२२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ॥ ४१ ॥ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥४२॥ परोक्षया वर्तमानो वृत्या प्रत्यक्षया तथा ॥ अमात्यप्रभृतीः सर्वाः प्रकृतीचानुरञ्जय ॥ ४३ ॥ कोष्ठागारायुधागारैः कृत्वा सन्निचयान्वहून् || तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ॥ ४४ ॥ तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ॥ तसान्त्वमपि चात्मानं नियम्यैवं समाचर ॥४५॥ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रिंयकारिणः ॥ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४६॥ सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥४७॥ अथाभिवाद्य राजानं रथमारुह्य राघवः ॥ ययौ स्वं घुंतिमद्वेश्म जनौषैः प्रतिपूजितः ॥ ४८ ॥ ते चापि पौरा नृपतेर्वच स्तच्छ्रुत्वा तदा लाभमिष्टमाशु || नरेन्द्रमामय गृहाणि गत्वा देवान्समाचुरभिग्रहृष्टाः ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥ ३ ॥ योगः । तदुपलक्षितकालइत्यर्थः । पुष्यनक्षत्रयुक्ते दिव- | त्तान्तविचारेण | सहवर्तमानोभव | तथा प्रत्यक्षा सइत्यर्थः ॥ ४० ॥ कामतः प्रकामं । गुणवति त्वयी- नित्यंयथाकालमास्थानमास्थाय स्वानुभवसिद्धयथोक्त- तिशेषः । यद्यपिभवान्सर्वगुणसंपन्नः तथापिपुत्रस्नेहा- वृत्तान्तविचारोभव । अमात्यप्रभृतीः सर्वाः प्रकृती: द्भवतेकिंचिदुपदिशामीत्यर्थः ॥ ४१ ॥ भूयोविनयं सा- अमात्यसेनानीपुररक्षिण: पौरजानपदाः सर्वप्रजाश्च तिशयविनयं । कामक्रोधसमुत्थानिव्यसनानि “स्त्री- अनुरञ्जय ॥ ४३ ॥ श्लोकद्वयान्वयं । कोष्ठागा- द्यूतमृगयामद्यवाक्पारुष्योप्रदण्डताः । अर्थसंदूषणंचे- राणि अयुतनियुतादिसङ्घषधान्यराशिप्राहीणिकोष्ठरू- तिराज्ञांव्यसनसप्तकं" इत्युक्तानिव्यसनानि । अर्थसं- पतयानिर्मितान्यगाराणि । आयुधागाराणि समप्रनि- दूषणं पित्रादिसञ्चितार्थस्यनाशनं । यद्वा “मृगया- जबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि । तैःसह क्षोदि॒वस्वापःपरिवादःस्त्रियोमदः । तौर्यत्रिकंवृथाध्वा- सन्निचयान् निचीयन्ते एष्वितिनिचयाः नवरत्नहेम- चकामजोदशकोगुणः” इत्येतानिकामजानि । “पैशुन्यं रजतवस्त्राभरणादिसंपूर्णास्तत्तत्कोशा: । तान् तुष्टा- साहसंद्रोहईर्ष्यासूयार्थदूषणं । वाग्दण्डयोश्चपारुष्यं नुरक्तप्रकृतिरिति उक्तनिचयबलादितिशेषः । मित्राणि क्रोधजोपिगुणोष्टकः”इत्युक्तानिक्रोधजानिचव्यसनानि सामन्ताः । आत्मानं मनः ॥ ४४–४५ ॥ तत् ।। ४२ ।। अप्रत्यक्षयावृत्त्या तक्षप्रभृतिकर्मान्तिकानां रामाभिषेकप्रस्तावनं ॥ ४६ || प्रियाख्येभ्यः प्रियं रामाभिषेकमाचक्षतइतिप्रियाख्याः । “चक्षिङःख्या- ब्” इति ख्याञादेशः ॥ ४७–४८ ॥ आनर्चुः रा- माभिषेकविघ्नवारणाय ॥ ४९ ॥ इति श्रीगोविन्दरा-. जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- ध्याकाण्डे तृतीयःसर्गः ॥ ३ ॥ परोक्षोभूत्वाऽधिकृतमुखेनयत्कार्याणिसंविधत्तेसापरो- क्षवृत्तिः । अव्यवधानेनामात्यादीन्ययावृत्त्यानुगृह्णा- तिसाप्रत्यक्षवृत्तिः । ताभ्यांबर्तमानस्सन् अमात्यप्रभृ- तीःसर्वाःप्रकृतीश्चानुरञ्जयेतिसंबन्धः । यद्वा परोक्षया चारमुखतः परोक्षानुभवसिद्धया | वृत्त्या स्वपरराष्ट्रव लमासनमेव ॥ ३६ ॥ ति० इष्टाः स्वस्य अनुरक्ताः स्वस्मिन् प्रकृतयः प्रजाः यस्य । तस्यमित्राण्यमृतं लब्ध्वाअमराइवतं लब्ध्वा नन्दन्ति ॥ ४४ ॥ इतितृतीयस्सर्गः ॥ ३ ॥ [ पा० ] १ ड झ. निर्णीतोगुणवानिति २ घ. कामक्रोधसमृद्धानि. ३ ङ. झ. त्यजस्वव्यसनानिच ४ ङ. छ. झट, प्रजाश्चैवानुरञ्जय. ५ क. ङ. च. छ. झ ञ ट इष्टानुरक्त. घ. तुष्टोनुरक्त ६ क. ङ. च. छ. झ ञ ट पुत्रत्वमात्मानं. ७ छ. प्रियकांक्षिणः ८ ङ. छ. झ. ट. शीघ्रमागत्य. ९ क. च. ञ. साहिरण्यानि १० घ. द्युतिमान्वेश्म ११ घ. छ. परिपू जितः . १२ च. म. मिवेष्टमात्मनः १३ क—घ. च. ज. रतिप्रहृष्टाः. .
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति