> 3." + ४२२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् || प्रच्छन्नां नीलजीतर्भास्करस्य प्रभामिव ॥ २० ॥ भरतस्तु रंथस्थः सञ्श्रीमान्दशरथात्मजः || वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २१ ॥ किंतु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ॥ यथापुरमयोध्यायां गीतवादित्रनिःस्वनः ॥ २२ ॥ वारुणीमद्गन्धश्च माल्यगन्धश्च मूच्छितः ॥ धूपितागरुगन्धव न प्रवाति समन्ततः ॥ २३ ॥ यानप्रवरघोषश्च स्सिँग्धश्च हयनिखनः ॥ प्रेमत्तगजनादश्व महांच स्थनिःस्वनः ॥ नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २४ ॥ चन्दनागरुगन्धांश्च महार्हाश्च नैवस्रजः ॥ गते हि रामे तरुणाः संतप्ता नोपभुञ्जते ॥ २५ ॥ बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ॥ नोत्सवाः संप्रवर्तन्ते रामशोकार्दिते पुरे ॥ २६ ॥ संह नूनं मर्म आात्रा पुरस्यास्य तिर्गता ॥ नं हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २७ ॥ कँदा नु खलु मे आता महोत्सव इवागतः ॥ जनयिष्यत्ययोध्यायां हर्ष ग्रीष्म इवाम्बुदः ॥ २८ ॥ तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ॥ संपतद्भिरयोध्यायां नौभिभान्ति महापथाः ॥ २९ ॥ 'एवं बहुविधं जल्पन्विवेश वसतिं पितुः ॥ तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ ३० ॥ तदा तदन्तः पुरमुज्झितमभं सुरैरिवोसृष्टमभास्करं दिनम् निरीक्ष्य सर्वे तु विविक्तमात्मवान्मुमोच बाष्पं भरतः सुदुःखितः ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥११४ किशोरीं बालबडबां ॥ १७ – १९ ॥ प्रविगाढायां | पाठः ||३०|| सुरैरुत्सृष्टं अभास्करंदिनमिव उज्झितप्रभं प्रवृद्धायां भास्करस्य प्रभामिवस्थितां । उक्तविशेषणविशि अन्तःपुरंनिरीक्ष्येतिसंबन्धः । विविक्तं विजनं । ष्टामयोध्यांप्रविवेशेतिपूर्वेणान्वयः ॥ २०-२१ ॥ किंनु "विविक्तौपूतविजनौ” इत्यमरः । पुराकिलदेवासुर- खळु अहोकष्ट॑जातमित्यर्थः ॥ २२ ॥ वारुणीमदगन्धः युद्धेअसुरैर्देवाः पराजिताः स्वर्भानुनाचभानुः पातितः त वारुण्याः मदोत्पादकोगन्धइत्यर्थः ॥ २३ – २६ ॥ दानींकियान्कालोदिवारात्रविभागरहितोभूत् । ततः परं सासारा वेगवद्वृष्टिसहिता । “आसार: स्यात्प्रसरणेवे- ब्रह्मनियोगादत्रिः स्वतेजसासप्तरात्रंसूर्याधिपत्यंचकारे- गवृष्टौसुहृद्धले” इतिवैजयन्ती | अर्जुनी शुक्लपक्षसंब- तिपौराणिकीकथा । अग्निःस्वतेजसेतिपाठान्तरम् न्धिनी ॥ २७ ॥ महोत्सव : ग्रीष्मेअम्बुदइवच अयो- ॥ ३१ ॥ इतिश्रीगोविन्दराजविरचिते श्रीमद्रामाय- ध्यायां कदामेभ्राता हर्षजनयिष्यतीतिसंबन्धः णभूषणे ॥ २८ ॥ उन्नतगामिभिः सगर्वगमनैरित्यर्थः । महा- पथाः राजमार्गाः ॥ २९ ॥ एवंबहुविधंजल्पन्निति पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ पाशसहितां ॥ १६ ॥ ति० मूर्छितः व्याप्तः स० मूर्छितः समुत्कृष्टः । शि० वारुणी वरुणप्रेषिताओषधिः तस्यामदगन्धः ॥ २३॥ कतक भास्करहीनंदिनं । कविकल्पितमत्रोपमानं । ति० विभक्तं विगतसंस्कारं । भक्तंसेवितंसंस्कृतं तद्भिन्नमितियावत् ॥ ३१ ॥ इति चतुर्दशोत्तरशततमस्सर्गः ॥ ११४ ॥ [पा०]. १ अयंश्लोकः. ख. च. पुस्तकयोः पुष्पनद्धामितिश्लोकात्परं संमूढ निगमा मितिश्लोकात्पूर्वेदश्यते २ क. ङ. छ. झ. ञ. ट. चन्दनागरु. ख. च. धूपेनागरु. ३ ङ. च. ज. सुस्निग्धहय ४ ग. उन्मत्तगज. ५ ङ. झ. ज. वनस्रजः ६ क. – ट. गतेरामेहि. ७ क. – ट. साहि. ८ घ. ज. सहभ्रात्रा. ९ ख. र्हता.. १० क. नविराजति ११ क. कदातु. १२ क. ख. घ. च. ज. ल. नविभान्ति. ग. नातिभान्ति १३ एवंबहुविधमित्यर्धस्यस्थाने, “ इतिब्रुवन्सारथिना दुःखितोभरतस्तदा । मयोध्यांसंप्रविश्यैवविवेशवसर्तिपितुः । " इत्येकःश्लोकः, ख. ङ. च. छ. झ. ञ..ट. पुस्तकेषुदृश्यते. ख. अयोध्यांचप्रविश्यैवं. च. न, विवेशभवनंपितुः॰ १४ ङ. छ. झ. ट. रिवोत्कृष्टं १५ ख – ट. सर्वत्र विभक्तं १६ क ख ङ. सदुःखितः
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति