पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१५ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ॥ आरोग्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ॥ ७६ ॥ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ॥ ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ॥ ७७॥ राघवोपि महातेजा नावमारुह्य तां ततः ॥ ब्रह्मवत्क्षेत्रवञ्चैव जजाप हितमात्मनः ॥ ७८ ॥ आचम्य च यथाशास्त्रं नदीं तां सह सीतया || प्राणमत्प्रीतिसंहृष्टी लक्ष्मणञ्चामितप्रभः ॥ ७९ ॥ अनुज्ञाय सुमत्रं च सबलं चैव तं गुहम् || आस्थाय नावं रामस्तु चोदयामास नाविकान् ॥८० ॥ ततस्तैथोदिता सा नौः कर्णधारसमाहिता || शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ॥ ८१ ॥ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता || वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ॥ ८२ ॥ पुत्रो दशरथस्यायं महाराजस्य धीमतः || निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः ॥ ८३ ॥ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ॥ भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ ८४ ॥' ततस्त्वां देवि सुभगे क्षेमेण पुनरागता || यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी ॥ ८५ ॥ त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे || भार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यसे ।। ८६ ।। सो त्वां देवि नमस्यामि प्रशंसामि च शोभने ॥ प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते ॥ ८७ ॥ तुप् । भीरुमितियावत् । पूर्वारोहणेऽसौबिभीयादिति | रोहणविवृण्वन्नाह – आचम्येत्यादिना ॥७९-८०॥ भावः ॥ ७५ ॥ लक्ष्मणस्तुनिपुणतयाप्रथमंसीतामा कर्णधारसमाहिता समाहितकर्णधारा | शुभस्फ्यवेगा- रोप्यपश्चात्स्वयमारूढइत्याह – स भ्रातुरिति । अप्र- मिहता शुभानांस्क्यानामरित्राणां वेगेनाभिहताप्रणुन्ना तिकूलयन् यथातथावाप्यारोहणशासनमनुतिष्ठन् | | ||८१ – ८२ || निदेशं चतुर्दशवर्षावधिकवनवासविष- आत्मवान् रामाशयज्ञइत्यर्थः । पूर्वमनस्विनीमित्युक्तं यनियोगं | पारयित्वा निर्विघ्नं परिसमाप्य । उष्यउ- इदानीमात्मवानित्युक्तं उभाभ्यामारोपणेदोषशङ्कारा- |षित्वा । प्रत्यागमिष्यति यदेतिशेषः । ततः तदा । सुभगे हित्यंचोक्तम् ॥ ७६ ।। ज्ञातीन् बन्धून् | अचोदयत् सुकीर्ते । “भग: श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु नौःपारंनीयतामित्यचोद्यत् ॥ ७७ ॥ ब्रह्मवत्क्षत्रवदि- इत्यमरः । क्षेमेण कुशलेनसह । यक्ष्ये पूजयिष्यामि । त्यर्हार्थेवतिप्रत्ययः । ब्राह्मणार्हक्षत्रियाई आत्मनोहितं सर्वकामसमृद्धिनीति व्रीह्यादित्वादिनिः ॥८३–८५॥ जजाप दैवींनावमित्यादिब्रह्मक्षत्रसाधारणमन्रजजापे- ब्रह्मलोकंसमीक्षसे ब्रह्मकमण्डल्वांद्रवीभूतधर्मरूप- त्यर्थः । यद्वा ब्रह्मक्षत्रशब्दयुक्तंमत्रंजजापेत्यर्थः । तयास्थित्वाब्रह्मप्रक्षालितविष्णुपादोद्भवत्वादितिभावः । सचमन्त्रः सुत्रामाणमित्यादिः । तत्रारिष्टनेमिः पृत - अतएव विष्णुपादोद्भवामितिपूर्वमुक्तं ।। ८६ ॥ प्रशं- नाजिदितिब्रह्मक्षत्रशब्दौश्रुतौ ॥ ७८ ॥ पूर्वोक्तंनावा- | सामि स्तौमि | शिवेन क्षेमेण | पेशलं रम्यं । तवप्रि- मुण्डननिषेधंप्रतीमइत्यलम् ॥ ७१ ॥ ती० जजाप " सुत्रामाणमृचानावमारुहेदपउत्तरेत्” इतिक्षत्रियाधिकारेणस्मरणात् "देवीं नावं" इत्यादिब्रह्मक्षत्रसाधारणमन्त्रंजजापेत्यर्थः । शि० ब्रह्मवत् वेदप्रवर्तकः महातेजाराघवः क्षत्रवत् क्षत्रियकुल विहितंयथा- भवतितथा । आत्मनोहितं स्वप्रापकंमन्त्र विशेषंजजाप | एतेन तन्मन्त्रोच्चारणेरामस्यप्रीत्यतिशयोध्वनितः ॥ ७८ ॥ ति० गङ्गाया महादेवतात्वात्स्त्रीदेवतात्वाचसीताप्रार्थितवतीत्याह – मध्यमिति | शि० अनिन्दिता आश्रितानांनिन्दितत्वनिवर्तिका ॥ ८२ ॥ ति० पालयतु पारयतु समापयत्वितियावत् । रलयोः समानश्रुतित्वात् ॥ ८३ ॥ ति० सर्वकामसमृद्धिनी सर्वकामसमृद्धं सर्व- कामपूरणमस्या अस्ति दातव्यत्वेनेत्यर्थः ॥८५ ॥ ति० संमक्षसे व्याप्नोषि | अक्षव्याप्तौसंघातेच | स० त्रिपथगेत्रीन्पथान्गच्छती- तित्रिपथगा । “वाटःपथश्चमार्गश्च” इतित्रिकाण्डशेषामरः । यद्वा त्रयाणां पथांसमाहारस्त्रि पथं भूर्भुवस्स्वराख्यं तेनगच्छती- तितथा तस्यास्संबुद्धिः । ब्रह्मलोकं सत्यलोकं ॥ ८६ ॥ । [ पा० ] १ ज. तदा २ घ. त्क्षत्रवच्चापि ३ क. ख. च. ज. ञ. प्रणमत्प्रीतिसंहृष्टो. ङ. झ. ट. प्रणमत्प्रीतिसंतुष्टो. घ. प्रणमत्प्रीतिसंयुक्तो. ४ ख. ङ. छ. झ. ट. लक्ष्मणश्चमहारथः. ५ ङ. छ. झ ट चालितानौका च. ज. व. श्रोदितानौका, ६ च. ज. गंगासलिलं. ७ क. अत्ययात्. ८ च. पालयिलैव. ङ. छ. झ ञ ट . पालयत्वेनं. ज. पारयित्वैनं. क. ख. पारयत्वेष. ग. पारयत्वेनं. ९ च. प्रमुदिते १० च ज कामप्रदायिनि क – घ. कामप्रसाधिनि ११ ङ च छ. झ ञ ट त्रिपथगे १२ झ समक्षसे. १३ क. तत्त्वां V