पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ वृताः सुहृद्भिश्व विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥ ३२ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे व्युत्तरशततमः सर्गः ॥ १०३ ॥ ३८८ चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ रामेणतापसवेषधारिणंभरतंप्रतिराज्यपरित्यागेनवनंप्रत्यागमननिमित्तप्रश्नः ॥ १ ॥ भरतेनरामंप्रतिकैकेयी गर्हणपूर्वकं सप्रणामंराज्यस्वीकारप्रार्थना ॥ २ ॥ रामेणभरतंप्रतिपितृवाक्यपरिपालनस्योभाभ्यामवश्यं कर्तव्यत्व समर्थनपूर्वकंतत्रभाग परिकल्पनेनस्चेनवनवासरूपस्वभागपरिग्रहणदृष्टान्तीकरणे न राज्य परिपालनरूपतदीयभागपरिग्रहणचोदना ॥ ३ ॥ तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् ॥ लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ १ ॥ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया || यस्मात्त्वमागतो देशमिमं चीरजटाँजिनी ॥ २ ॥ 'किंनिमित्तमिमं देशं कृष्णाजिनजटाधरः ॥ हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ ३ ॥ इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ॥ प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥ आर्ये तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ॥ गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ ५ ॥ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप || चकार सुमहत्पापमिदमात्मयशोहरम् ॥ ६ ॥ सा राज्यफलमप्राप्य विधवा शोककर्शिता ॥ पतिष्यति महाघोरे निरंये जननी मम ॥ ७ ॥ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि ॥ अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव ॥ ८ ॥ ब्दोवाक्यालंकारे ।। ३१ – ३२ ॥ इति श्रीगोविन्द- | एतत् एतत्कारणंकिं । अहं त्वयाप्रव्याहृतं श्रोतुमिच्छेयं राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने श्रोतुमिच्छामि नतुऊयेतिभावः ॥ २ ॥ एवमुक्तेपि अयोध्याकाण्डव्याख्याने व्युत्तरशततमः सर्गः||१०३|| शोकेनतूष्णींस्थितंपुनः पृच्छति - किंनिमित्तमित्यादि- श्लोकद्वयेन । काकुत्स्थेन बलवत्प्रगृह्य गाढंपरिष्वज्य अथरामभरतयोरुक्तिप्रत्युक्तीचतुरुत्तरशततमे - तत्सर्ववक्तुमर्हसीतिभूयउक्तः कैकयीपुत्रः प्राञ्जलिर्वा- तंत्वित्यादिना । गुरुवत्सलं गुरौस्वस्मिन् भक्तं | समा- क्यमब्रवीदित्यन्वयः ॥ ३–४ ॥ सुदुष्करंकर्मकृत्वा ज्ञाय ज्ञात्वा प्राप्तराज्यपरित्यागेनजटावल्कलधारणा- ज्येष्ठाहैराज्यंस्त्रीनियोगात्कनिष्ठसात्कृत्येत्यर्थः । आर्य दिनाचस्वस्मिन्भक्तियुक्तंज्ञात्वेत्यर्थः । समाश्वास्येति | त्वां परित्यज्य विवास्य ॥ ५ ॥ सुमहत्पापं सुपुत्रस्य पाठे प्रियवचनादिभिः सम्यगाश्वास्येत्यर्थः ॥ १ ॥ वनेप्रव्राजनरूपं ॥ ६ ॥ सा एवंरूपपापप्रेरणकर्त्री यस्मात्कारणात् त्वं चीरजटाजिनीसन् इमंदेशमागतः ॥ ७ ॥ तस्य कैकेयीसंबन्धात्प्राप्तापवादस्येत्यर्थः । ति० त्रयोऽग्नयः शत्रुघ्नस्याप्राधान्येनपरिहरणात् ॥ स० लक्ष्मणशत्रुघ्नयोरेकोदरजलाच्छत्रुघ्नस्यपृथगनुक्तिः ॥ ३२ (1 इतित्र्युत्तरशततमस्सर्गः ॥ १०३ ॥ ति० एवंकच्चित्प्रश्नानन्तरंख स्पराजत्वा भावसूचयितुंतदुत्तर मप्रयच्छन्तंभरतं प्रतिरामेणागमनप्रयोजनप्रश्नः तंत्विति । समा ज्ञाय कुशलप्रश्नव्याजेनसर्वधर्माज्ञापयित्वा ॥ १ ॥ ति० पूर्वपृष्टमेवार्थे क्वनुतेऽभूत्पितेत्येवंरूपंभङ्ग्यन्तरेणपुनःपृष्ट॑ज्ञात्वातदुत्तरमा- ह-आर्येति । परित्यज्य अस्मान्सर्वानि मंचलोकमितिशेषः । आर्यपरित्यज्येतिपाठे विवास्येत्यर्थः । स० पुत्रशोकाभिपीडितः पुत्रो- वनंगतइतिशोकेनाभिपीडितः । शि० हे आर्य स्त्रिया मत्पत्न्या । प्रार्थितयेतिशेषः । मममात्राकैकेय्या नियुक्तः प्रार्थितः । तातः सुदुष्करंकर्मकृत्वा त्वांप्रव्राज्येत्यर्थः । परित्यज्य प्रकटायोध्यामितिशेषः । स्वर्गे अप्रकटसाकेतंगतः । अतस्साकैकेयी इदंमह- त्पापं चकार । स्त्रियाप्रार्थितयेत्यनेन मन्थरामाण्डव्योरतिप्रीतिस्सूचिता । तेन माण्डवी कर्तृ कमेवेदं सर्वमितिसूचितं । श्लोकद्वयमे- कान्वयि ॥ ५ ॥ ति० सुमहदितिपाठे सेत्यध्याहारः ॥ ६ ॥ शि० नरके नरोचारितनिन्दाशब्दे | पतिष्यति अपतत् । ऌडुपात्तभविष्यत्त्वस्याविवक्षा ॥ ७ ॥ ति० एवंपितृमरणेश्रुतेतदुचितकृत्येकृतेततःपरंयद्वक्तव्यंतत्संक्षेपेणाधुनैवब्रूतेभरतः - तस्यम- [ पा० ] १ क. ग. च. सुहृद्भिस्तु. २ ङ. छ. झ.ट. विरेजिरेऽध्वरे. ३ अयंसर्गः ङ. च. झ. ज. ठ. पुस्तकेषु १०१ तमस गतयाध्यते ४ ग. घ. समाश्वास्य ५ घ. च. ञ. भरतं. ६ ख. ग. जटाधरः. ज. जटाजिनः ७ ख. ग. ड. छ. - ट. यन्निमित्तं. ढं गं. छं. झ. ट. आर्यतातः ९ ङ. ट. सामहत्, १० क. ग. च, छ, झ, ञ, ट, नरके ११ ख. राज्येस्मिन्ममराघव.