१८०. श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् || नगरान्तमनुप्राप्तं बुद्धा पुत्रमथाब्रवीत् ॥ १३ ॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम् ॥ पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ||१४|| यः सुखेषूपधानेषु शेते चन्दनरूषितः ॥ वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५ ॥ स नूनं कचिदेवाद्य वृक्षमूलमुपाश्रितः ॥ काष्ठं वा यदि वाऽश्मानमुपधाय शयिष्यते ॥ १६ ॥ उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ॥ विनिश्वसन्प्रस्रवणात्करणूनामिवर्षभः ॥ १७ ॥ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः || राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८ ॥ सा नूनं जनकस्येष्टा सुता सुखसदोचिता ॥ कण्टकामणाक्रान्ता वनमद्य गमिष्यति ॥ १९ ॥ अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ॥ श्वापदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥ २० ॥ सकामा भव कैकेयि विधवा राज्यमावस || न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥ इत्येवं विलपत्राजा जनौघेनाभिसंवृतः ॥ अपस्नात इवारिष्टं प्रविवेश पुँरोत्तमम् ॥ २२ ॥ शून्यचत्वरवेश्मान्तां संवृतापर्णोदेवताम् || क्लान्तदुर्बलदुःखार्ती नात्याकीर्णमहापथाम् ॥ २३ ॥ तामवेक्ष्य पुरीं सर्वा राममेवानुचिन्तयन् || विलपन्प्राविशद्वाजा गृहं सूर्य इवाम्बुदम् ॥ २४ ॥ " अरिष्टे "" स्य ।। १२–१४ ॥ वीज्यमान: चामरव्यजनादिभि- | त्तिंशङ्कमानस्तद्वारारामविपत्तिंतन्मुखेनस्वस्थापिविना- रितिशेषः । स्त्रीभिः परिचारिकाभिः ॥ १५ - १६ ॥ शंशङ्कितवान् । अतएवसीताद्वारा रामविपत्तिशङ्कया प्रस्रवणात् निर्झरात् । तत्समीपादित्यर्थ: । “उत्स:प्रस्रव - सकामाभवकैकेयीत्युक्तवान् । स्वविनाशाभिप्रायेण णंवारिप्रवाहोनिर्झरोझरः” इत्यमरः ||१७|| अनाथवत् विधवाराज्यमावसेत्युपदर्शितवांश्च । तेनापस्नातइवे- गच्छन्तमित्यन्वयः।।१८।। सुखसदोचिता सुखस्यसदो- त्युक्तिः राजबुद्ध्यनुसारादुचितैव ॥ २२ ॥ शून्यच- चिता। कण्टकेष्वाक्रमणं पदविक्षेपः ॥१९॥ श्वापदान- त्वरवेश्मान्तां निर्जनचतुष्पथगृहद्वारां । संवृतापणदे- र्दितं श्वापदाः व्याघ्रादिहिंस्रपशवः तेषां आनर्दितं शब्दं वतां पिहितापणदेवतागृहद्वारां । क्वान्तदुर्बलदुःखार्ती ।। २०-२१ ।। अपस्त्रातः मृतस्त्रातः । " अपस्नातो चिन्तातिरेकेणकान्ता रामविरहेणनिःसत्वाः दुःखार्ता - मृतस्त्रातः इत्यमरः । अरिष्टं अशुभं । तुशुभाशुभे ” इत्यमरः । ननु राममनुगम्यपुनःपुरप्र- श्च जनाः यस्यां तथा । अनेनसंचारक्षमाः सर्वेरामम- वेशसमये अपस्नातोरिष्टमितिकथमश्लीलमुक्तं । सत्यं नुगताइतिद्योत्यते । नात्याकीर्णमहापथां क्वचित्क्वचिद्दृ- दशरथोहितदानीं नूनंभयमुपैष्यतीत्यादिनासीताविप - श्यमानजनयुक्तमहापथामित्यर्थ: । अवान्तरमार्गा- र्तत अन्तर्णीतण्यर्थः ॥ १० ॥ ति० आत्मानंनगरान्तं नगरसमीपंप्राप्तंबुद्धा पुत्रंचाप्राप्तंबुद्धा अब्रवीदितितकः । यद्वा पुत्रनगरान्तं नगरबायंदेशंप्राप्तंमवेत्यर्थः । स० बुद्धा तथाज्ञात्वा । तचिन्तनैकनिरतत्वात्तथा भ्रमोजातइतिभावः ॥ १३ ॥ स० राममागतंबुद्धानदृश्यतइत्युक्त्या तद्विरहहेतुकोमोहइतिध्वन्यते ॥ १४ ॥ ती० अरिष्टंसूतिकागृहं तद्वत्कश्मलं | शि० उपसंहरन्नाह - इतीति । तपस्नातः अपगतंत्रातं स्नान॑यस्य अकृतस्नानइत्यर्थः । किंच अपस्नातं अपस्नाः स्नानाभाव इत्यर्थः । भावेक्विप् । आंअततिप्राप्नोतीत्यपस्नानः | पचाद्यच् | किंच पानं पः | पानार्थकपाधातोर्घजर्थेकः । जलपानादिरित्यर्थः । तस्याभावोऽपः । अपेस्नातो निरतः अपस्नातः । स्त्राधातोर्निरतार्थत्वंतु मन्त्रस्नातइत्यादौप्रसिद्धम् । तथाचाकृतभोजनादिरित्यर्थ - स्संपन्नः । किंच पानंपः । रक्षणार्थकपाधातोः कः । तस्याभावःअपः तत्रस्नातोनिरतः अपस्नातः । इतःप्रभृतिपृथिवीराज्यंनकरिष्या- भीतिप्रतिज्ञातवानितिभाषः । किंच नपीयेतेइत्यपौ अश्रुप्रस्खेदौ ताभ्यांस्त्रातः प्रस्खेदानुक्लिन्नशरीरकइत्यर्थः । राजा अरिष्टं रामवियोगिनामतिहिंसकमिव पुरोत्तममयोध्यांप्रविवेश । “अपस्नातोमृतस्त्रातः" इतिकोशघटकीभूतापस्नातशब्दस्तु अपोपसर्ग- पूर्वकस्नातप्रकृतिकनिष्ठान्तइति नात्रतद्विषयता । एतेन अपस्नातोमृतस्नातइतिभट्टभूषणायुक्तिश्चिन्त्या । अमाङ्गलिकत्वेनतस्ये- हासंभवात् ॥ २२ ॥ ती० शून्याः संमार्जनरहिताः चत्वरंचतुष्पथवेश्मनामन्ताःमध्यप्रदेशाश्चयस्यांतां । ति० संवृतापणवेदिकां [ पा० ] १ च. झ. सदुःखार्तः. क. छ. सुदुःखार्तः २ ङ. छ. ज. झ. ठ. सुखेनोपधानेषु. ३ च. महाबाहुः ४ च. नरोत्तमः, ५ क. ग – झ. ठ. क्रमणक्लान्ता ६ ङ. छ. झ. ठ. गृहोत्समं. ७ ङ. छ. झ. ठ. वेदिकां.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति