" २९४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ॥ हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥ १२ ॥ अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् || अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यंत्र राघवः ॥ १३ ॥ कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ॥ यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ १४ ॥ इदं हि तब विस्तीर्ण धनधान्यसमाचितम् || हस्त्यश्वरथसंपूर्ण राज्यं निर्यातितं तैया ॥ १५ ॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः संभत्सितोऽनघः ॥ विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ॥ १६ ॥ पपात चरणौ तस्यास्तदा संभ्रान्तचेतनः ॥ विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः ॥ १७ ॥ एवं विलपमानां तां भरतः प्राञ्जलिस्तदा ॥ कौसल्या प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ १८ ॥ आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् || विपुलां च मम प्रीति स्थिरां जानासि राघवे ॥१९॥ कृंता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन ॥ सत्यसंधः सतांश्रेष्ठो यस्यार्योऽनुमते गतः ॥ २० ॥ 'प्रेष्यं पापीयसां यातु सूर्य च प्रति मेहतु ॥ हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः ॥ २१ ॥ विनापिराज्यलाभसंभवात् ॥ ११ ॥ कैकेयीमामपि | गखिन्नोपिकौसल्यावाक्यश्रवणखिन्नइत्यर्थः ॥ १६ ॥ प्रस्थापयितुमर्हति सर्वस्यराज्यस्यतदायत्तत्वादितिभा- चरणौ प्रतीति शेषः । बहुधासंज्ञइत्यत्र असंज्ञइ- वः । हिरण्यनाभः हिरण्यवत्स्पृहणीयनाभियुक्तः । | तिपदच्छेदः ॥ १७ ॥ एवंविलपमानां पूर्वोक्तप्रकारे- नाभिग्रहणंशरीरस्योपलक्षणं ॥ १२ ॥ कैकेयीकृतपा- णविलपन्तीं ॥ १८ ॥ अजानन्तं अभिषेकादिकमिति पानुबन्धिनस्तवराजसंस्काराधिकारोनास्तीतिध्वनय- शेषः ॥ १९ ॥ कौसल्ययास्वस्मिन्नारोपितं दोषंपरि- न्त्याह–अथवेति । अग्निहोत्रं राजाग्निहोत्रं । अग्निहो- हर्तुशपथवाक्यान्याह – तेत्यादिना | आर्यः रामः । त्रस्यज्येष्ठभार्याधीनत्वात् दशरथेनभरतसंस्कारप्रतिषे- यस्यानुमते संमतौसत्यांगतः तस्यशास्त्रानुगाकृताबुद्धिः धाञ्चेतिभावः । एतेन राजशरीरप्रापणमप्यर्थसिद्धं गुरुणाविधिनिषेधबोधकशास्त्रानुसारित्वेनसुशिक्षिता ॥ १३ ॥ तपस्तप्यते तपःकरोतीत्यर्थ: । “ तपस्तपः- बुद्धिः । कदाचनमाभूदितिसंबन्धः । यद्यहमार्यप्रवा- कर्मकस्यैव " इति कर्मवद्भावादात्मनेपदं ॥ १४ ॥ सनेअनुमन्तास्मि तर्हि श्रुतिस्मृतिज्ञानात्प्रच्युतोभूया- तवप्रस्थापनेममकाशक्तिस्तत्राह - इदमिति । धनधा- समित्यर्थः । एवमुत्तरत्रापिसामान्यनिर्देशोभरतविष- न्यसमाचितं धनधान्यसंपूर्ण । तया कैकेय्या | निर्या- यतयायोजनीयः । “ निर्विशेषंनसामान्यं " इतिन्या- तितं दापितं । “निर्यातनवैरशुद्धौदानेन्यासार्पणेमतं " यात् । अत्रशपथव्याजेनधर्मविशेषाञ्चशिक्ष्यन्तेमुनि- इतिविश्वः ॥ १५ ॥ संभत्सितः परपक्षबुद्ध्याभाषितः । नेतिबोध्यं । अत्रच सत्पुरुषविषयापराधेशास्त्रज्ञान- व्रणेसूचिनातुद्येव व्यथयित्वेव । पूर्वमेवभ्रातृपितृवियो- | भ्रंशोभवतीतिसूचितम् || २० || प्रेष्यं प्रेष्यभावं । त्वदागमनादपिपूर्वेशीघ्रंवनंप्रतिप्रस्थाप्य राजानंमारितवतीकैकेयी | तत्र तादृशप्रस्थापने कंगुर्णपश्यतीतिनजाने । इतिदुःखमिति शेषः । स्थितेतुरामे स एव पितृवाक्यात्वा मेवा भिषिच्यरक्षेत् । अतोव्यर्थोऽयंतत्प्रयासइतिभावः ॥ ११ ॥ ति० हिरण्यनाभः हिरण्यवर्णनाभियुक्तः । इदमसाधारणरामलक्षणं ॥ १२ ॥ ति० अग्निहोत्रमिति राजदेहस्याप्युपलक्षणं । कैकेयीवर्त्मगमने भरतो मेप्रेत कार्य न कुर्यादितिराज्ञानिषेधादितिभावः ॥ १३ ॥ ति० अथवातवातत्पक्षत्वेराजसंस्कारादिकृत्वापश्चान्मांतत्रनयेत्याह - कामंवेति ॥ १४ ॥ ति० व्रणे प्राचीने | सूचिना सूच्या । प्रतुद्येवसंभर्त्सितः कैकेयीपक्षवधियागर्हितः । विव्यथे पितृभ्रातृ- वियोगखिन्नेनाश्वासनार्थमागतस्थलेपिखेद हेतुवचनश्रवणादितिभावः ॥ १६ ॥ ति० अजानन्तं अत्रत्यवृत्तान्तमितिशेषः । राघवे तद्विषये । मम हृदिपूर्वेस्थितां विपुलांप्रीतिं जानास्येव । इदानींतु ततोधिका पितृबुद्धेरपितत्रैवोपसंहारात् ॥ १९ ॥ ति० कृत शास्त्रानुगा गुरुशिक्षितश्रुतिस्मृतिमार्गगा बुद्धिर्माभूत् । इतोधिकानर्थाभावादयं परमइशपथः ॥ २० ॥ ति० प्रैष्यं प्रेष्यत्वप्रति । " [ पा० ] १ ङ. छ. झ. येन. २ झ पुरुषव्याघ्रस्तप्स्यतेमेसुतस्ततः च ञ. पुरुषव्याघ्रस्तप्यतेमेतपस्सुतः ट. पुरुषव्या प्रस्तप्यतेमेसुतस्तपः. ङ. छ. पुरुषव्याघ्रस्तप्स्यतेमेसुतस्तपः क. पुरुषव्याघ्रस्तप्स्यतेमेतपस्सुतः ३ ग. ङ. च. छ. ट. तथा. ४ क. च. छ. ज. ट. भरतोतीव. ५ क. ख. ङ. च. छ. झ ञ ट स्तदाभवत् ६ क. च. ञ. प्राजलिर्भरतः स्थितः घ ङ, झं..ट. प्राञ्जलिर्भरतस्तदा ७ क. च. ज. विपुलांतु, ८ छ. झ. ट. स्थितां. ९ ङ च छ. झ ञ ट कृतशास्त्रानुगा १० क. ख, ग, ङ, छ—ट, प्रैष्यं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति