पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सँर्गः ७६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २९९ संवेश्य शयने चाग्ये नानारत्नपरिष्कृते ॥ ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ५ ॥ किं ते व्यवसितं राजन्प्रोषिते मय्यनागते || विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ६ ॥ क यास्यसि महाराज हित्वेमं दुःखितं जनम् || हीनं पुरुषसिंहेन रामेणाष्टिकर्मणा ॥ ७ ॥ योगक्षेमं तु ते राजन्कोस्मिन्कल्पयिता पुरे ॥ त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८ ॥ विधवा पृथिवी राजंस्त्वया हीना न राजते ॥ हीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ ९ ॥ एवं विलपमानं तं भरतं दीनमानसम् || अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ १० ॥ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशांपतेः ॥ तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ||११|| तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् || ऋत्विक्पुरोहिताचार्यास्त्वरयामास सर्वशः ॥ १२ ॥ ये त्वग्नयो नरेन्द्रस्यं चायगाराद्वहिष्कृताः ॥ ऋत्विग्भिर्याजकैश्चैव आहियन्त यथाविधि ॥ १३ ॥ शिबिकायामथारोप्य राजानं गतचेतसम् ॥ बाष्पकण्ठा विमनसस्तमृहु: परिचारकाः ॥ १४ ॥ हिरण्यं च सुवर्ण च वासांसि विविधानि च ॥ प्रकिरन्तो जना मार्ग नृपतेरतो ययुः ॥ १५ ॥ चन्दनागरुनिर्यासान्सरलं पद्मकं तथा || देवदारूणि चाहत्य क्षेपयन्ति तथा परे ॥ १६ ॥ गन्धानुच्चावचांञ्चान्यांस्तत्र गत्वाऽथ भूमिपम् ॥ तैंतः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ १७ ॥ 46 स्तैलापमार्जनायभूमौनिवेशितंचिरंतैलेस्थापनादापीत - | गारात् अग्निगृहात् । बहिष्कृताः अन्तःशववत्त्वा- वर्णवदनं अवयवशैथिल्याभावात्प्रसुप्तमिवस्थितं दश- द्वहिः प्रतिष्ठापिताः । अन्नयोगार्हपत्यादयः । याजकैः रथंःभूपतिं । उक्तविशेषणेशयने संवेश्य शाययित्वा । उपद्रष्टृभिः । ऋत्विग्भिव आहियन्त आनीयन्त सुदुःखितःसन् विललाप ॥ ४–५ ॥ किंतेव्यवसितं ॥ १३ - १४ || हिरण्यंच सुवर्णच रजतंच सुवर्णच त्वयाकिमद्यव्यवसितं । स्वर्गगमनायेतिशेषः ॥ ६- तत्कृतपुष्पाणीत्यर्थः ॥ १५ ॥ चन्दनागरुनिर्यासान् ७ ॥ तेपुरे अयोध्यायां । कःजनः योगक्षेमं निर्यासोगुग्गुलुः । गुग्गुलुः कालनिर्यासौ " इत स्वकीयपुरयोगक्षेमं । कल्पयिता करिष्यति । स्वः निघण्टुः । चन्दनागरुजनितधूपद्रव्याणीतियावत् । स्वर्ग ।। ८–१० ।। विशांपतेः प्रजानांपत्युः ॥११॥ सरलं धूपसरलं । पद्मकं सुरभिकाष्ठविशेषं । क्षेपय- ऋत्विक्पुरोहिताचार्यान् ऋत्विजोयज्ञकर्मणिवृताः । पु- न्ति पुरतः पार्श्वतञ्चध्रियमाणसौवर्णराजताङ्गारधानीषु रोहिताः पुरोहितपरत्वेनशान्तिक पौष्टिकादिक्रियाप्रव- धूपार्थमितिशेषः । चन्दनादीनिगन्धान्तानि चिता- र्तकाः । आचार्याः वसिष्ठवामदेवादयः । “ त्रय्यां काष्ठद्रव्याणीत्येवतुयुक्तं । तदाक्षेपयन्ति दहनार्थचि चधर्मकृत्येचशान्तिकर्मणिपौष्टिके । अध्वरेयञ्चकु- तामकुर्वन्नित्यर्थः ॥ १६ ॥ तत्रगत्वाथभूमिपमित्युत्त- शल: सस्याद्राजपुरोहितः ॥ उपनीयवदेद्वेदमाचार्य: रशेषः । अथ चिताकल्पनानन्तरं । तत्र चितासमी- सउदाहृतः " इतिलक्षणं ॥ १२ ॥ अन्य - | पेगत्वा तंभूमिपं चितामध्ये ततः शिबिकायाः उद्धृ कारयामास तत्करणार्थमन्त्रिणः प्रेरयामासेत्यर्थः ॥ ३ ॥ स० ते तवसंबन्धिनं त्वन्निर्वाह्यमितियावत् । अस्मिन्पुरे | योगस हितं क्षेमं योगक्षेमं ॥ ८ ॥ शि० अस्य साकेतंप्राप्तस्य । प्रेतकार्याणि परलोकगमनविहितकर्माणिकर्तव्यानि तानि अव्यग्रंयथास्यात्तथा अविचारितं सशरीरैलोकान्तरंगतस्य प्रेतकार्याणिकर्तव्यानिन वे तिसंशयरहितंयथास्यात्तथाक्रियन्तां । एतेनसशरीरगतपुरुषस्यवस्त्रा.. दिषुतच्छरीरबुद्धिः कर्तव्येतिसूचितं । तेनकर्मणामवश्यकर्तव्यताव्यजिता । तेनवसिष्ठस्य मर्यादापालकत्वंव्यक्तं ॥ ११ ॥ स० क्षेपयन्ति तत्प्रक्षेपस्तुशवदुर्गन्धप्रतीतिनिरासा ॥ १६ ॥ [ पा० ] १ क. निवेश्यशयनैकाम्ये २ छ. परिच्छदे. ३ ङ. झ. यास्यसे. ग. यास्यद्य. ४ क. ङ.. च. छ. झ. अ. योगक्षेमंतुतेऽव्यग्रं. ज. योगक्षेमयिताराजन्. ५ च. मे. ङ. छ. ज. झ. ञ. ट. मां. ६ क. च. ञ. महानृषिः ७ ङ. विशांपते. ८ क. ग. च. ञ. तान्यद्यतु. ९ ख. घ. झ ञ स्यअभ्यगारातू. क. ग. च. छ. ज. स्यामयागारात्. ट. च ट तेहूयन्ते ख. घ. तेहियन्ते. ११ घ. ङ. छ. झ. ट. चेतनं. १२ झ स्तमूचुः १४ घ. ज. ट. चितांचक्रुस्तथा १५ क - घ. दलाथ. १६ ङ. झ. ट. तत्र. स्यअभ्यागारात्. १० क. ग. ङ १३ ख. ग. ङ. झ. ञ. ट. मार्गे.