पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ॥ वने प्राकेवलं तीर्थं ये ते निर्विषयीकृताः ॥ ४ ॥ इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ॥ स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ ५॥ जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः || आतुर्यदर्थसंहितं सर्वे द्विहितं गुणैः ॥ ६॥ अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ॥ नीचानर्थ समाचार सज्जं कर्म प्रमुञ्चतु ॥ ७ ॥ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले || पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ ८ ॥ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा || उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ९ ॥ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ॥ राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ १० ॥ तस्य देवसमानस्य पार्थिवस्य महात्मनः ॥ नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ ११ ॥ चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: || कॅथमिङ्गुदिपिण्याकं से मुझे वसुधाधिपः ॥ १२ ॥ अतो दुःखतरं लोके न किंचित्प्रतिभाति मा || यत्र रामः पितुर्दद्यादिहुदीक्षोदमृद्धिमान् ॥ १३ ॥ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे || कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ १४ ॥ श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति माँ ॥ यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः॥ १५ ॥ एवमति सपत्न्यस्ता जग्मुराश्वास्य तां तदा || दहशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ १६ ॥ रामदर्शनेसंजाताभिलाषः । “ कामोभिलाषस्तर्षश्च ” इत्यमरः ॥ १-३ ॥ ते प्रसिद्धा रामादयः । ये प्राक् निर्विषयीकृताः राज्यान्निष्कासिताः वने तेषां क्लिष्टमुमतिं । इदंतीर्थं अवतरणं । केवलं नि - श्चितं । “ केवलंनिश्चितेक्कीबेवाच्यवत्त्वेककृत्स्नयोः ” इतिवैजयन्ती ॥४–५॥ जघन्यं हीनं जलाहरणादि- कर्म कृतवानपि नगर्हितः । वाह - भ्रातु- रिति । भ्रातुः ज्येष्ठभ्रातुः । अर्थसहितं प्रयोजनस- हितं । यत्कर्म तत्सर्वं गुणैर्विहितं । " ज्येष्ठभ्रातापि- तृसमः ” इतिवचनात्पितृशुश्रूषावगुणायकल्पतइत्यर्थः | स्तादृशक्लेशानामनुचितः । ते अयंपुत्रः नीचानर्थस- माचारं निकृष्टदुःखप्रचुरसमाचारसहितं । सज्ज उद्युक्तं । कर्म अद्यप्रमुञ्चत्वपि अपिशब्दःसंभावनायां । " अपिःसंभावनाप्रअगाशिङ्कासमुच्चये " इतिवैज- यन्ती | भरतप्रार्थनयारामेणस्वराज्ये स्वीकृते लक्ष्मण- स्वनीचकर्मप्रमोचनंसंभवेदितिभावः ॥ ७ ॥ पितुरिति चतुर्थ्यर्थेषष्ठी ।। ८ - १०।। औपयिकं प्राप्तं । “युक्तंस्या- दुचितंन्याय्यं प्राप्तमौपयिकंतथा" इतिहलायुधः ॥ ११ - १२॥ राज्यैश्वर्ययोग्यतयाऋद्धिमानित्युक्तिः ॥ १३ स्फोटति स्फुटति ॥ १४ ॥ सत्या सत्यार्था । लौकिकी " ॥ ६ ॥ क्लेशानामतथोचितः इदानींया दृशक्लेशानुभव- लोकविदिता लोकप्रसिद्धेतियावत् । देवताइतिश्रुतिः ति० प्राक्कलनं बहुव्रीहिरयं । प्रथमपरिग्रहवत् । तीर्थं पुण्यतीर्थ | गङ्गायमुनापरपारभवमिदमेव । प्राक्केवलमितिपाठआधुनि- ककल्पितः । नापितत्रार्थसामञ्जस्यमितिकतकः । तत्रापिपाठे प्राक्परिगृहीतमितिशेषः । प्राक्परिगृहीतं तीर्थं जलानयनादिव्यव- हारोपयोगीमार्गः । इदमेवेतिकेवलं निश्चितमित्यर्थोवक्तुंशक्यः | स० लिष्टं दुःखरोहं । प्राक्कलनं बहुदिनमारभ्यस्त्रानाद्यर्थे परि गृहीतं । तीर्थं अवतारप्रदेशः । इतिनिश्चयइतिशेषः ॥ ४ ॥ वक्ष्यमाणसौमित्रिपदव्याख्यानंसुमित्रेपुत्रस्तइति ॥ ५ ॥ ति० गुणैः ज्येष्ठत्वसौभ्रात्रधार्मिकत्वादिभिर्विशिष्टस्य भ्रातुर्यदर्थरहितं प्रयोजनरहितं तदेवगर्हितं भवति । शि० भ्रातुरर्थरहितंयत् तदेव सर्वे । गुणैः गुणवद्भिर्गर्हितं ॥ ६ ॥ ति० क्लेशानां अनुभूयमानानां । तथा यथानुभवमुचितोनेत्यतथोचितः । ते अयंपुत्रः नीचार्होयोऽनर्थः दुःखजनकः समाचारः अनुष्ठानंयस्मिंस्तत्तथा सज्जं प्रस्तुतं । यथोक्तंकर्ममुञ्चतु रामस्यप्रत्यावर्तिष्यमाणत्वादिति- भावः ॥ एकःशत्रुघ्नस्तुभरतसंगादेत कर्मनकरोत्येव अयमपिमुञ्चलित्यपेरर्थः ॥ ७ ॥ ति० स्त्रियः प्रतीतिशेषः ॥ ९ ॥ ति० औपयिकं उचितं ॥ ११ ॥ ति० चतुरन्तां चतुस्समुद्रावसानां ॥१२॥ ति० क्षोदं पिष्टं । स० यत्रयत् । अतः अस्मात् ॥१३॥ । [ पा० ] १ ङ. छ. झ. ट. प्राक्कलनं. २ ङ. छ. श. ट. रहितं. ३ ङ. छ. झ. ट. तद्गर्हितं. ४ ङ. अथायं. ५ घ. पुनर्दत्तं. ६ क. ङ. च. छ. झ, ञ. ट. भुवि. ७ घ. कार्म. ख. कथमैडद. ८ ग. घ. भुङ्क्लेस. ९ ङ. छ, झ, ठ, मे, च, ज. मां. १० ङ. छ. झ. ट. मे. च. ज. ञ. मां. ११ घ. ज. मार्ता:. १२ क. ञ. स्वर्गाच्युतं.