सर्गः ५८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् || विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ ३॥ राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम् || अश्रुपूर्णमुख दीनमुवाच परमार्तवत् ॥ ४ ॥ क्कनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः || सोत्यन्तसुखितः सूत किमशिष्यति राघवः ॥ ५ ॥ दुःखस्यानुचितो दुःखं सुमन्त्र शयनोचितः ॥ भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ६ ॥ यं यान्तमनुयान्ति स पदातिरथकुञ्जराः ॥ स वत्स्यति कथं रामो विजनं वनमाश्रितः ॥ ७ ॥ व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् || कथं कुमारौ वैदेह्या सार्धं वैनमुपस्थितौ ॥ ८ ॥ सुकुमार्या तपस्विन्या सुमत्र सह सीतया || राजपुत्रौ कथं पादैरवरुह्य रथागतौ ॥ ९॥ सिद्धार्थः खलु सृत त्वं येन दृष्टौ ममात्मजौ ॥ वैनान्तं प्रविशन्तौ तावश्विनाविव मैन्दरम् ॥ १०॥ किमुवाच वचो रामः किमुवाच च लक्ष्मणः ॥ सुमन्त्र वनमासाद्य किमुवाच च मैथिली ॥ ११ ॥ आसितं शयितं भुक्तं सूत रामस्य कीर्तय | जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ १२ ॥ इति सूतो नरेन्द्रेण चोदितः सज्जमानया ॥ उवाच वाचा राजानं स बाष्पपरिरब्धया ॥ १३ ॥ अब्रवीन्मां महाराज धर्ममेवानुपालयन् ॥ अञ्जलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ १४ सूत मद्वचनात्तस्य तातस्य विदितात्मनः || शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १५ ॥ सर्वमन्तःपुरं वाच्यं सूत मद्रचनात्त्वया || आरोग्यमविशेषेण यथाई चाभिवादनम् ॥ १६ ॥ माता च मम कौसल्या कुशलं चाभिवादनम् || अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ १७ ॥ धर्मनित्या यथाकालमम्यगारपरा भव || देवि देवस्य पादौ च देववत्परिपालय ॥ १८ ॥ अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ॥ अनु राजानमार्यो च कैकेयीमम्ब कारय ॥ १९ ॥ व्याधिप्रस्तं ॥ २–३ ॥ रजसाध्वस्ताङ्गंधूसरिताङ्गं | | यमितीन्द्रं प्रार्थ्यस्वर्गाद्भष्टःसाधुसमागमंत्राप्य यथा धूतं कम्पितं । परमार्तवत् परमार्तश्वदीनइत्यर्थः निवृत्तदुःखोभूत् तद्वदहमपि निवृत्तदुःखोभविष्यामी- ॥ ४ ॥ पूर्वसर्गेयथोक्तमित्युक्तंविवरीतुंप्रश्नमवतारय- यर्थः ॥ १२ ॥ बाष्पपरिरब्धया कण्ठगतबाष्परुद्धये ति — कनुवत्स्यतीत्यादिना ॥ ५ ॥ दुःखमित्येतत्क्रिया- त्यर्थ: । अतएव सज्जमानया स्खलन्त्या । षरुजगता- विशेषणं । शयनोचितः महार्हशयनोचितः ॥ ६-७॥ वितिधातुः धातोरनेकार्थत्वादत्रस्खलनार्थकः ॥ १३ ॥ व्यालैः अजगरादिभिः। मृगैः सिंहव्याघ्रादिदुष्टमृगैः । ॥ १४ ॥ वन्द्यौ वन्दनीयौ ॥ १५ ॥ अन्तःपुरं आ उपस्थितौ · उपाश्रितौ । आसितमित्यादौ भावेनिष्ठा रोग्यमभिवादनंचवाच्यं । ब्रूोद्विकर्मकत्वादप्रधान- ॥ ८–११ ।। आसितं आसनं शयितं शयनं भुक्तं कर्मण्यन्तः पुरेप्रथमा । कृताभिहितत्वात् । एवमुत्तर- भोजनंच कीर्तय । एतेन रामसंबन्ध्यासनादिकीर्तनेन श्लोकेपि ॥ १६ ॥ अप्रमादं धर्मेभर्तरिच | इदं वक्ष्य- अहंसाधुषुययातिरिवजीविष्यामि ययाति: सत्सुपते | माणं ।। १७-१८ ॥ अभिमानं गर्व “गर्वोभिमानो- ती० मोहात् मूर्च्छायाः । प्रत्याश्वस्तः उपचारैरुद्बोधितः । राजायोरामसकाशात्प्रत्यागतः तंसूतं रामवृत्तान्तकारणात् रामवृत्ता- तंत्रष्टुं ॥ १ ॥ स० अस्वस्थं स्वसमूहविकलमिवेतिवा ॥ ३ ॥ ति० परमार्तवत् परमातर्हे । स० परमार्तवत् स्वार्थेवतिः । वचइतिशेषः ॥ ४ ॥ स० वत्स्यति वसति | अशिष्यति भुते । वनवासस्यचिरकालवालृप्रयोगः ॥ ५ ॥ स० पदातयश्चरथा- चपदातिरथं । सेनाङ्गत्वाद्वन्द्वैकवद्भावः । तेनसहिताश्चतेकुञ्जराश्चेतितथा ॥ ७ ॥ ति० मन्दरस्यकार्ष्यमात्राद्वनसादृश्यं । स० मन्दरस्य नाना विधौषधनिधित्वात् भिषजोर्नासत्ययोस्तद्गमन॑यथा प्रयोजन पर्यवसायि तथेत्यर्थः ॥१०॥ स० साधुषुमध्येययातिर्थ थाशुकशापप्राप्तजरयाजीवितवान् तथाऽहमपि वलीपलितकार्कश्य विशिष्टोपिरामवार्ताश्रवणेनजीविष्यामीत्यर्थः ॥१२॥ स० वाचे- त्येतद्देहलीदीपन्यायेनोभयत्रसंबध्यते । नरेन्द्रेण शुचासजमानया स्खलन्त्या | वाचाचोदितः ससूतः ॥ १३ ॥ ती० अनुराजानं [ पा० ] १ ङ. च. ज. झ. ट. सूतं. २ ख. ग. नियं. ३ घ. सुखाई. ग. महार्ह ४ ङ. छ. झ. ट. मुपाश्रितौ ५ क ङ. च. वनंतत्, ६ ज. सुन्दरौ. ७ ङ. च. छ. झ ञ ट परिबद्धया ८ ङ. च. छ. न. देवस्य. ९ क पुनःपुनः १० ङ, छ, झट. यथाईम भि. २३५
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति