान्. ३ क – च. ज. झ. न. ठ. प्रयातेतु. ४ घ. संकुलित. ५ घ. झ. ट. ठ. धर्मार्तः ६ घ. ज. भृशदुःखिताः ७ क. ख. संयम्य ८ ञ दैवसंकाशं. ९ ङ. झ ठ. बुद्धिः १० श्व. बाष्पमूच्छितं. ११ ङ. झ. रुदतीनां १२ क- घ. ज. पिताच. १३ क— ठ. स्तदाबभौ १४ घ – छ. झ. ज. ट. तंसूतं. १५ घ. झ. टे. ठ. तिष्ठेतिच. १६ घ. रभ्युपहितं. १७ ङ. छ. झ ट ठ प्रणनाश.