✓ २९० श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ कौसल्या च सुमित्रा च याश्चान्या मम मातरः ॥ दुःखेन महताऽऽविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥८॥ न त्वमश्व॒पतेः कन्या धर्मराजस्य धीमतः ॥ राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ॥ ९ ॥ यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः ॥ वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः ॥१०॥ यँत्प्रधानासि तत्पापं मयि पित्रा विनाकृते ॥ भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ ११ ॥ कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्रये ॥ कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनि ॥ १२ ॥ किं नावबुध्यसे क्रूरे नियतं बैन्धुसंश्रयम् || ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् ॥ १३ ॥ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ॥ तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः ॥ १४ ॥ अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता | वेहमानौ ददर्शोय पुत्रौ विगंतचेतसौ ॥ १५ ॥ " कृत्यानांकर्तरिवा " इतिषष्ठी । मत्संभाषणंत्वया | तेनसम्यक्संधिः । नियतंकिंनावबुध्यसे प्राकृतवद्व- नकर्तव्यमित्यर्थः ॥ ७ ॥ याश्चान्याइत्यत्र ताइ- न्धुविघातकमवगतासीतिभावः ॥ १३ ॥ औरसपुत्र- त्यध्याहारः ॥ ८ ॥ नत्वमश्वपतेः कन्या तत्कुलो- विश्लेषोमातुरसह्यइतिदर्शयितुं “ अङ्गादङ्गात् ” इति- चितकन्यानभवसीत्यर्थः । धर्मराजस्य धर्मप्रधान - श्रुत्यर्थहदिनिधायाह – अङ्गेति । अङ्गानि मुखकण्ठ- राजस्य । तत्र केकयराजे । उक्तेर्थेहेतुमाह – यदि - वक्षः कुक्षिहस्तपादाः प्रत्यङ्गानि नेत्रनासाङ्गुल्यादीनि त्यादिना ॥ ९–१० ॥ यत्प्रधान॑यस्याःसायत्प्रधाना तजः तत्तेजोज: । " अङ्गादङ्गात्संभवसिहृदयादधि- यत्पापकर्मप्रधानासित्वं तत्पापं तत्कर्मजनितंपापं । जायसे । आमावैपुत्रनामासि " इतिश्रुतावपिवीप्स - पित्राविनाकृते भ्रातृभ्यांपरित्यक्तेमयि संक्रान्तमिति याऽङ्गप्रत्यङ्गग्रहः । अङ्गप्रत्यङ्गजत्वंच सर्वाङ्गतेजःसं- शेषः । संक्रान्तकार्येविशेषणद्वयेनदर्शितं । अप्रियेइ- भूतत्वं । “यदेतद्रेतस्तदेतत्सर्वेभ्योङ्गेभ्यस्तेजःसंभूतं” . तिसंबुद्धिः ॥ ११ ॥ वियुक्तां गुणवत्पुत्रवियुक्तां । इतिश्रुतेः । स्त्रियास्तुशोणितमेवरेतः | हृदयात् हृद- कृत्वानिरयगामिनि त्वंकलोकंप्राप्स्यसे निरयंविनाकं यपुण्डरीकात् । प्रत्यगात्मस्थानाच्चजायते । तस्मात्पु - लोकंप्राप्स्यसइत्यर्थः । कंलोकं कं नरकं । निरयगामि- त्रोमातुः प्रियतमोभवति । बान्धवोभ्रात्रादिः नप्रिय - · नीतिसिद्धवत्कारात् । किमितिक्षेपोत्तयापूर्वसृष्टाअ- तमः किन्तुप्रियएव । एवमतिशयप्रियत्वात्पुत्रस्यतद्वि- पर्याप्ताइत्युच्यते । विशेषणद्वयंसंबोधनं ॥ १२ ॥ योगादिदुःखंदु:सहमितिभावः । सुरभिर्बन्धुमात्रेदु:- बन्धुसंश्रयं बन्धूनामाश्रयभूतं | कौसल्यायाआत्मसं- खितवती किंपुनः पुत्रेकौसल्येतिसूचयति – नतुबान्ध- भवमित्यत्र कौसल्यायात्मसंभवमित्याः संधिः । यद्वा वइति ॥ १४ ॥ पुत्रशोकोमातुर्दुः सहइत्यत्रेतिहा संप्र पृषोदरादित्वेनआकारलोप: गूढोमानप्रकाशतइतिवत् । माणयति – अन्यदेत्यादिना । अन्यदा पूर्वकाले । स० पितुः ममतवापि ॥ ९ ॥ स० गतः गमितः ॥ १० ॥ स० निरयगामिनीतिसंबोध्य कंलोकंप्राप्स्य सइत्युक्त्या त्वत्पा- पस्यनरकोपिनाल मितिसूचयति ॥ १२ ॥ स० नियतं नियमेन | कौसल्यायाः अयः शुभावहः दैवं तेनात्मसंभवोयस्यतं । यद्वा तस्याआयोलाभोयस्मात्पत्युस्सतथा तस्यात्मसंभवपुत्रं । शि० कौसल्यायाः यातिप्राप्नोति प्रादुर्भवतीत्यर्थः । सचासावात्मसंभवः आत्मनाखमनसैव संभवोयस्यतं । अतएवसन्धौनार्षत्वकल्पना ॥ १३ ॥ ति० यदेवं तस्मान्मातुरौरसः पुत्रः प्रियतरः | बान्धवाः पितृमात्रादयः प्रियाएव नतुप्रियतराः । एवंचौरस वियोगदुःखमतिदुस्सहमितिभावः । प्रियत्वान्नतुबान्धवइतिपाठंमत्वा तीर्थेनेत्थं व्याख्यातं प्रियत्वादेवनबान्धवः बन्धुभूतदत्तपुत्रादिवन्नभवतीति । तत्रनार्थसामञ्जस्यमितिकत कसंमत पाठ एव ज्यायान् । शि० अङ्ग हेमातः । हृदयात् मनसः। प्राप्य प्रत्यङ्गजः अङ्गमङ्गंप्रतिप्रत्यङ्गं तस्मात् मुखनेत्रवक्षउदरपाणिपादादितेजोभ्यःजायते साकारतांप्राप्नोति सः । अभिजायते उत्पद्यते । तस्माद्धेतोः पुत्रऔरसः मातुः प्रियतरः । इतरेबान्धवास्तुप्रियाएव । एवेनप्रियतरत्वव्यवच्छेदः । नचवा- स्तवोदरादिसंबन्धशून्यजन्मवतोरामस्यवास्तवोदरादिसंबन्धवल्लौकिक पुत्रदृष्टान्तेन रामस्यकौसल्यातिप्रियत्वं कथंसाधित मितिवाच्यम् । कौसल्या यास्तादृशाभिनिवेशाङ्गीकारेणादोषात् ॥ १४ ॥ ति० किलेल्यैतिथे धर्मज्ञाःपुराविदोवृद्धा एवंवदन्ति किलेत्यर्थः ॥ १५ ॥ [ पा० ] १ ग. सत्यपराक्रमः २ ङ. छ. झ. ट. वीरःपितापि ३ घ. यत्प्रधारयसेतोषं. ४ ङ. छ. झ. ट. ह्यद्य. ५ ख. बुद्धिसंश्रयं. ६ ङ. छ. झ. ट . हृदयाच्चाभि. ग. हृदयादपि. ७ क. ख. ग. च. ज. प्रियतरो. ङ. प्रियतरोरामःप्रियाएवतुबा- न्धवाः. छ. ज. झ. ट. प्रियतरोमातुः प्रियाएवतुबान्धवाः ८ ख. ग. एकदा ९ घ. लभमानौ १० घ. विगतचेतनौ.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति