पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ नंदतां भीम॑घोषाणां निशासु मृगपक्षिणाम् ॥ निशम्य नूनं संत्रस्ता राघवं संश्रयिष्यति ॥ १० ॥ वृद्धश्चैवाऽल्प पुत्रश्च वैदेहीमनुचिन्तयन् || सोपि शोकसमाविष्टो नेनु त्यक्ष्यति जीवितम् ॥ ११ ॥ साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ॥ इदं शरीरमालिज्य प्रवेक्ष्यामि हुताशनम् ॥ १२ ॥ तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् ॥ व्यपनीय सुदुःखार्ती कौसल्यां व्यावहारिकाः ॥१३॥ तैलँद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ॥ राज्ञः सर्वाण्यथादिष्टावक्रुः कर्माण्यनन्तरम् ॥१४॥ न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः ॥ सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ १५ ॥ तैलद्रोण्यां 'तुं सचिवैः शायितं तं नराधिपम् ॥ हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पैर्यदेवयन् ॥१६॥ बहनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः ॥ रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् ॥ १७ ॥ हा महाराज रामेण सततं प्रियवादिना || "विहीनाः सत्यसंधेन किमर्थं विजेहासि नः ॥ १८ ॥ कैकेय्या दुष्टभावाया राघवेण "वियोजिताः ॥ कथं 'पतिभ्या वत्स्याम: समीपे विधवा वयम् ॥ १९॥ स हि नाथः सैदाऽसाकं तव च प्रभुरात्मवान् ॥ वनं रामो गतः श्रीमान्विहाय नृपतिश्रियम् ।।२० त्वया तेन च वीरेण विना व्यसनमोहिताः ॥ कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ २१ ॥ यँया तु राजा रामश्र लक्ष्मणश्च महाबलः ॥ सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥ २२ ॥ ता बाष्पेण च संवीताः शोकेन विपुलेन च ॥ व्यवेष्टन्त निरानन्दा राघवस्य वैरेत्रियः ॥ २३ ॥ निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता ॥ पुरी नाराजतायोध्या हीनों राज्ञा महात्मना ॥ २४ ॥ बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना || शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ २५ ॥ पर्युद्विजिष्यति भयंप्राप्स्यतीत्यर्थः ॥ ९ ॥ नदतां | व्यावहारिकाः व्यवहारविंदोलौकिकाः अपनिन्युरि- नदत्सु | निशम्य नादमित्यर्थसिद्धं ॥ १० ॥ अल्प- त्येकंवाक्यं । तैलद्रोण्यामित्यारभ्यवाक्यान्तरं । आ- पुत्रः दुहितृमात्रपुत्रः । सोपि जनकोपि ॥ ११ ॥ दिष्टाः राजकृत्येष्वादिष्टा:अमात्याः । कर्माणि प्रजा- दिष्टान्तं मरणं । पतिव्रता । “ आर्तार्तेमुदितेहृष्टाप्रो- शासनादीनिचक्रुः ॥ १३–१४ ॥ संस्कारंकुतोनच- षितेमलिनाकृशा। मृतेम्रियेतयापत्यौसास्त्रीज्ञेयापति- कुरित्यत्राह – नत्विति । सर्वज्ञाः सर्वधर्मज्ञाः । व्रता" इत्युक्तपातिव्रत्यविशिष्टा ॥ १२ ॥ व्यावहारि- अतोनधर्मलोपइतिभावः । अनेनगम्यतेतैल मिश्रत्वे • का: व्यवहारेबाह्याभ्यन्तरसकलराजकृत्येनियुक्ताः । शवस्यपर्युषितत्वदोषोनास्तीति । संकलनं संस्कार तत्रनियुक्तः " इतिठक् । अमात्याइत्यर्थः । कौस- ॥ १५ ॥ तैलद्रोण्यांशायितंनृपंज्ञात्वा । तत्रनिवेश- ल्यां भर्त्रालिङ्गनाद्व्यपनीय विमोच्य अन्यतोपनीयेत्य- कालेराजदर्शनाभावात् । हामृतोयमिति भूयोपिप- र्थः । तैलद्रोण्यां तैलपूरितकदाहे । जगतीपतिं भूप- र्यवारयन्नित्यर्थः ॥ १६ ॥ नेत्राणांप्रस्रवणवारिप्रवा- तिं । संनिवेश्य राज्ञोऽनन्तरकर्तव्या निसर्वाणिकर्मा- होयेषुतथा ॥ १७–२० ॥ विदूषिताः राज्यगर्वा - `णि दुःखापनोदनादीनिचक्रुः । अपनिन्युरितिपाठे | त्तिरस्कृताः ॥२१ – २४|| शून्यचत्वरेति संमार्जनानु - ति० निशम्यमाना नादमितिशेषः ॥ १० ॥ ती० व्यावहारिकाः अन्तःपुराध्यक्षस्त्रियः ॥ १३ ॥ ती० आदिष्टाः आज्ञ ताः । वसिष्ठादिभिरितिशेषः । शि० राज्ञोमान्याः राजसत्कृताजनाः ॥ १४ ॥ ति० तवप्रभुः तवजीवनस्यप्रभुः ॥ २० ॥ [पा० ] १ ञ. नर्दतां. २ क. घोराणां. ३ क. घ. च. ज. निशम्यनादं. ङ. छ. झ. ट. निशम्यमाना. ४ क. समायुक्तो. ५ च – ट. नूनं. ६ क - ट. व्यपनिन्युः ७ ङ. च. झ ञ ट द्रोण्यांतदामात्याः. ट. द्रोण्यांतदामान्याः ८ ग. घ. सर्वा ण्यविक्लिष्टंचक्रुः क. सर्वाण्यथाश्लिष्टाश्चक्रुः ९ ङ. छ–ट. संकालनं. १० ङ. छ. झ. ट. शायितंतंसचिवैस्तु ११ ग. घ. पर्यवारयन्. १२ क. ङ. च. छ. झ ञ ट बाहूनुच्छ्रित्य. ग. बाहूनुद्धृय १३ क. ख. करुणं. १४ ग. ज. विहीनः १५ क. प्रजहासिनः १६ ख. दुष्टभावेन. १७ च. झ. ज. विवर्जिताः. १८ ङ. च. छ. झ ञ ट सपत्न्या. १९ ङ. च. छ. झं. ञ ट सचास्माकं. २० ङ. छ. झ. ट. ययाच. २१ ख. घ. इ. च. ज-ट. व्यचेष्टन्त. २२ क. ख. वराः स्त्रियः २३ ख – च. जट. नक्षत्रहीनेव. २४ क. विना.