पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः || धर्मावाप्तिं च विपुलामंर्थावाप्तिं च केवलाम् ॥ ५ ॥ सोहं प्रियतमं रामं शयानं सह सीतया || रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ ६ ॥ नॅ हि मेऽविदितं किंचिद्वनेऽसिंञ्चरतः सदा ॥ चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ॥७॥ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयाऽनघ || नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥ कथं दाशरथौ भूमौ शयाने सह सीतया || शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥९॥ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ॥ तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥ यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः ॥ एको देशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ ११ ॥ अस्मिन्त्राजिते राजा न चिरं वर्तयिष्यति ॥ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १२ ॥ वनद्य सुमहानादं श्रमेणोपरताः स्त्रियः || निर्घोषोपरतं चातो मन्ये रॉजनिवेशनम् ॥ १३ ॥ कौसल्या चैव राजा च तथैव जननी मम || नाँशंसे यदि जीवन्ति सर्वे ते शँर्वरीमिमाम् ॥ १४ ॥ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया || तदुःखं यत्तु कौसल्या वीरसूनिशिष्यति ॥ १५ ॥ अनुरक्तजनाकीर्णा सुखालोकप्रियावहा || राजव्यसनसंसृष्टा सो पुरी विनशिष्यति ॥ १६ ॥ कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः || शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः ॥ १७ ॥ विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति || अनन्तरं च माताऽपि मम नाशमुपैष्यति ॥ १८ ॥ ॥ ४ ॥ आशंसे प्रार्थये । केवलामर्थावाप्तिं अर्थावा- | यज्ञादिभिः | एकः मुख्यः । “एकेमुख्यान्यकेवला: " प्तिमेवेत्यर्थः । केचित्तुकेवलमितिपठित्वा केवलंप्रसा- इत्यमरः । सदृशलक्षण: स्वसदृशलक्षण: ॥ ११ ॥ दादितियोजयन्ति ॥ ५ ॥ सर्वतः सर्वदिक्षु ॥ ६ ॥ वर्तयिष्यति जीविष्यति । विधवा पतिरहिता ॥ १२ ॥ अविदितमितिपदच्छेदः । किंचित्विरोध्यागमनस्थानं । उपरता: भविष्यन्तीतिशेषः । अतएव निर्घोषोपरतं बलं परकीयं । प्रसहेमहीत्येतदात्मनिबहुवचनंजात्य- उपरतनिर्घोषंभविष्यतीतिमन्ये ॥ १३ ॥ सर्वेजीवन्ति पेक्षया ।। ७–८ ।। भीत्यभावेकिमर्थजागरणमित्या- जीविष्यन्तीतिनाशंसे । यदिजीवन्ति इमांशर्वरीमेव हे — कथमिति | निद्रानलभ्यतइतिभावः । जीवितं आश्वासनं । निद्रैवनलभ्यते जीवितसुखानांकाकथेति || १४ || शत्रुघ्नस्यान्ववेक्षया शत्रुघ्नस्त्रेहेनेत्यर्थः । भावः ॥ ९ ॥ प्रसहितुमिति । “तीषसह — " इत्या - पुनः पुनदर्शनेनवा | वीरंपुत्रंसूतइतितथा कौसल्या दिनापाक्षिकइट् । संविष्टं शयानं ॥ १० ॥ मत्रत - विनशिष्यतीतियहुःखंत दु:सहमित्यर्थः ॥ १५ ॥ रा- पसा मंत्रयुक्ततपसा मत्रतपोभ्यामित्यर्थः । परिश्रमैः | जव्यसनसंसृष्टा राजमरणनिमित्तव्यसनसंयुक्तेत्यर्थः “दंभस्तुकैतवेतल्पे” इतिविश्वः । शि० सन्तापसंतप्तः लक्ष्मणदुःखदर्शनजनितसंतापवान् गुहः ॥ १ ॥ ति० संतरेमहि युद्धेनजयेम ॥ ७ ॥ स० श्लोकद्वयमेकवाक्यं । हेतत आज्ञयाव्याप्तगुह अत्रारण्येभीतास्संतः वयंत्वयानरक्ष्यमाणाइतिन किंतु ·धर्ममेवांनुपश्यतामयानिद्रालब्धुंकथंशक्या । यद्वा त्वयानरक्ष्यमाणाः यतोरामेणरक्ष्यमाणाः तस्मान्नात्रभीताः । ति० ततोवाच ततउवाचेतिच्छेदः । आर्षस्सन्धिः ॥ ८ ॥ ती० मन्त्रोगायत्र्यादिः | तपःकृच्छ्रादि | पराक्रमैः परेषांमहतां आक्रमैः आगमैः आशीर्भिरित्यर्थः ॥ ११ ॥ स० उपरताः यदेतिशेषः ॥ १३ ॥ शि० कौसल्यादयः इमांशर्वरीरात्रिं यदिजीवन्ति अतिमू- छैनप्राप्नुवन्तीत्यर्थः । तदाऽहं आशंसे तद्धैर्यप्रशंसांकरिष्यामीत्यर्थः ॥ १४ ॥ ति० यदि यत् ॥ १५ ॥ स० पुत्रं पुन्नामनर- कात्रातारं ज्येष्ठपुत्रं प्रथमापत्यं । यद्वा पुत्रं सुतं ज्येष्ठपुत्रं पुत्रेषुज्येष्ठोज्येष्ठ पुत्रःतं ॥ १७ ॥ शि० नृपतौविनष्टे लोकान्तरगमन- [ पा० ] १ ग. च–ट. मर्थकामौचपुष्कलौ. ख. मर्थकामौचकेवलौ २ पुष्कलां. ३ क – ट. प्रियसखं. ४ ङ. छ. झ. ञ. ट. सर्वथा. ५ ख. ग. ङ – ट. नमेस्त्यविदितं. ६ ङ. छ. ज. झ. ट. त्संतरेमहि ७ ङ. छ. झ - ठ. लक्ष्मणस्तुततोवाच. ९ ङ. छ. झ, ञ, ट. सुखसंसुप्तं . ज. गुहसंविष्टं १० ग. ङ–ट. पराक्रमै ११ ङ.ट. दशरथस्यैष. १२. ख. ग. ङ-झ. ट. प्रव्रजिते. १३ घ. क्षिप्रमेषा. १४ क. ख. ध – ट. तात. १५ ख. ग. ङ. छ. टं. रामनिवेशनं. १६ ८. आशंसे. १७ क.. रजनीमिमां. १८ क. डट. यदि. १९ ज, सुखलोक. २० ख. संतप्ता. २१ क. पुरीसा. २२ क. ङ. छ. झ–ठ. ज्येष्ठपुत्रं. ग. च. ज. ज्येष्ठंसन्तं. ८ ठ. स्त्वयानच. 66