२५६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मुनिमव्यक्तया वाचा तमहं सज्जमानया || हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रवम् ।। ११ ॥ मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम् || आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १२ ॥ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ॥ सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ १३ ॥ भगवैश्यापहस्तोऽहं सरयूतीरमागतः || जिघांसुः श्वापदं कंचिन्निपाने चागतं गजम् ॥ १४ ॥ तंत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः ॥ द्विपोऽयमिति मैत्वाऽयं बाणेनाभिहतो मया ॥ १५॥ गत्वा नँद्यास्ततस्तीरमपश्यमिषुणा हृदि || विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ १६ ॥ भगवञ्शब्दमालक्ष्य मया गजजिघांसुना ॥ विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥ १७ ॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः ॥ स मया सहसा बाण उद्धृतो मर्मतस्तदा ॥ १८ ॥ स चोद्धृतेन बाणेन 'तत्रैव स्वर्गमास्थितः ॥ भ॑वन्तौ पितरौ ' शोचनन्धाविति विलप्य च ॥ १९॥ अज्ञानाद्भवतः पुत्रः सहसाऽभिहतो मया ॥ शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ २० ॥ स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ॥ नाशकत्तीत्रमाँयासमकर्तु भगवानृषिः ॥ २१ ॥ सबाष्पपूर्ण वदनो निःश्वसञ्शोककशितः ॥ मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ।। २२ ।। यद्येतदशुभं कर्म नै त्वं मे कथयेः स्वयम् ॥ फलेन्मूर्धा स ते राजन्सद्यः शतसहस्रधा ॥ २३ ॥ तेत्यन्वयः ॥ १० ॥ सज्जमानया स्खलन्त्या । हीनव्य. यभूतं सत्पुरुषगर्हितमित्यर्थः ॥ १३ ॥ निपाने जला- जनया अस्पष्टाक्षरया । “व्यञ्जन॑श्मश्रुनिष्ठानचि- वतारे । आगतंगजं श्वापदं हिंस्रशार्दूलादिकंच | ह्नेष्ववयवेक्षरे ” इतिवैजयन्ती | अव्यक्तयावाचाअ- जिघांसुः चापहस्तोहं सरयूतीरमागतः ॥ १४ ॥ ब्रवमितिसंबन्धः । भीतोपिसन्भीतः भीतोभीतः पूर्यतः पूर्यमाणस्य । अयं शब्दहेतुःपदार्थः द्विपइति- अत्यन्तभीतइत्यर्थः । [ भीतोऽपिसन्नभीतइवाब्रवम् ] मत्वाऽयं तवसुतः मया अभिहतः ॥ १५ – १८ ॥ इवशब्दो वाक्यालंकारे ॥ ११ ॥ उक्तमेवविशदंदर्श- उद्धृतेनबाणेनहेतुना अन्धौपितरौ मातापितराविति यति — मनसइति । मनस: कर्म ऊहापोहात्मकं भवन्तावेवशोचन् विलप्यचस्वर्गमास्थितः ॥ १९ ॥ चेष्टा: इन्द्रियनियमनरूपव्यापाराः ताभिर्वाग्बलं एवंगते एवंप्राप्तेसति यच्छेषंकर्तव्यंस्यात् शापा- अभिसंस्तभ्य स्खलितांवाचंबलादृढीकृत्येत्यर्थः । त- नुग्रहादिकं तत्प्रति मे मयि | प्रसीदतु शापोवाऽनुग्र- स्मैभयमाचचक्षइतिसंबन्ध: । यद्वा वाग्बलमभिसं- होवायः कर्तव्यस्तंकरोत्वित्यर्थः ॥ २० ॥ अघशंसिना स्तभ्य लज्जाभीतिप्रभृतिभिः मन्दवचनोभूत्वेत्यर्थः । दुःखशंसिना । आयासं व्यसनं | अकर्तुनाशकत् आचचक्षे इतिलिडुत्तमपुरुषैकवचनं ॥ १२ ॥ महा- कृतवानेवेत्यर्थः ॥ २१ – २२ ॥ स्मेतिवाक्यालंकारे । मनः तवेतिशेषः । सज्जनावमतं सज्जनावमतिविष - | फलेत् विशीर्येत् । त्रिफलाविशरणइतिधातुः । मच्छा- तत्साधनंतेनत्रस्तंचेतन॑यस्यसः | भयसंग्रस्तचेतनइतिपाठेतु नक्लेशः । भूयः बाहुल्येन ॥ ६ ॥ ति० सज्जनावमतं सज्जनगर्हितं । प्राप्तं मयाभवताचेतिशेषः ॥ १३ ॥ ति० अयंद्विपइतिमत्वाअहंस्थितः । ततोमयासबाणेनहतः ॥ १५ ॥ ति० गतप्राणं गतक- ल्पप्राणं ॥ १६ ॥ ति० तस्यैव त्वत्पुत्रस्यैव | वचनाद्वाण उद्धृतइत्यन्वयः ॥ १८ ॥ युष्मद्रक्षकेपुत्रे एवंगते सतिशेषंकर्तव्यंयत्स्या- त्तत्तत्रमह्यं भगवान्प्रसीदतु तदुद्दिश्यमामाज्ञापयत्वित्यन्वयः । युष्मद्रक्षणमपिमयाकर्तुशक्य मितिभावः । शि० शेषं शिष्यतेप्रल- येपिनविध्वस्यतेसः नित्यलोकस्तं । गते प्राप्तेसति यत्कर्तव्यं स्यात् तद्यथा भवतितथा मुनिर्भवान्प्रसीदतु अनुग्रहंनिग्रहवाकुर्वित्यर्थः । ती० एवंगते प्रमादादेवंप्राप्तेसति शेषं अनन्तरंकर्तव्यंयत्स्यात् तत्प्रसीदतु तदुद्दिश्याज्ञापयत्वित्यर्थः ॥ २० ॥ ति० एवम- [ पा० ] १ ख. तदाहं. २ च. झ ञ. ट. भीतचित्तइवा. ३ क. दुःखमयाप्राप्तं. ४ ख. ग. घ. ज. झ. ट. वागतं. ५ ख. ग. घ. च. ज – ट. ततश्श्रुतो. ६ ख. ग. च. ञ. मलाहि झ. ट. मलाहं ७ झ ट तस्यास्ततः ८ क. स्तेनतेऽभिहतः. ख. ग. च. स्तेनतेनिहतः ९ ग. मर्मणस्तदा १० च. छ. झ ञ. ट. सहसा. ११ ग. छ – ट. भगवन्तावुभौ १२ ख. ग. च. ज. ब. ट. शोचन्वृद्धाविति १३ घ. शेषमेवगतो. ग. शेषमेवंगतो. १४ ङ. झ. ट. मयातदघशंसिना १५ ङ. च. झ. ट. मायासंसकर्तु. ख. मायासंसघर्तु. १६ क ख भगवान्मुनिः १७ क. ख. पूर्णनयनो १८ ङ. च. छ. झ. न.ट. मूच्छितः. १९ ग. नमेस्म. क. छ. झ ञ ट नस्ममे.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति