पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११२ ] श्रीमद्गोविन्दराजीयव्यांख्यासमलंकृतम् । द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥ रामभरतसंभाषणशुश्रूषयागगनाङ्गणमुपागतैर्देवादिभिस्तत्संभाषणप्रशंसनम् ॥ १ ॥ तथाभरतंप्रतिरामेणपितुरानृण्याय वनवासस्यावश्यं कर्तव्यत्वोक्तिपूर्वकं स्वस्वावासगमनम् ॥ २ ॥ रामप्रतिनिवर्तनेउपायान्तरमनुपलभमानेन भरतेनराज्यपालने स्वस्यशक्त्यभावकथनपूर्वकं पुनस्सप्रणामंरामंप्रतिप्रार्थनम् ॥ ३ ॥ रामेणभरतंप्रतिस्वस्य दुःस्त्यजप्रतिज्ञत्वकथने भरतेनतंप्रतिहे- मपादुकाद्वय प्रदर्शनेनतत्र निजपदार्पण पूर्व कं स्वस्मैतहानप्रार्थना || ४ || रामेणपादुकादाने भरतेनतंप्रति चतुर्दशवर्षसमायव्य- वहितोत्तरदिनेऽनागमनेस्नानौप्रवेशप्रतिज्ञानम् ॥ ५ ॥ रामेणतदङ्गीकरणेनसपरिष्वङ्गंभरत शत्रुघ्नविसर्जन पूर्वकंयथोचितसं- माननेनसकलजनानांगमनाभ्यनुज्ञानेनस्वपर्णशालाप्रवेशः ४१५ ॥ ६ ॥ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् || विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ १॥ अन्तर्हितास्त्वृषिगणा: सिंद्धाश्च परमर्षयः ॥ तो भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २ ॥ सँ धन्यो यस्य पुत्रौ द्वौ धर्मज्ञो धर्मविक्रम ॥ श्रुत्वा वयं हि संभाषासँभयोः स्पृहयामहे ॥ ३ ॥ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ॥ भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ ४ ॥ कुलेजात महाप्राज्ञ महावृत्त महायशः ॥ ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ ५ ॥ सदानृणमिमं रामं वयमिच्छाम पितुः || अनृणत्वाच्च कैकेय्याः स्वर्गे दशरथो गतः ॥ ६ ॥ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः ॥ राजर्षयश्चैव तैदा सर्वे स्वांखां गतिं गताः ॥ ७ ॥ राज्यपरिपालनेन अनृतान्मोचयेत्यर्थः ॥ ३२ ॥ इति | राजर्षिगणाः । सिद्धा: देवजातिविशेषाः । परमर्षयः श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता - देवर्षयः । इदमुत्तरत्र "एतावदुक्त्वावचनंगन्धर्वाः म्बराख्याने अयोध्याकाण्डव्याख्याने एकादशोत्तरशत- समहर्षयः । राजर्षयश्चैव” इत्यत्रव्यक्तीभविष्यति ततमः सर्गः ॥ १११ ॥ ॥ २ ॥ धर्मविक्रमौ धर्मशूरौ । वयमुभयोः संभाषां। |श्रुत्वा स्पृहयामहे पुनः पुनः श्रोतुंवाञ्छामइत्यर्थः । अथभरतस्यसमाधानंकृत्वाप्रस्थापनंद्वादशोत्तरशत- ततमे—तमित्यादि । भ्रातृभ्यांसंगमं भ्रातृभ्यामन्यो- वयंययोरुभयोः संभाषां श्रुत्वस्याम तादृशौध - न्यसौहार्देनकृतंसंगमं प्रेक्ष्य बिस्मिताअभूवन्नितिशेषः र्मज्ञौधर्मविक्रमौद्वौपुत्रौयस्य । सधन्यइत्यन्वयः ॥ ३ ॥ ॥१॥ अन्तर्हिताः पूर्वमेवान्तर्धानं प्राप्ताः ऋषिगणा: संगता: ऐककण्ठ्यंप्राप्ताः ॥ ४ ॥ पितरंयद्यवेक्षसे रजनमाख्यायपुनर्भरतंप्रत्याह-वृतइति । तद्वचनं तस्याः कैकेय्यावचनं । मयाकृतं । मोचयानेन मोचयमानेन । एवंमदुक्तकर- णेनत्वमपिपितरमनृतान्मोचयेतिध्वनिः | शि० राजाकैकेय्यावृतः वरदायकत्वेनस्वीकृतः । मयाच तद्वचनंकृतं स्वीकृतं । अतः अनेनत्वत्कर्तृकराज्य परिपालनेनमत्कर्तृवनवाससंमतिदानेनचपितरमनृतान्मोचय ॥३२॥ इत्येकादशाधिकशततमस्सर्गः ॥१११॥ ति० समुपेताः स्वार्थरावणवधसंपत्तयेतत्रस्थलेसमवेताः । महर्षयोनारदायाः । स० तसंगम परस्परमेलनं । भ्रातृभ्यां भ्रात्रोः । प्राधान्यादुभयोक्तिः । संगमंप्रेक्ष्यविस्मिताबभूवुः ॥ १ ॥ ति० अन्तर्हिताः अदृश्यरूपाआकाशस्थाः ॥ २ ॥ स० सदाय सदुत्कृष्टौ । नकेवलंधर्मज्ञौ किंतु धर्मविक्रमौ धर्मप्रवर्तकौ । ति० उभयोः संभाषां संभाषणंश्रुत्वा उभाभ्यांस्टहयामहे प्रीताभ- वामः । शि० सदास्पृहयामहे पुनः पुनः श्रोतु॑वाञ्छामः ॥ ३ ॥ स० पितरंयद्यवेक्षसे सत्यवचनं यदीच्छसीत्यर्थः ॥ ५ ॥ ति० सदानृणं सतास्वकृतसमीचीनानुष्टाने नआसर्वतोऽनृणमित्यर्थः । अनृणत्वात् रामप्रतिज्ञयेतिशेषः । यदिरामइदानीं विपरीतं कुर्या- त्प्रतिनिधिद्वारावाऽनुतिष्ठेत्तदातेपितुःपुनस्वर्गाशएवेतिध्वनिः । स० पितुस्सदाऽनृणं ऋणरहितं इच्छामहे | साचेच्छाऽत्र सत्येवपर्याप्ताभवतीतिभावः । कैकेय्याअनृणत्वात् तत्संबन्ध्यृणरहितत्वादित्यर्थः । शि० यतः कैकेय्याअनृणत्वात् अनृणवंप्राप्य [ पा० ] १ ङ. च. ज. – ट. समुपेता, २ ङ. छ. झ. च. ट. अन्तर्हितामुनिगणाः च. ज. अन्तर्हिताऋषिगणाः. ३ ङ. छ. झ. ट. स्थिताश्च. ४ ङ. च. छ. झ. ज. ट. महाभागौ. क. ख. महावीयाँ ५ छ. झ. ट. सदायौंराजपुत्रौ. ङ. सभार्यौराजपुत्रौ. ६. क. धर्मवत्सलौ. घ. सत्यविक्रमौ. ७ क. ख. मुभाभ्यां. ८ क. सिद्धाः ९ ख. रघुशार्दूलं. १० क मूचुस्ते. ११ ख. घ. महाव्रत १२ च ज एवमुक्त्वातु १३ क. सगन्धर्वामहर्षयः १४ क. - ट तथा.