4 सर्गः ८७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्ताशीतितमः सर्गः ॥ ८७ ॥ ३२३ ॥ १ ॥ तथास्त्रशोकस्यरामादि विपन्मूलकरव- भरतेनगुहमुखाद्रामलक्ष्मणयोर्जटाधारणश्रवणाच्छोकेनमोहाद्भूमौनिपतनम् शङ्किनकौसल्यांप्रतितत्व निवेदनेनसमाश्वासनपूर्वकंगुहं प्रतिरामादिभोजनशयनादिवृत्तान्त निवेदनचोदना ॥ २ ॥ गुहेप्रति सभार्यस्य रामस्यलक्ष्मणकल्पितकुशमयशयनीयशयनादि निवेदनपूर्वकंतदक्षणायलक्ष्मणेनसहस्वस्य जागरणादिनिवेदनम् ॥ ३ ॥. गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ॥ ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ १ ॥ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ॥ पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ २ ॥ प्रत्याश्वस्य मुहूर्ते तु कालं परमदुर्मनाः ॥ पैपात सहसा तो त्रैर्ह्यतिविद्ध इव द्विपः ॥ ३॥ [भरतं मूच्छितं दृष्ट्वा विवर्णवदनो गुहः || बभूव व्यथितस्तत्र भूमिकंपे यथा द्रुमः] ॥ ४ ॥ तदवस्थं तु भरतं, शत्रुघ्नोऽनन्तैरस्थितः ॥ परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ ५ ॥ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः ॥ उपवासकृशा दीना मर्तुर्व्यसनकाशताः ॥ ६ ॥ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् || कौसल्या त्वनुसृत्यैनं दुर्मना: परिषखजे ॥ ७ ॥ वत्सला स्वं यथा वत्समुपगू तपस्विनी | परिपप्रच्छ भरतं रुंदन्ती शोकलालसा ॥ ८ ॥ पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते || अद्य राजकुलस्यास्य॒ त्वदधीनं चै जीवितम् ॥ ९ ॥ त्वां दृष्ट्वा पुत्र जीवामि रामे सैंभ्रातृ गते ॥ वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ १० ॥ कॅचिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् || पुत्रे वाँ ह्येक पुत्रायाः सहभायें वनंगते ॥ ११ ॥ सँ मुहूर्त समाश्वस्य रुदन्नेव महायशाः ॥ कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ १२ ॥ भ्राता मे कावसत्रौ क सीता के चलक्ष्मणः ॥ अस्वपच्छयने कस्मिन्कि भुक्त्वा गुह शंस मे ||१३|| सोब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ॥ यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १४ ॥ • यत्रतत्रैव यत्रक्षणे अप्रियंश्रुतंतत्रैवेत्यर्थः । यद्वा | तेकञ्चिदित्यर्थः । अद्येति रामोवनंगतः चक्रवर्तीतुसं- यत्रविषये अप्रियंश्रुतं तत्रैवध्यानंजगाम स्वाभिल स्थितः अतस्त्वमेवेदानी मस्माकंरक्षकइतिनार्थः । कि- षितकार्य संकटंजातमितिचिन्तापारवश्यं प्राप्तइत्यर्थः न्तु रामोभवतोमुखवैवर्ण्यदृष्ट्वानपुनरनागतोभवेत् अ ||१|| सुकुमारइत्यादिश्लोकद्वयमेकान्वयं । प्रत्याश्वस्य | वश्यमागमिष्यतीत्येतदवेक्ष्यवयंजीवामः । भवान्ना- मुहूर्तकालपरमदुर्मनाः सन् सहसापपात । ससा- | स्तीतिश्रुतंचेत् कइमांदिशमवलोकयेत् ॥ ९ – १० ।। देतिवापाठ: । सुकुमारइत्यादिना तदवस्थानहेत्वमु- लक्ष्मणेविषये ते त्वया । एकपुत्रायाः ममेतिशेषः च्यते ॥ २ – ४ ॥ अनन्तरस्थितः निरन्तरंसमीपे | ॥ ११ ॥ परिसान्त्व्य त्वच्छङ्कितं किमपिनभवेदिति स्थितः ।। ५–६ ॥ अनुसृत्य समीपंप्राप्य ॥ ७ ॥ वदन् परिसान्त्व्येत्यर्थः ॥ १२ – १३ ॥ गुहः हृष्टः उपगूं परिष्वज्य ॥ ८ ॥ नहिभरतस्यव्याधिश्चातु- | रामवृत्तान्तकीर्तनस्यावकाशोलब्धइतिसंजातहर्षःसन् । थिक: अपितुरामविरहएव । रामविरहः तेशरीरंबाध- | रामे यद्विधं यादृशमुपचारादिकं । प्रतिपेदे अकरोदिति शि० तपस्विनी अतिविचारशीला ॥ ८ ॥ स० वृत्ते सद्वृत्ते | राज्ञिगते ॥ १० ॥ ति० भ्रममूर्च्छादेः कारणान्तरंपृच्छति- कञ्चिदिति । अप्रियं प्राणात्ययरूपं ॥ ११ ॥ ति० मुहूर्तविसंज्ञः सन्पश्चात्समाश्वस्येत्यर्थः । परिसान्त्व्य वच्छङ्कतं किमपिनास्ति किंतुतयोर्जटाधारणश्रवणंजदुःखेनमूच्छितोस्मीत्युक्त्वा ॥ १२ ॥ स० अखपदिति । लक्ष्मणंविनाबोध्यं ॥ १३ ॥ शि० प्रियहिते [ पा० ] १ ग. महाद्युतिः २ क. ङ. झ. ट. ससाद. ३ क - च. ज-ट. हृदि विद्ध. ४ ङ, छ. ज. झ. ट. अयंश्लो- कोधिकः, ५ क. नान्तरस्थितः ६ घ. समासेदुः ७ क. ख. ग. ङ च छ. झ. भर्तृव्यसन ८ ख. मुपगृह्य. ९ क. च. ज. मनस्विनी १० क. झ. रुदती. ११ ङ. च. छ. झ ञ ट प्रतिबाधते. १२ क. ख. ङ. च. छ. झ ञ ट अस्यराजकुल १७ क - घ. स्याद्य. १३ क – च. ज. झ. ट. हि. १४ प्रवाजिते. १५ घट. कच्चिन्न १६ क. ग. च. अ. वाप्येक समुहूर्तात्. १८ क. ख. घ. ङ- ट. द्रात्रिं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति