३४४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ॥ विशेषं ज्ञातुमिच्छामि मातृणां तव राघव ॥ १८ ॥ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ॥ उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ १९ ॥ यामिमां भगवन्दीनां शोकानशनकर्शिताम् ॥ पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २० ॥ एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् || कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २१ ॥ अस्या वामभुंजं श्लिष्टा यै॒षा तिष्ठति दुर्मनाः || [इयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा ॥ ] कर्णिकारस्य शाखेव शीर्ण पुष्पा वनान्तरे ॥ २२ ॥ एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ॥ उभौ लक्ष्मणशत्रुमौ वीरौ सत्यपराक्रमौ ॥ २३ ॥ यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ॥ राजापुत्रविहीनश्च स्वर्ग दशरथो गतः ॥ २४ ॥ क्रोधनामकृतप्रज्ञां दृतां सुभगमानिनीम् ॥ ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् ॥ २५ ॥ ममैतां मातरं विद्धि नृशंसां पापनियाम् || तीमूलं हि पश्यामि व्यसनं महदात्मनः ॥ २६ ॥ इत्युक्त्वा नैरशार्दूलो बाष्पगद्गदया गिरा || सँ निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ||२७|| भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तंथा || प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २८ ॥ यी ।। १७ ।। दृढव्रतइत्यनेन सर्वज्ञत्वंलक्ष्यते । सर्व- दुर्मनस्त्वेदृष्टान्तः– कर्णिकारस्येति । शीर्णपुष्पा म्ला- ज्ञोपिकैयेयीशिक्षार्थपप्रच्छेत्यर्थ: । विशेषं संज्ञासंज्ञि- नपुष्पा ॥ २२ ॥ एतस्याइत्यत्र उक्तगुणसंपन्नयोले- संबन्धादिविशेषं इतिकरणमध्याहृत्य इतिपप्रच्छेत्य- क्ष्मणशत्रुघ्नयोर्मातेयमितिबोध्यं । देववर्णिनौ अश्विनी- न्वयः ।। १८ । धार्मिकः सत्यवादीत्यर्थः । वचनको- देवतुल्यौ ॥ २३ ॥ जीवनाशं राक्षसभूयिष्ठंदण्डका - विदः वचनेपण्डितः भरद्वाजवचनतात्पर्यज्ञइत्यर्थः । रण्यंप्रतिविवासनात् जीवस्यजीवनस्यनाशं । इतः भरतमुखेनमातॄणांस्वभावविशेषप्रतिपादनंहिमुनेरा- शयः ॥ १९ ॥ शोकानशनकर्शितां शोकानशना- भ्यांकर्शितां । देवतामिव धर्मदेवतामिव । सिंहवि - क्रान्तगामिनं सिंहवद्विक्रान्तंविक्रमयुक्तंयथाभवतित- थागामिनं गमनशीलं । धातारं विष्णुं । एषधा- ताविधाताच " इतिवक्ष्यमाणत्वात् । सर्वगुणसंपन्ना राममाताएषाकौसल्येत्यर्थः ॥ २०–२१ ॥ वामभु- जंश्लिष्ठा कौसल्यायावेपमानाङ्गत्वात्तद्धारणार्थतद्वाम- क्त्वा । नागः सर्पः ॥ २७ ॥ तथाब्रुवन्तमित्यन्वयः । भुजमवनृत्यस्थितेत्यर्थः । दुर्मना: दुःखितमनाः । महाबुद्धिः भाविज्ञः । अर्थवत् प्रयोजनवत् ॥ २८ ॥ सैवसेतिकर्मधारयः । कैकेयीच ॥ १६ ॥ शि० शोकानशनकार्शितां शोकहेतु क भोजनाभाव हेतुककृशताविशिष्टां ॥ २० ॥ स० धातारं उपेन्द्रं ॥ २१ ॥ स० देववर्णिनौ देवानांवरूपमेतयोरस्तीतितथा । यद्वा देवानांवर्णोवर्णनास्तुति रितियावत् । ययो- इहवने । क्रुध्यतीतिक्रोधना कर्तरिल्युट् | अकृतप्रज्ञां अशिक्षितबुद्धिं । सुभगमानिनीं सुभगांसुन्दरीमात्मा- नंमन्यतइतिसुभगमानिनीतां । वस्तुतोऽनार्थी आर्य- रूपिणीं । आर्यवद्भासमानां । यतोमूलं यत्कारणकं । आमनोमम ॥ २४–२६ ॥ बाष्पगद्गदया रामवि- वासनस्मरणजबाष्पेणगद्गदया स्खलन्त्या गिरा इत्यु- 66 कुमारौ षण्मुखसमौ । कुः कुत्सितोमारः सौन्दर्येणयाभ्यामितिवा । अतोनसुता वित्यतिरिक्तता ॥ २३ ॥ स० जीवनेपिना- शःजीवनाशः अदर्शनमितियावत् | तंगतौ । शि० जीवनाशं जीवस्यप्रजापालनस्यनाशंअभावं गतौ ॥ २४ ॥ शि० क्रोधेनाम- प्रसिद्धियस्यास्साक्रोधनामामन्थरा | तस्यांकृतास्थापिताप्रज्ञाबुद्धिर्ययातां मन्थरानुकूलवर्तिनीमित्यर्थः । दृप्तां अहमतीवराजप्रिये. तिगर्वविशिष्टां राजातिप्रीतिविषयीभूतामित्यर्थः । अतएवसुभगमानिनीं सुभगानांराज्ञःस्खशुभप्राप्तीच्छावतांकर्तॄणांमानःपूजाअस्ति अंस्यास्तां । अतएवऐश्वर्यैःकामयतेशोभतेसातां । आर्यरूपिणीं प्रशस्तरूपविशिष्टां | तत्ववेत्तृसत्कृतिनिरतांवा । नृशंसां रामवियो- गहेतुत्वेननृभिःकथ्यमानां । पापनिश्चयां पापेखहेतुकवियोगदुःखदानरूपापराधेनिश्चयो यस्यास्तां । यतोयस्याःअमूलंअकारणकं आत्मनोव्यसनं अनवस्थितिं पश्यामि तांअनार्यांकनिष्ठांएतांकैकेयीं मममातरंविद्धि । स० आर्यरूपिणीं आर्यस्यवस्तुनइवरूपंयस्यास्तां । [ पा० ] १ क. ख. घ. च. ञ. व्याघ्रविक्रान्त. २ क्र. ख. च. वामंभुजं. ३ इदमर्धं ङ. छ. ज. झ. ट. पुस्तकेषुदृश्यते. ४ च. ततोमूलं. ५ ग. नृपशार्दूलो ६ ग. बाष्पोपहतया. ७ ङ. छ. झ. विनिश्वस्यस. ८ क. ख. ग. च. ज. ज. ट. क्रुद्धो- नागइवासकृत्. छ. झ. क्रुद्धोनागइव. ९ ख. ग. ङ छ – द, तदा १० ङ. बुद्धिर्नृशंसांपापनिश्चयां.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति