सर्गः ५६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वैश्वदेववलिं कृत्वा रौद्रं वैष्णवमेव च || वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ॥ ३३॥ जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि ॥ पापसंशमनं रामश्रकार बलिमुत्तमम् ॥ ३४ ॥ वेदिस्थल विधानानि चैत्यान्यायतनानि च ॥ आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ ३५ ॥ वन्यैर्माल्यैः फलैर्मूलैः पकैमसैर्यथाविधि ॥ अद्भिर्जपैश्च वेदोक्तैर्द व संसमित्कुशैः ॥ ३६ ॥ तौ तर्पयित्वा भूतानि राघवौ सह सीतया || तदा विविशतुः शालां सुशुभां शुभलक्षणौ ॥ ३७ ॥ तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् || वासाय सर्वे विविशुः समेताः सभां यथा देवगणा: सुधर्माम् ॥ ३८ ॥ अनेकनानामृगपक्षिसंकुले विचित्रपुष्पस्तव कैर्दुमैर्युते ।। वनोत्तमे व्यालमृगानुनादिते तदा विजहुः सुसुखं जितेन्द्रियाः ॥ ३९ ॥ सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ॥ ननन्द हैंष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥ २३१ ताः । ह्रादस्तुष्टिः ॥ ३२ ॥ वैश्वदेवबलिं वैश्वदेवबलि- | नि । [चैत्यानि देवतास्थानानि । आयतनानि अभ्य- हरणे । रौद्रं रुद्रदेवताकं । वैष्णवं विष्णुदेवताकंच गाराणि । अनुरूपाणि आश्रमस्यानुरूपाणिसूक्ष्माणी- यागं । वास्तुसंशमनीयानि गृहारिष्टशामकानि । म त्यर्थः । स्थापयामास मत्रतस्तत्तद्देवतानांतत्रतत्राव- ङ्गलानि मङ्गलकराणिपुण्याहवाचनशान्तिजपादीनि । स्थानंकल्पितवानित्यर्थः ] ॥ ३५ – ३७ ॥ वृक्षपर्ण- स्नात्वेति पुनःस्नानकरणं “ततः सर्वौषधीस्नानं य॒ज- च्छदनां वृक्षपर्णरूपाच्छादनपटलयुक्तां यथाप्रदेशं मानस्यकारयेत्” इतिस्मरणादित्याहुः । वस्तुतस्तु रौद्र शास्त्रोक्तप्रदेशमनतिक्रम्य | आग्नेय्यांपाकशालेत्यादि यागकरणात्पुनःस्नानं । रौद्रकर्मकरणे अपउपस्पृश्ये- शास्त्रं । सुधर्मी देवसभां " स्यात्सुधर्मादेवसभे" त्यमरः तिविधानादितिज्ञेयम् । पापसंशमनं पापशब्देन ॥ ३८ ॥ पुष्पस्तबकपद कर्णावतंसादिपदवन्निर्वाह्यं । पापप्रधानानिदिवाचरनक्तंचराणिक्रूरभूतान्युच्यन्ते । तेषांसंशमनं । यद्वा पापसंशमनं पञ्चसूनागृहस्थस्ये- म्यभिन्नजलक्रीडापुष्पापचयादिरितिसूच्यते ॥ ३९ ॥ व्यालाः सर्पाः गंजावा । जितेन्द्रियाइत्यनेन विहारोप्रा- त्यायुक्तरीत्यासूनारूपपापशमनं । वैश्वदेवबलिमित्य- त्रभूतबलिमात्रोक्तिः । अत्रतद्व्यतिरिक्तः पित्रादिविष- तां प्रसिद्धां । सुतीर्थी शोभनजलावतरणप्रदेशां । यः । यद्वा पूर्वैवैश्वदेवरूपबलिमित्यर्थः । अत्रसर्वभूत- हृष्ट: पुलकित: पुरविप्रवासात् जनितमितिशेषः बलिः । यद्वा पूर्वोक्तस्यसर्वस्योपसंहारः ॥३३ - ३४॥ ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- वेदिस्थलविधानानि बलिहरणादिवे दिस्थलसंस्थानानि । णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने “वेदिःपरिष्कृताभूमिः” इत्यमरः । चैत्यानि गन्धर्वा - षट्पञ्चाशः सर्गः ॥ ५६ ॥ द्यावासस्थानानि । आयतनानि विष्ण्वाद्यावासस्थला- योरभेदात्सर्वइतिरूपं ॥ ३० ॥ ती० वास्तुसंशमनीयानि वास्तुदोषसंशमनार्थानिगर्भन्यासादीनि ॥ ३३ ॥ ति० पापसंशमनं पापशमनसाधनं बलिं वैश्वदेवबलिमित्युपसंहारेणवादः ॥ ३४ ॥ तो० चैत्यं गणपत्यायतनं ॥ ३५ ॥ इतिषट्पञ्चाश स्सर्गः ॥ ५६ ॥ [ पा० ] १ ख. विमानानि. २ क. र्मूलैः फलैर्माल्यैः ३ क. ख. च. ञ. समिद्गणैः ४ ञ, सुकृतानिवासतां ५ क च. नानाविध ६ च. ज. स्तबकद्रुमैः ७ क. ख. च. ज. झ. रामो. ८ ख. विप्रवासनात.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति