४२४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २३ भ्रात्रा हि मयि संन्यासो निक्षिप्तः याहृदादसौम् ॥ तमिमं पालयिष्यामि राघवागमनं प्रति ॥ १७ ॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ॥ चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ १८ ॥ ततो नितिभारोऽहं राघवेण समागतः ॥ निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ १९ ॥ राघवाय च संन्यासं दत्वेमे वरपादुके || राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २० ॥ अभिषिक्ते तु काकुत्स्ये प्रहृष्टमुदिते जने || प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २१ ॥ एवं तु विलपन्दीनो भरतः स महायशाः ॥ नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ||२२|| स वल्कलजटाधारी मुनिवेषधरः प्रभुः || नन्दिग्रामेऽवद्वीरः ससैन्यो भरतस्तैदा ॥ २३ ॥ रोमागमनमाँकाङ्कन्भरतो भ्रातृवत्सलः || आतुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २४ ॥ पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा || [ सँवालव्यजनं छत्रं धारयामास स स्वयम् ॥ भरतः शासनं सर्वे पादुकाभ्यां न्यवेदयत् ॥ २५ ॥ ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके || तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २६ ॥ तर्दो हि यत्कार्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ॥ स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकी ये आदिकाव्ये अयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः ॥११५॥ ( "" ह्यमुपहारः अयंसंन्यासः पादुकारूपप्रतिनिधिः । पालयिष्या- षिच्य राज्याभिषेकमार्यपादुकयोः कृत्वेत्यर्थः। तदधीन मिरक्षिष्यामि ।। १७–१८ ॥ राघवेण समागतः पादुकापरतन्त्रः ॥ २६ ॥ तदा पादुकेपुरस्कृत्यराज्य- संगतः । गुरवेराज्यंनिवेद्य रामायराज्यंप्रत्यर्प्य ततः पालनसमये । उपायनं उपहारः । गुरुवृत्तितांभजिष्ये पितरीवशुश्रूषांकरिष्यामीत्यर्थः ॥ १९ ॥ धूतपापइत्यत्रपापशब्देन कैकेयीनि- मित्तमयशच्यते ॥ २० ॥ प्रहृष्टमुदिते प्रहृष्टः पुल- कितगात्रः । मुदितः संजातमानसहर्षः ॥२१-२३॥ रामागमनमाकाङ्क्षन्नित्यादि । पादुकाभ्यांन्यवेदयत् सर्गः ।। ११५ ॥ विज्ञापयामास ॥ २४ – २५ ॥ आर्यपादुकेअभि- उपायनमुपग्रा- इत्यमरः ॥ २७ ॥ इति श्रीगोविन्दरा जविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चदशोत्तरशततमः र्भावितणिजर्थः ॥ १६ ॥ तनि० यत्कार्यं राज्यपरिपालनकृत्यं । उपायनमित्यत्रयदित्यनुवर्तते । उपायनं पत्रफलपुष्पादिकं । पादुकाभ्यांप्रथमं निवेद्येत्यनेन प्रतिदिनंपादुकार्चातन्निवेदितस्वीकारश्चध्वन्यते । यथावञ्चकारेतिहव्यकव्यादिषु विनियोगोव्यज्यते ॥ २७ ॥ इतिपञ्चदशोत्तरशततमस्सर्गः ॥ ११५ ॥ [पा० ] १ क. ङ. च. छ. झ, ञ. ट. भ्रात्रातु. ग. ममभ्रात्राहि २ घ. भ्रातुरागमनं. ३ क. ग. पुनस्त्वहं. ४ ग. पादोहं. ५ झ. गुरुवर्तित ६ ख. ङ च छ. झ ञ ट भवाम्यहं. ७ अभिषिक्तेलियादिश्लोकद्वयं. झ. पाठेनदृश्यते. ८ ख. च. ञ प्रहृष्टे. ९ ग. न्वीरो. १० क. ङ. झ ञ द्वीरः ११ च स्तथा १२ रामागमन मितिश्लोको झ. पाठे नदृश्यते. १३ क. ख. च. काहीचभरतो. घ. ज. माकाङ्क्षीभरतो. १४ ञ तस्यपादुक्योःसदा १५ घ. ज. पादुके अभिषिच्याथ. ग. पादुके अभिषिच्याशु. १६ इदमर्ध ङ. छ. - ट. पुस्तकेषुदृश्यते १७ झ. निवेदयन्. १८ घ. वैतदा. १९ क. ख. घ. च. ज. यदाहि २० क यथाभवेत्.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति