पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • 49

३४६ श्रीमद्वाल्मीकिरामायणम् । त्रिनवतितमः सर्गः ॥ ९३ ॥ सैन्यादिभिः सहचित्रकूटमागतवताभरते नभरद्वाजो क्तलक्षणैस्तस्य चित्रकूटत्व निर्धारणेन सैन्यान्प्रतिरामाश्रमान्वेषणचोदना ॥ रामावासंविचिन्वद्भिर्नातिदूरे धूमदर्शनमावेदितेन भरते नतदेशस्य रामावासत्वसंभावनयातत्रैवसेना स्थापनपूर्वकं वसिष्ठसुमनसाहित्येनतद्देशगमनाध्यवसायः ॥ २ ॥ [ अयोध्याकाण्डम् २ तया महत्या यायिन्या ध्वजिन्या वनवासिनः ॥ अर्दिता यूथपा मत्ता: सयूथाः संप्रदुद्रुवुः ॥ १ ॥ ऋक्षा: पृषतसेवाश्च रुवश्च समन्ततः || दृश्यन्ते वैनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥ स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ॥ वृतो महत्या नादिन्या सेनया चतुरङ्गया || ३ || सागरौघनिभा सेना भरतस्य महात्मनः ॥ महीं संच्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ ४ ॥ तुरङ्गौघैरवतता वारणैश्च मेहाजवैः ॥ अनालक्ष्या चिरं कालं तसिन्काले बभूव भूः ॥ ५ ॥ स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ॥ उवाच भैरतः श्रीमान्वसिष्ठं मत्रिणां वरम् ॥ ६ ॥ यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ॥ व्यक्तं प्राप्ताः स तं देशं भरद्वाजो यमब्रवीत् ॥ ७ ॥ अयं गिरिचित्रकूट इयं मन्दाकिनी नदी ॥ एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ ८ ॥ गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति || वारणैरवमृद्यन्ते मकैः पर्वतोपमैः ॥ ९ ॥ सुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु || नीला इवातपापाये तोयं तोयधरा घनाः ॥ १० ॥ किंनराचॅरितं देशं पश्य शत्रु पर्वतम् ॥ मृगैः समन्तादाकीर्ण मकरैरिव सागरम् ॥ ११ ॥ 66 यायिन्या गच्छन्त्या | अर्दिताः पीडिता: | यूथपाः | र्तित्वरूपं मयाच यथा येनप्रकारेण श्रुतं भरद्वाजात् गजादियूथनाथाः । 33 यूथनाथस्तुयूथपः इत्यमरः |तथादृश्यतइतिशेषः ॥ ७ ॥ तदेवाह - अयमित्या- ॥ १ ॥ पृषतसङ्घाः बिन्दुमन्मृगसङ्घाः । ऋक्षा: दिना । अयं पुरोवर्तीगिरिश्चित्रकूटोभवति तथेयंम - भल्लूकाः । रुरवोबिन्दुरहिता: स्थूलकाया: विकटशृङ्गा |न्दाकिनीभवति । एतत् अनयोर्मध्यवर्तिवनं । नील- मृगाः । दृश्यन्ते अदृश्यन्त । वनराजीष्वित्यादि- मेघनिभंप्रकाशते ॥ ८ ॥ अथतद्देशप्राप्तिंदर्शयति नाअपूर्वमनुष्यादिदर्शनेनस्तब्धेक्षणाः स्थिताइत्युच्यन्ते - गिरेः सानूनीति । सानूनि एतानीतिसिद्धं । ॥ २ ॥ नादिन्या रथघोषहेषितबृंहितादिभिरितिशेषः अवमृद्यन्ते भंज्यन्ते ॥ ९ ॥ अथरामनिवासत्वेनभो- ॥ ३ ॥ द्यां आकाशं ॥ ४ ॥ अवतता निरन्तरा । तस्मिन्काले गमनकाले । चिरकालमित्यनेनकदाचिल्ल- | ग्यताबुद्ध्यातद्वनंभ्रातरंप्रतिवर्णयति–मुञ्चन्तीत्यादि। क्ष्यतइतिगम्यते ॥ ५ ॥ मत्रिणां मत्रविदां | यद्वा एते बकुलाइत्यर्थः । आतपापाये घर्मान्ते वर्षाकाल औचित्यान्मत्रशब्दः कार्यविचारेवर्तते ॥ ६ ॥ अस्य इतियावत् । तोयधराइति नीलत्वेहेतुः ॥ १० ॥ देशस्य यादृशंरूपंलक्ष्यते मन्दाकिनीचित्रकूटमध्यव- | किंनराचरितंदेशं किंनराचरितदेशरूपंपर्वतं ॥ ११ ॥ ति० वनवाटेषु वनमार्गेषु । "वाट: पथंश्च पन्थाञ्च" इतिशब्दरत्नमाला ॥ २ ॥ ति० सा मही ॥ ५ ॥ सं० भरद्वाजोयं देशं यादृशं यादृशलक्षणं विशिष्टंअब्रवीत् यथाचमयाश्रुतं तादृशलक्षणंतंदेशं व्यक्तंप्राप्तास्स्म । यतोस्यरूपंतथैवलक्ष्यते । स्मेत्यव्ययंवा आर्षोवाविसर्गलोपः ॥७॥ स० यंभरद्वाजोऽब्रवीदित्यस्यात्राप्यन्वयः । तथायांनदीमब्रवीत्सा मन्दाकिनी नदीइयमेवेत्यन्वयः ॥८॥ ति० अवमृद्यन्ते पीड्यन्ते ॥ ९ ॥ ति० अतएवैते नगाः वृक्षाः गजानामाघातेनचलितशाखाः पर्वतसानुषुकुसुमानिमुञ्चन्ति [ पा० ] १ ख. ग. गच्छन्त्या. २ ङ. छ. झ. ट. मुख्याश्च. ग. संघाता. ३ छ. झ. वनवाटेषु. ४ घ. च. ञ. यायिन्या. ५ ङ च छ. झ ञ ट महाबलैः ६ ङ. चं. छ. झ ञ ट. सा. ७ क. ग. ङ. छ. झ ञ ट गवा. ८ क. ङ. च. छ. झ ञ संपरि. ट. सपरि. ९ ङ. छ. झ. ट. वचनंश्रीमान्. १० घ. तादृशं ११ ङ. छ. झ. ट. मयाश्रुतं. ड-ञ. कूटस्तथा. १३ च. ट. कामगैः १४ क. ग. घ. च. ज. चरितोद्देशं. १५ ख ङ. छ. झ. ट. पर्वते. ख. ग. ङ, छ, झ, ञ. ट. ह्यैः. १२ क. ग. १६ क.