सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् || संभ्रमादब्रवीत्रस्ता त्वरमाणाक्षरं वचः ॥ ११ ॥ सीद शिरसा याचे भूमौ निपतिताऽस्मि ते ॥ याचितासि हता देव हेन्तव्याऽहं न हि त्वया ॥ १२ ॥ नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता ॥ उभयोलकियोवर पत्या या संप्रसाद्यते ॥ १३ ॥ जानामि धर्म धर्मज्ञ त्वां जाने सत्यवादिनम् || पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥१४॥ शोको नाशयते धैर्य शोको नाशयते श्रुतम् ॥ शोको नाशयते सर्व नास्ति शोकसमो रिपुः ||१५|| शक्य आपतितः सोडुं प्रहारो रिपुहस्ततः ॥ सोडुमापतितः शोकः सुसूक्ष्मोपि न शक्यते ॥ १६ ॥ [ धर्मज्ञाः श्रुतिमन्तोऽपि च्छिन्नधर्मार्थसंशयाः ॥ यतयो वीर मुह्यन्ति शोकसंमूढचेतसः] ॥ १७ ॥ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते ॥ यः शोकहतहर्षायाः पञ्चवर्षोपमो मँम ॥ १८ ॥ २४९ राज्ञः अञ्जलिं पद्ममिवमूर्ध्निबध्वा पाणिभ्यांगृहीत्वा | भरद्वाजाश्रमयमुनातीरचित्रकूटेषुचतस्रोरात्रयः मूर्ध्निबध्वेत्यर्थः । त्रस्ता धर्माद्भीता ॥ ११ ॥ भूमौनि- चतुर्थ्यासुमन्त्रस्यनिर्गमः पञ्चम्यामिदंवचनमिति । पतितास्मि प्रणतास्मीत्यर्थः । कुतः यतः तेयाचिता एवंसत्यद्यपदस्वारस्यमिति । ननुसप्तपञ्चाशेसर्गे त्वयायाचिताऽहं हतास्मि । अतः त्वयाहंहन्तव्या नहि " भरद्वाजाभिगमनं प्रयागेचसहासनम् । आगिरेर्ग- संर्तव्य | एतदपराधशान्तयेममप्रहारएवत्वया मनंतेषांतत्रस्थैरभिलक्षितम् || अनुज्ञातः सुमत्रोथयो- कर्तव्योनसंहारोदास्याइवेत्यर्थः ॥ १२ ॥ श्लाघनीयेन जयित्वाहयोत्तमान् ” । इत्याद्यनन्तरं 66 ततः साया- स्वयंप्रसाद्येन । पत्या लोके या संप्रसाद्यते सास्त्री उभ- ह्रसमयेतृतीयेनिसारथिः । अयोध्यांसमनुप्राप्यनि- योर्लोकयोर्नभवति । ऐहिकामुष्मिक सुखभागिनीनभ- रानन्दांददर्शह" इत्युक्त्या अयोध्यानिर्गमदिवसमा- वतीत्यर्थः ॥ १३ ॥ किमपि अविचारितं अनुचितंच | रभ्यषष्ठेहनिकिलरामस्यचित्रकूटप्रवेशः अथचारेभ्यः तत् क्षन्तव्यमितिशेषः ।। १४ - १५ ॥ आपतितः सप्तमेअष्टमेवा सूतस्य तद्वृत्तान्त श्रवणं ततस्तृतीयेह- हठात्प्राप्तः ।। १६–१७ ॥ शोकस्यनूतनत्वादशक्य- | निसूतस्यायोध्याप्रवेशः तत्कथंपञ्चरात्रयइतिपरिग- त्वमाह–वनवासायेति । वनवासाय वनेवासकर्तुं । ण्यते । उच्यते । तृतीयेहनीत्यत्रअह्नस्तृतीयभागइ- प्रस्थितस्यरामस्य पञ्चरात्रोद्यगण्यते नेपञ्चरात्रो त्यर्थः । आगिरेर्गमनमित्यत्रगमनोद्योगमित्यर्थः । वासोगण्यते । अत्रकेचित् प्रथमायांरात्रौतमसातीरे द्वितीयरात्रौजाह्नवीतीरे तृतीयरात्रौगङ्गादक्षिणकूलस्थे तथाच “गुहेनसार्धेतत्रैवस्थितोस्मिदिवसान्बहून् । आ- वनस्पतौ चतुर्थरात्रौप्रयागे पञ्चमरात्रौयमुनातीरे । शयायदिमांरामःपुनःशब्दापयेदिति” इत्यत्र बहू- ततः सुमत्रः षष्ठदिवसेरामश्चित्रकूटंगमिष्यतीतिवृत्ता- नित्युक्त्यादिनत्रयं शृङ्गिबेरपुरेसूतस्यवासः चतुर्थेदिने न्तंज्ञात्वा तदहस्सायाह्नसमयेअयोध्यांप्राप्तवान् । त- ऋजुमार्गेणदिवारात्रमागतचारमुखात् रामस्यचित्रकू- तोत्रपञ्चरात्रगणनमुपपद्यतइत्यूचरे । अन्येत्वाहुः । टप्रवेशोद्योगंनिशम्य तद्दिवससायंकालेवेगेनायोध्या- गङ्गातरणपर्यन्तंवनवासत्वाभावात् ततः परंवनस्पति- | प्रवेशः । तस्मिन्दिनेकौसल्याह– पञ्चरात्रोद्यगण्यत ति० त्रस्ता अहमपिकैकेयीवत्पतिशोक कारिवचनादिकंप्राप्तवतीतिभीता ॥११॥ ति० हेदेव त्वयायाचिता अनुनीताऽहंहतास्मि । ईश्वरेप्सितवैपरीत्यस्यान्याय्यत्वात् । अतस्त्वयाक्षंतव्या न किंतुदासीवत्प्रहर्तव्येत्यर्थः ॥ १२ ॥ शिo धर्म “ पतिःपरुषवन्नव- क्तव्यः " इत्यादिरीतिं जानामि | तुस्तथाप्यर्थे ॥ १४ ॥ ति० पञ्चरात्रइत्यस्य गतइतिशेषः । तत्रप्रथमातमसातीरे द्वितीयागु- हपुरे तृतीयागङ्गातीरे चतुर्थीप्रयागे पञ्चमीयमुनातीरे षष्ठीचित्रकूटे तद्दिनेसुमन्त्रस्यायोध्याप्राप्तिः । अतएवाप्रेषष्ठीतिदशरथोक्तिः । अथवा आद्यदिनेसंपूर्णदिनंस्खनिकटे स्थितत्वेनस्वदेशेतमसातीर एवस्थितत्वेन तद्दिनमगणय्यकौसल्ययाऽद्यपञ्चरात्रोगण्यतइत्युक्तं । राजा तमपिगृहीत्वाषष्ठीतिवक्ष्यति । यत्तु कतकेननिर्गमनात्सप्तरात्रः सुमन्त्रागमनदिनइत्युक्तं तदज्ञानात् । गङ्गोत्तरणदिनात्तृ- तीयेऽहनिचारप्रतिनिवृत्त्युत्तरंसायाह्नेतद्दिनएवसुमन्त्रप्रस्थानस्यवक्तंशक्यत्वात् । “रामस्य निर्गम दिनाद्दिनेषष्ठे” इतिपूर्वलिखितपाद्म- [ पा० ] १ ख. प्रसादं २ घ. - ञ. क्षन्तव्या. ३ ख. ङ. झ. ब. ट. कयोर्लोके. ४ घ. धर्मज्ञं. ५ ख. –च. ज.―ट, शक्यमापतितः ६ ख. च. झ ट पञ्चरात्रोत्र. ७ कं. मतः. वा. रा. ६४
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति