श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न नूनं तपसो वाऽस्ति फलयोगः श्रुतस्य वा ॥ पिता यन्मां न जानाति शयानं पतितं भुवि ॥४३॥ जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ॥ भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ॥ ४४ ॥ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव || न त्वामनुदहेत्क्रुद्धो वैनं वहिरिवैधितः ॥ ४५ ॥ इयमेकपदी राजन्यतो मे पितुराश्रमः ॥ तं प्रसादय गत्वा त्वं न त्वां से कुपितः शपेत् ॥ ४६ ॥ विशल्यं कुरु मां राजन्मर्म मे निशितः शरः ॥ रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ ४७ ॥ सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ॥ इति मामविशचिन्ता तस्य शल्यापकर्षणे ॥ ४८ ॥ दुःखितस्य च दीनस्य मम शोकातुरस्य च ॥ लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ ४९ ॥ ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत् || सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥ ५० ॥ संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम् ॥ ब्रह्महत्याकृतं पापं हृदयाद्पनीयताम् ॥ ५१ ॥ न द्विजातिरहं राजन्माभूत्ते मनसो व्यथा ॥ शूद्रायामस्मि वैश्येन जातो जैनपदाधिप ॥ ५२ ॥ ईतीव वदतः कृच्छ्राद्वाणाभिहतमर्मणः ॥ विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ॥ ५३ ॥ तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् || स मामुद्रीक्ष्य संत्रस्तो जहाँ प्राणांस्तपोधनः ॥ ५४ ॥ जलार्द्रगात्रं तु विलय कृच्छ्रान्मर्मवणं संततमुच्छ्रसन्तम् ॥ ततः सरय्वां तमहं शयानं समीक्ष्य भेंद्रेऽस्मि भृशं विषण्णः ॥ ५५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ २५४ कष्टां दुःसहां ॥ ४२ ॥ तपसः श्रुतस्यवेत्यत्र मामक - क्षयंगतः नाशंप्राप्नुमुपक्रान्तः ॥ ५० ॥ संस्तभ्येत्या- स्येतिविशेषणंदेयं ॥ ४३ || अपरिक्रमः असंचार: दिश्लोकद्वयस्य इतिमामुवाचेत्यनेनान्वयः । स्थिरचि पङ्गुरितियावत् । भिद्यमानं वातादिनेतिशेषः ॥ ४४ ॥ त्तोभवाम्यहमित्यत्र स्थिरचित्तोभवानघेतिचपाठः । राघवेतिसंबोधनात् सरयूतीरेबहुशोमृगयापर्यटनेन शूद्रायांवैश्येनजातः करणइत्यर्थ: । “शूद्राविशोस्तुकर पूर्वमेवदशरथंज्ञातवानित्यवगम्यते । नत्वामनुदहेदि- णः" इत्यमरः ॥५१ – ५२ || विघूर्णतः कदाचिदतीव ति अन्यथादहेदितिभावः ॥ ४५ ॥ एकपदी एकपद- वेपमानस्येत्यर्थः । विचेष्टस्य कदाचिदितिशेषः । वेपमा- न्यासमात्रयुक्तासरणिरित्यर्थः । “वर्तन्येकपदी" नस्य कदाचिदीषत्कम्पमानस्येत्यर्थः । आनम्यमानस्य इत्यमरः । यतः यत्रैकपद्यां ॥ ४६ ॥ मर्म रुणद्धि व्यथयासंकुचिताङ्गस्येत्यर्थः । नानद्यमानस्येतिपाठे पीडयतीत्यर्थ: । मृदु सिकतामयं । सोत्सेधं औन्नत्य- अतिशयेननदतइत्यर्थः । उद्धरं उदहरं । अडभावो- वत् । अम्बुरयः नदीवेगः ॥ ४७-४८ ॥ दुःखित- ऽनित्यत्वात् ॥ ५३–५४ ॥ जलार्द्रगामिति । अयं स्य महदकृत्यंप्राप्तमितिदुःखितस्य । शोकातुरस्य ब्रह्म- श्लोकः प्रथमदृष्टानुवादः । मर्मणि प्राणस्थाने व्रणय- हत्या भविष्यतीतिभिया शोकेनपीडितस्य ॥ ४९ ॥ स्वतं । सरय्वां सरयूतीरे । विषण्णोस्मि विषण्णो- ति० तपसः श्रुतस्यचेत्यत्र मामकस्य पित्र्यस्यचेतिशेषः ॥ ४३ ॥ ति० परमार्थवित् परमार्थः शास्त्रतत्वं । परमार्तवदितिपाठेप - रमार्तःसन्नित्यर्थः ॥५०॥ ति० धैर्येणशोकंसंस्तभ्याहंस्थिरचित्तोभवामि ममचित्ते मोहोनास्तीत्यर्थः । अतोयद्वदामितच्छृण्वित्यर्थः । शोक ब्रह्महत्याप्तिजं संस्तभ्य व्यक्त्वा । तापं भयं । अर्धर्चादिस्तापशब्दः ॥ ५१ ॥ ति० आताम्यमानस्य ताम्यतः | व्यथया- संकुचिताङ्गस्येतियावत् ॥ ५३ ॥ इतित्रिषष्टितमस्सर्गः ॥ ६३ ॥ [ पा० ] १ ङ. च. झ ञ ट जानीते. २ ङ. च. झ ञ ट दशक्तश्चापरि ३ ङ. ट. मिवाशक्तिस्त्रातुं. ४ ङ. झ. ट. वनमग्निरिवैधितः च. ञ वनम रिवोद्धतः ५ ग. ङ. झ. ट. संकुपितः ६ क. दुःखितस्यापि. ७ च. झ. ट. सऋषि- चिन्तां. ८ च ज झ ट परमार्थवित्. ९ क. ग. घ. भवानघ १० झ. तापं. ११ च. झ ञ ट नरवराधिप १२ क इत्येवं. १३ क—घ. च. झ. ज. ट. खाताम्यमानस्य. १४ ख. घ. झ. ज. ट. कृच्छ्रमर्म. १५ क. ग. संवीक्ष्य. १६ घ ङ. च. जट, भद्रेसुभृशं
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति