२१ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा ॥ दृष्ट्वा दूरगतं रामं दुःखात रुरुदे चिरम् ॥ २० ॥ तेतस्तु विगते बाप्पे सूतं स्पृष्टोदकं शुचिम् ॥ रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम् ॥ २१ ॥ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ॥ यथा दशरथो राजा मां न शोचेत्तथा कुरु ॥ २२ ॥ शोकोपहतचेताश्च वृद्धश्च जगतीपतिः ॥ कामभारावसन्नश्च तस्मादेतद्रवीमि ते ॥ २३ ॥ यद्यदाज्ञापयत्किञ्चित्स महात्मा महीपतिः ॥ कैकेय्याः प्रियकामार्थ कार्ये तदविकाङ्क्षया ॥ २४ ॥ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ॥ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥ २५ ॥ यँद्यथा से महाराजो नालीकमधिगच्छति ॥ न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ॥ २६ ॥ अदृष्टदुःखं रौंजानं वृद्धमायें जितेन्द्रियम् ॥ ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः || २७ ॥ नैवाह मनुशोचामि लक्ष्मणो न च " मैथिली ॥ अयोध्यायायुताश्चेति वने वत्स्यामहेति च ॥ २८ ॥ चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः ॥ लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ॥ २९ ॥ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे || अन्याश्च देवी: सहिताः कैकेयीं च पुनः पुनः ॥ ३० ॥ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् || सीताया मम चौर्यस्य वचनालक्ष्मणस्य च ॥ ३१ ॥ याच हि महाराजं भरतं क्षिप्रमानय || आगतथापि भरतः स्थाप्यो नृपमते पदे ।। ३२ ।। १२ । अतएवपापायाःकैकेय्यावशंदुःखभागिनःसन्तः एष्या- | तिविपरिणामः कर्तव्यः । वत्स्यामहेत्यत्र आर्षःसन्धिः मः अतोवयंह॒ताइत्यन्वयः ॥ १८-२० || रोदन - स्याशुचिताहेतुत्वात् स्पृष्टोदकं आचान्तं अतएवशुचिं ।। २१ –२३ || गुरवः स्वामिनश्चननियम्याः अपितु सर्वप्रकारेणानुवर्तनीयाइत्याशयेनाह – यद्यदिति विकाङ्क्षाअनादरःतद्भावेन आदरेणेत्यर्थः ॥ २४ ॥ एतच्छब्दार्थमाह—यदेषामिति । प्रशासतीति अभ्य- स्तत्वाददादेशः । सर्वकृत्येषु कामात्क्रोधाद्वा प्रवृत्तेष्वि- त्यर्थः ॥ २५ ॥ अलीकं अप्रियं । “अलीकंत्वप्रिये- न्यत्रनिषेधात् ऽनृते” इत्यमरः ।। २६ ॥ ममहेतोः मदर्थ ममप्रति - दसंवाहनवर्ज ” इति निषेधस्यसपत्नीमातृष्वपितुल्य- निधित्वेनेत्यर्थः ॥ २७ || स्वविश्लेषजनितदुःखेन त्वात् ॥ ३० - ३१ ॥ नृपमते राज्ञामभिमते । पदे राजा ननिर्वहेदितिभिया तदाश्वासका निवाक्यन्याह यौवराज्यइत्यर्थः । अभिषिच्य स्थितमितिशेषः । — नैवामिति । लक्ष्मणोनचमैथिलीत्यत्र शोचती- | नाभिभविष्यतीत्यत्रेतिकरणंद्रष्टव्यं । अस्यब्रूयाइत्यने- ॥ २८ ॥ पुनः पुनद्रक्ष्यसि । “नित्यवीप्सयोः” इतिद्वि- वचनं । आदरातिशयेनसदाद्रक्ष्यसीत्यर्थः ॥ २९ ॥ राजानं मेमातरं अन्याः देवी सहिताः कौसल्ययास- हवर्तमानाः । कैकेयींचपुनः पुनरेवमुक्त्वा अथकौस- ल्यामारोग्यंपादाभिवन्दनंच ब्रूहीत्यन्वयः । आर्यस्य शास्त्रोदितज्येष्ठानुवर्तनरूपपरमधर्मवेदित्वाल्लक्ष्मणस्या- र्यत्वोक्तिः । कौसल्यांप्रत्येवपादाभिवन्दनकथनम- । " आचार्यवदाचार्य दारेवृत्तिःपा- मन्थरया वञ्चिताः । अकालिकवरयाचनप्रेरणयाप्रलंभिताः । अतएव दुःखभागिनोवयं पापायामन्थरायाःवशमेष्यामः ॥ १९ ॥ ती० आत्मसमं भृत्यस्यस्व स्योचित मितिक्रिया विशेषणं | आत्मसमंत्राणसममितिरामपरंवा । दृष्ट्वा निश्चियेत्यर्थः । ति० आत्मसमं अतिबुद्धिमन्मन्त्रियोग्यं ॥ २० ॥ ति० सुहृदं व्यसनापनोदकं ॥ २२ ॥ ती० कामभारावसन्नः कामवेगेनपीडितः । यस्मात्त- स्मात् एतद्वक्ष्यमाणंब्रवीमीतियोजना ॥ २३ ॥ ती० पुनः पुनः पुनरागतानस्मान् पुनस्त्वंद्रक्ष्यसीतिद्वयोःपुनश्शब्दयोस्संबन्धः ॥ २९ ॥ शिo सहिताः हितत्वयुक्ताः | अन्याञ्चदेवीःराज्ञीः ॥ ३० ॥ ती० आर्यस्य विदुषोलक्ष्मणस्य | ति० सर्वान्प्रत्या ज्येष्ठस्यमम ॥ ३१ ॥ ती० स्वविश्लेषजदुःखनिवृत्तयेसुमन्त्रेखातन्त्र्यमारोप्याह-महाराजमित्यादिश्लोकद्वयेन | [ पा० ] १ क. ख. छ. वनगतं. क. च. दूरंगतं. २ क ततस्त्वपगते. ३ घ. चेतास्तु. ४ ङ. छ. झ ञ. ट. यद्यथा ज्ञापयेत् ५ ग. ज. कामार्थे. ६ ङ. छ. झ ञ ट नराधिपाः ७ क. ख. घ. तद्यथा. ८ ञ. सुमहाराजो. ९ ङ. छ. झ ञ ट. शोकेन. १० ग. ज. राजानमार्यवृद्धं ११ ङ च छ. झ ञ ट नचाहं. १२ ङ. छ. झ ञ ट शोचति. १३ क— ङ. छ – ट. वत्स्यामहेतिवा. १४ ङ. छ. झ. ट. द्रक्ष्य सेशीघ्रमागतान्. १५ च भार्याया. घ. चाप्यस्य १६ ङ. च. छ. झ. ञ. ट. ब्रूयाश्चापि १७ ख. नरपतेः पदे.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति