पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । एकनवतितमः सर्गः ॥ ९१ ॥ • ससैन्य परिवारायभरतायतपोमहिम्नाभरद्वाजकृतात्यद्भुतातिथ्यकरणप्रकारवर्णनम् ॥ १ ॥ कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा || भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ १॥ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ॥ पाद्यमर्थ्य तथाऽऽतिथ्यं बने यदुपपद्यते ॥ २ ॥ अथोवाच भरद्वाजो भरतं प्रहसन्निव || जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येनकेनचित् ।। ३ ।। सेनायास्तु तैवैतस्याः कर्तुमिच्छामि भोजनम् ॥ मम प्रीतिर्यथारूपा त्वमर्हो मनुर्जीधिप ॥ ४ ॥ किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ॥ कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ ५ ॥ भरतः प्रत्युवाचेदं प्राँञ्जलिस्तं तपोधनम् || ससैन्यो नोपयातोमि भगवन्भगवद्भयात् ॥ ६ ॥ रांज्ञा च भगवन्नित्यं राजपुत्रेण वा संदा ॥ यत्नतः परिहर्तव्या विषयेषु तपस्विनः वाजिमुख्या मनुष्याच मत्ताश्च वरवारणाः ॥ प्रच्छाद्य भगवन्भूमिं महती मनुयान्ति माम् ॥ ८ ॥ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ॥ न हिंस्युरिति तेनाहमेक एव समागतः ॥ ९ ॥ आनीयतामितः सेनेत्याज्ञतः परमर्पिणा ॥ तैस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ १० ॥ अग्निशालां 'अँविश्याथ पीत्वाऽपः परिमृज्य च ॥ आतिथ्यस्य क्रिया हेतोर्विश्वकर्माणमाह्वयत् ॥ ११॥ आह्वये विश्वकर्माणमहं त्वष्टारमेव च ॥ आंतिथ्यं कर्तुमिच्छामि तंत्र मे संविधीयताम् ॥ १२ ॥ ७॥ ३३४ [ अयोध्याकाण्डम् २ तत्रैवाश्रमेनिवासाय कृतबुद्धिं निश्चितबुद्धिंभरतं | शेषुवर्तमानाऋषयः । यत्नतः परिहर्तव्याः ससैन्येनत- समुनिःआतिथ्येन भोजनपर्यन्तातिथिसत्काराय न्य- त्समीपंनगन्तव्यमित्यर्थः ॥ ७ ॥ कोपनिमित्तमाह - मन्त्रयत् प्रार्थयामास ॥ १ ॥ वनेयत्फलमूलादिकं । वाजिमुख्याइत्यादिना । उटजान् पर्णशालाः॥८–९॥ उपपद्यते लभ्यते । तेनतापसाहारेणातिथ्यंकृतंननु ततः सेनानिवेशस्थलात् । इतः इह । समुपागमं एतावन्मात्रेणतुष्टोस्मीतिभावः ||२|| प्रहसन्निव प्रहा- समानयनं ॥ १० ॥ अग्निशालाप्रवेशः पावनत्वार्थः । सावेदकानुभावयुक्तेत्यर्थः । मुनिरितः परंकिंकरिष्यती- देवतासन्निधानस्थलत्वात् । अपः पीत्वा त्रिरितिशेषः । तिभरताशयज्ञानेनहासः । त्वांप्रीतिसंयुक्तं मद्विषये “त्रिराचामेत्” इतिश्रुतेः । परिमृज्य आस्य॑द्विरितिशे- संतुष्ट॑जाने । अतएवकेनचिदुपचारेणतुष्ये: तुष्टोभवेः षः । “द्विः परिमृज्य” इतिश्रुतेः । चकारेण “सकृदुप- ॥ ३ ॥ भुज्यतइतिभोजनमन्नं । अत्रादौतथापीत्यु- स्पृश्यशिरश्चक्षुषीनासिकेश्रोत्रेहृदयमारभ्य " इत्युक्त- पस्कार्यं । तथापिममप्रीतिर्यथारूपा यादृशप्रकारा संग्रहः । अनेनसर्वकर्माङ्गमाचमन मितिदर्शितं | क्रिया- तथात्वमर्हः त्वंतथाप्रीतोभवितुमर्हइत्यर्थः । तथानुम- हेतोः करणनिमित्तं ॥ ११ ॥ आह्वानमन्त्रमाह - न्तुमर्हसीत्यर्थोवा ॥ ४ ॥ उक्तमेवार्थव्यतिरेकमुखेना- आह्वयइत्यादिना । आह्वयइत्यात्मनेपदमा । विश्व प्याह–कस्मादित्यादिना ॥ ५ ॥ भगवद्भयात् भवा- न्कुप्येदितिभयात् ॥ ६ ॥ विषयेषुतपस्विनः स्वकीयदे - कर्मा सर्वशिल्पकर्ता । त्वष्टातु तक्षणेनगृहादिनिर्माता । यद्वा त्वष्टारमेवचेत्यवधारणेनासुरविश्वकर्मामयोव्या- ति० आतिथ्येन विशिष्टभोजनोपेतातिथि सत्काररूपहेतुना । फलमपिहेतुः ॥ १ ॥ ति० वनवा सित्वेनदरिद्रत्वा देतदधिकाति- थ्यकरणेऽसामर्थ्य मन्यतइत्याशयेन – प्रहसन्निवेति ॥ ३ ॥ ति० भगवद्भयात् भगवदाश्रमपीडाप्रसङ्गभयादित्यर्थः ॥ ६ ॥ स० तबराजवंकथमितिमुनिश्शङ्केते तिमलाऽऽह- राजपुत्रेणवेति । शि० हेभगवन् तपखिननॊविषयेषु तत्समीपवर्तिदेशेषु [पा०] १ च. तुष्यवं. २ङ. झ ट . तवैवास्याः ३ क• तथा. ४ क. – ट. मनुजर्षभ. ५ ख. चविनिक्षिप्य. ६ क. दूरेचबलमागतः. ७ ग़. च. प्राञ्जलिस्तु. ८ ङ. छ. झ. ट. नसैन्येनोप. ९ क. ख. ङ. च. छ. झ ञ ट राज्ञाहि. ग. राज्ञातु. १० ङ. च. छ. झ ट तथा. ख. ग. सता. ११ च विषयेतु. १२ क महतीं भूमिभगवन्ननुयान्ति. १३ क. ख. ङ. च. छ. झ. ञ. ट. एवागतस्ततः १४ ङ. छ. झ. ट. तथानु. क. ख. घ. च. ञ तथातु. ग. तथास. १५ घ. प्रविश्याद्य. १६ ख. ग. आतिथ्यसत्किया. १७ च तच.