1 २३० “ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् || शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ २३ ॥ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ॥ कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ २४ ॥ मृगं हृत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण ॥ कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ २५ ॥ आतुर्षचनमाज्ञाय लक्ष्मणः परवीरहा || चकार स यथोक्तं च तं रामः पुनरब्रवीत् ॥ २६ ॥ ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् || त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोप्ययम् ॥ २७ ॥ स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ॥ अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥२८॥ . तं तु पकं समाज्ञाय निष्टप्तं छिन्नशोणितम् || लक्ष्मण : पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ २९ ॥ अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा ॥ देवतां देवसंकाश यजस्व कुशलो ह्यसि ॥ ३० ॥ रामः स्नात्वा तु नियतो गुणवाञ्जयकोविदः ॥ संग्रहेणाकरोत्सर्वान्मन्त्रान्सत्रावसानिकान् ॥ ३१ ॥ इष्ट्वा देवगणान्सर्वाविवेशावसथं शुचिः ॥ बभूव च मनोहादो रामस्यामिततेजसः ॥ ३२ ॥ निष्ठितां निश्चलां वातादिनाचालयितुमशक्यां भित्ति - | २६ || श्रपयस्व पच । अयंमुहूर्तः ध्रुवः स्थिरः । अ- सहितां परिनिष्पन्नां । बद्धकटां कुड्यार्थेकल्पितास्त- यंशोभन तिथिनक्षत्रयुक्तोदिवसोवासरञ्च ध्रुवः स्थिर रणां बद्धबाह्यावरणांवा। कटेवर्षावरणयोरितिधातुः । इत्यर्थः । [ अयंसौम्यमुहूर्तः शुभमुहूर्तः । अयंदिव- सुदर्शनां शोभनदर्शनां । शुश्रूषमाणं परिचर्याकुर्वन्तं । सञ्च ध्रुवः यजमानस्थैर्यकारी] ॥ २७॥ समिद्धे एकाग्रं इतः परंकिंवाआज्ञापयिष्यतीतिसावधानं||२३|| सम्यग्दीप्ते | जातवेदसि अनौ । चिक्षेप पपाचेत्यर्थः ऐणेयं एणसंबन्धि एणाडुआर्ष: । शालां शालाधि- ॥ २८ ॥ निष्टतं सोष्णं । छिन्नशोणितं ॥ २९ ॥ ष्ठात्रीस्तत्तद्दिग्वासिनीर्देवताः । तास्तु शय्यादेशेका कृष्ण: कृष्णमृगः | समाप्ताङ्गः परिपूर्णावयवः । शृतः मलिङ्गेनदेहल्या मन्तरिक्षलिङ्गे नेत्यादिनगरखण्डप्रति- पक्कः । कृष्णमृगो यथा पूर्णावयवत्वात् पाकतः श्याम- पाद्या: । तादृशयागार्थपूर्वं वास्तुशमनं वास्तुशान्तिः त्वाञ्च पूर्वावस्थइव दृश्यतइत्यर्थः । कुशलोसि यज- गृहप्रवेशाकर्म कर्तव्यं गृहदेशेवर्तमानभूतपिशाचा- समर्थोसि ॥ ३० ॥ गुणवान् प्रायत्यादिगुणवान् । दीनांशमनंकर्तव्यमित्यर्थः । कर्तव्यंचिरजीविभिरित्य- जप्यकोविदः जप्यमन्त्रेषुसमर्थ: । संग्रहेण संक्षेपेण । नेन अकरणेआयुःक्षयोदर्शित: । तदुक्तंब्रह्माण्डपुरा- सत्रावसानिकान् सन्त्रवास्तुयाग: यैर्मन्त्रैरवसीयतेप- णे । “ नचव्याधिभयंतस्यनचबन्धुजनक्षयः । जीवे- रिसमाप्यतेतेसत्रावसाना: सन्त्रावसानाएवसत्राव- द्वर्षशतंस्वर्गकल्पमेवंवसेन्नरः ” इति ॥ २४ ॥ कथं सानिका: । विनयादेराकृतिगगत्वात्स्वार्थेठक् । छा- कर्तव्यमित्यपेक्षायामाह- कर्तव्यइति । शास्त्रदृष्टः |न्दसोवृद्ध्यभावः । अकरोत् यावतावास्तुशान्तिकर्म - शास्त्रेषुनिर्णीतः । विधिः प्रकारः कर्तव्यः । धर्मे तद- समाप्यते तावन्मत्रान् जजापेत्यर्थः । मन्त्रजपपूर्वकं नुकूलधर्मशास्त्रं । अनुस् अवधेहीत्यर्थः ॥ २५ – |कर्माण्यकरोदित्यर्थः ॥ ३१ ॥ देवगणान् वास्तुदेव- नि ॥ २१ ॥ ति० बद्धकटां बद्धकवाटां । छान्दसोवर्णलोपः । यद्वा बद्धच्छदिषं । बद्धःकटः वर्षावारकोयस्यामित्यर्थात् ॥ २३ ॥ ती० वास्तुशब्देन गृहाधिष्ठितशिखिपर्जन्यप्रभृतिपञ्चचत्वारिंशद्देवताउच्यते । तासांशमनंहोम नैवेद्यबलिभिः पूजनं ॥ २४ ॥ बोधाय़नेनोक्तांयज्ञार्थपशुवधदोषशङ्कांनिवर्तयति – कर्तव्यइति । शास्त्रदृष्टः शास्त्रचोदितः । विधिः कर्तव्य एव | धर्ममेवानुस्मर । नात्रहिंसादिदोषप्रसङ्गः । यज्ञविनियुक्तपशूनामुत्तमलोकभागित्वेनवधस्यतेषामनुग्रहत्वाच । “नवाउवेतन्त्रियसेनरिष्यसिदेवा५ इदेषिपथिभिस्सुगेभिः । यत्रयन्तिसुकृतोनापिदुष्कृतस्तत्रत्वादेवस्सवितादधातु” इतिहिश्रूयते । तस्माद्यज्ञेवघोऽवधइतिचस्मर्यंते ॥ २५ ॥ शि० त्वर अत्रविलंबंनकुर्वित्यर्थः । तत्रहेतुःअयंमुहूर्तोध्रुवः ध्रुवसंज्ञकः । निश्चयेनकार्यसाधकइत्यर्थः । ननुपुनरयमा गमिष्यतिकिंत्वरयेत्यतआह । अयं विधिः । दिवसः दिवससंबन्धी । रात्रौनकर्तव्यइत्यर्थः ॥ २७ ॥ ति० सर्वः सर्वकर्मार्हः । स० समस्ताङ्गः शिरआदिसर्वावयवोपेतः । सर्वः हिंसितः । अर्बषर्बहिंसायामितिधातोः “धात्वादेः षस्सः" इतिषस्यसत्वेवब- [ पा० ] १ क. ख. ग. च. ज. मनुस्मरन् २. ङ. झ. चकारचयथोक्तंहि. क – घ. च. झ. ज. ञ. ट. चकारचयथोक्तंस. ·३ क – ट. दिवसोह्ययं. ४ ङ. छ. झ. ट. सर्वः समस्ताङ्गः ५ ङ. छ. झ. उ. मया ६ ग. ङ. छ. ज. झ. ट. देवतादेव. ७ ङ. झ. ट. गुणवाजप. ८ क. ग. घ. च. ज. विवेशवसतिं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति