श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इमां गिरं दारुणशब्दसंश्रितां निशम्य रोजाऽपि मुमोह दुःखितः ।। ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ २४८ द्विषष्टितमः सर्गः ॥ ६२ ॥ कौसल्यापरुषभाषणश्रवणेन मृतिसमयेसुतविप्रयोगप्रयोजकमुनिकुमारहननरूपस्त्रदुष्कृतानुस्मरणेनच परिशोचतादशर- थेनसाञ्जलिबन्धंकौसल्यांप्रतिप्रसादनम् ॥ १ ॥ पतिप्रसादनेनविषीदन्त्या कौसल्ययासप्रणामंप्रसादितेनराज्ञारात्रौ निद्रावशा- धिगमः ॥ २ ॥ एवं तु क्रुद्धया राजा राममात्रा सशोकया || श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ १ ॥ चिन्तयित्वा स च नृपो मोह व्याकुलेन्द्रियः ॥ ॲथ दीर्घेण कालेन संज्ञामाप परंतपः ॥ २ ॥ स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्वसन् || कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तार्मुपागमत् ॥ ३ ॥ तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् ॥ यदनेन कृतं पूर्वमज्ञानाच्छन्दवेधिना ॥ ४ ॥ अमनास्तेन शोकेन रामशोकेन च प्रभुः ॥ द्वाभ्यामपि महाराजः शोकाभ्यामंन्वतप्यत ॥ ५ ॥ दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः ॥ वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ ६॥ प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः ॥ वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ७ ॥ भर्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा ॥ धर्मे विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ ८ ॥ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा || नार्हसे विप्रियं वक्तुं दुःखिताऽपि सुदुःखितम् ॥ ९ ॥ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्स भाषितम् ॥ कौसल्या व्यसृजद्वाप्पं प्रणालीव नवोदकम् ॥१०॥ तद्वचनकरणात् ॥ २८ ॥ – इमामिति । प्रविवेश | पुनश्चिन्तांप्राप्तवानित्यर्थः ॥ ३ ॥ दुष्कृतंकर्म मुनि- तत्रमग्नइत्यर्थः । दुष्कृत॑स्मरन् एतादृशदुःखस्यनिदान - कुमारवधरूपंकर्म । प्रत्यभात् प्रतीतमभूत् । शब्दवे- भूतं किंकर्मपूर्वकृतमितिस्मरन्नित्यर्थः ॥ २९ ॥ इति घना शब्देनलक्ष्येणवेद्धुंशीलमस्यास्तीतिशब्दवेधी श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्ब- राजाबाणोवा ॥ ४ ॥ अमनाः अस्वस्थचित्तः क्षुभि- ख्याने अयोध्याकाण्डव्याख्याने एकषष्टितमः तान्तःकरणइत्यर्थः । तेन मुनिकुमारवधजनितेन ॥५॥ सर्गः ॥ ६१ ॥ अवाङ्मुखः अवनतमुखः । स्वकृतकौसल्याविषयाप्रि- यजन्ययालज्जयाभीत्याचेतिभावः ॥ ६ ॥ परेष्वपि चिन्तयामास अनयासत्यमेवकथितं मयाचान्यैर- प्रतिकूलेष्वपि ॥ ७-८ ॥ दृष्टलोकपरावरा दृष्टौलो- कृतपूर्वमहदकृत्यंकृतं किमतः परंकरोमीतिचिन्तयामा- केजनेपरावरौ उत्कर्षापकर्षौययासातथोक्ता । सुदुः- सेत्यर्थः || १ – २|| पुनश्चिन्तामुपागमत् "अत्युत्कटै: खितं मांप्रतीतिशेषः ॥ ९ ॥ प्रणाली प्रासादादिषु पुण्यपापैरिहैवफलमश्नुते ” इतिन्यायेन प्रियपुत्रविश्ले- दार्वादिनिर्मितजलनिर्गममार्गः । “द्वयोः प्रणालीपय- षज॑महद्दुःखमनुभवामि एतद्धेतुभूतंकिंकर्मकृतमिति सःपदव्यां ” इत्यमरः । नवोदकं वर्षजलं ।। १० ।। ति० शब्दमेवलक्ष्यदेशस्थंप्राप्यविध्यतीतिशब्दवेधी ॥ ४ ॥ ति० अपकृष्टाअपिभर्तारमेवंनवदन्तीतिभावः ॥ ९ ॥ [ पा० ] १ ङ. झ. ञ. ट. संहितां. २ ङ. झ. ट. रामेति ३ च. ट. पुनस्तथास्मरन्. ग. ङ. ज. झ. ञ. पुनस्तथा- ऽस्मरतू. ४ क. ङ. च. झ ञ ट मोहव्याकुलितेन्द्रियः ५ क. घ. अतिदीर्घेण. ६ च. संज्ञांप्राप. ७ ङ. च. झ, ञ. ट. पुनश्चिन्तां. ८ घ. मुपाविशत्. ९ ङ. च. झ ञ ट मभितप्यते. १० क. ख. ग. ङ. च. ज. –द, दह्यमानस्तु. ११ ङ. छ. झ. ट. दुःखितः. क. ख. ग. च. ञ भूमिपः, १२ क भर्ताहि १३ क. प्रासृजत्.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति