श्रीमद्वाल्मीकिरामायणम् । ["अयोध्याकाण्डम् २ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ॥ सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २५ ॥ स तूष्णीमेच तच्छ्रुत्वा राजा विभ्रान्तचेतनः ॥ मूच्छितो. न्यपतद्भूमौ रामशोकाभिपीडितः ॥२६॥ ततोऽन्तःपुरमाविद्धं मूच्छिते पृथिवीपतौ ॥ उद्धृत्य वाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २७ ॥ सुमित्रया तु सहिता कौसल्या पतितं पतिम् || उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २८ ॥ इमं तस्य महाभाग दूतं दुष्करकारिणः ॥ वनवासादनुप्राप्तं कमान्न प्रतिभाषसे ॥ २९ ॥ अद्येममनयं कृत्वा व्यपत्रपसि राघव ॥ उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता ॥ ३० ॥ देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् || नेह तिष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥३१॥ सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ॥ धरण्यां निपपाताशु बाष्पविष्लतभाषिणी ||३२|| एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ॥ पतिं चावेक्ष्य ताः सर्वाः सुखरं रुरुदुः स्त्रियः || ३३|| ततस्तमन्तः पुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाच मानवाः ॥ स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदाऽऽसीत्पुनरेव संङ्कुलम् ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः || ५७ ॥ २३४ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ दशरथेनसुमन्त्रंमं तिरामाद्यनर्हवनसंचरणाद्यनुशोचनपूर्वकं तत्तद्वचनप्रकारकथनचोदना ॥ १ ॥ सुमन्त्रेणतंप्रतिरामलक्ष्मण- वचनप्रकारस्यसी तावस्थाप्रकारस्यचनिवेदनम् ॥ २ ॥ प्रत्याश्वस्तो यदा राजा मोहाप्रत्यागतः पुनः ॥ अथाजुहाव तं तं रामवृत्तान्तकारणात् ॥ १ ॥ अंथ सूतो महाराजं कृताञ्जलिरुपस्थितः || राममेवानुशोचन्तं दुःखशोकसमन्वितम् ॥ २ ॥ यां” इतिनिष्ठानत्वं । पाण्डुरइतिविशेषणाद्राजलक्ष्मी- | मितियावत् ॥ ३१ ॥ बाष्पेणविप्लुतं विलुप्तं सगद्गदं • नास्तीत्युच्यते ॥ २४ - २५ || तूष्णींभावेहेतुः - यथाभवतितथाभाषिणी ॥ ३२ ॥ एवमिति पतितमि- विभ्रान्तचेतनइति ।। २६ ॥ आविद्धं शोकेनाभिहतं । तिशेषः || ३३ ॥ समीक्ष्य श्रुत्वा । पुनरेवसंकुलं अभूदितिशेषः । मूच्छितेआविद्धमासीत् पतितेबाहू रामगमनकालइवव्याकुलमासीत् ॥ ३४ ॥ इति उद्धृत्यचुक्रोशेतिविशेषः ॥ २७ – २८ ॥ दूतं संदेश- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्ब- हरं । दुष्करकारिण: दुष्करकार्यकारिणः ॥ २९ ॥ राख्याने अयोध्याकाण्डव्याख्याने सप्तपञ्चाशः इममनयं पुत्र विवासनं । सुकृतं शोभनं । शोकेविषये सर्गः ॥ ५७ ॥ सहायतानस्यात् शोकानुवर्तनमाकृथाइत्यर्थः ॥ ३० ॥ व्यसनानुशय कृततूष्णींभावेहेत्वन्तरंकल्पयति–देवे- प्रत्यागतः सूतस्याभिमुखागतः ॥ १ ॥ अथेत्यादि- ति । कैकेयी सेतिशेषः । विस्रब्धं सविश्वासं निःशङ्क- श्लोकद्वयमे कवाक्यं । नवग्रहं सद्योगृहीतं । अस्वस्थ व्याख्या नात्यन्तंसमञ्जसेत्युपेक्षिता ॥ २३ ॥ स० मूच्छिते सर्वोच्छ्रतेरामे अपृथिवीपतौसति क्षितौनृपतौ पतितेचसतीतिवा ॥ २७ ॥ ति० किंच एवंशोके त्वयाक्रियमाणे तवसहायता सहायसमूहः परिजनःसर्वोपि । नस्यात् । त्वच्छोकेनसर्वोपिनश्येदि- व्यर्थः । शि० हेराघव इमं स्वपुत्रप्रव्राजनं । अनयं नीतिविरुद्धमिवकृत्वा | व्यपत्रपसिकिं । नैतयुक्तमित्यर्थः । अतउत्तिष्ठ | तेसुकृतं सत्यपरिपालनं अस्तु सदैवतिष्ठत्वित्यर्थः ॥ ३० ॥ इतिसप्तपञ्चाशस्सर्गः ॥ ५७ ॥ ति० प्रत्याश्वस्तः कृतोपचारः | मोहात्- मोहंपरित्यज्य | प्रत्यागतस्मृतिः प्रत्यागतसंज्ञः । प्रत्यागतःपुनरितिपाठेप्ययमेवार्थः । [ पा० ] १ ङ. छ. झ. ट. विद्रुतमानसः, ख. ज. विभ्रान्तमानसः २ च. न. उत्क्षिप्य. घ. ङ. छ. झ. ट. उच्छ्रिय. ३ ख. ङ. च. छ. झ, ञ. ट. विलपन्तींतथा ४ ङ च छ. झ. न. ठ. समन्ताद्रुरुदुः. क. ग. घ. सखरं. ५ घ. तदानींपुनः ६ क, ख. विह्वलं. ७ ङ, छ. झ ञ ट प्रत्यागतस्मृति: ८ ङ. छं. झ ट तदाजुहाव. घ. आजुहावाथ. ९ ग. राजासूतं. १० ङ. छ. झ. ट. तदा.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति