पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २६ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ॥ वेपमान इवोवाच रामं भूतदयापरम् ॥ ८ ॥ कुतः कल्याणसवायाः कल्याणाभिरतेस्तथा ॥ चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ ९ ॥ त्वन्निमित्तमिदं तावत्तापसान्प्रति वर्तते || रक्षोभ्यस्तेन संविनाः कथयन्ति मिथः कथाः ॥ १० ॥ रावणावरजः कश्चित्खरो नामेह राक्षसः ॥ उत्पाढ्य तापसान्सर्वाञ्जनस्थानॅनिकेतनान् ॥ ११ ॥ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः ॥ अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ १२ ॥ त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ॥ तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ १३ ॥ दर्शयन्ति हि बीभत्सैः क्रूरैभषणकैरपि ॥ नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ १४ ॥ अप्रशस्तैरशुचिभिः संप्रेयोज्य च तापसान् || प्रतिघ्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थिताः ॥ १५ ॥ तेषुतेष्वाश्रमस्थानेष्वबुद्धमवलीय च ॥ रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः ॥ १६ ॥ अपक्षिपन्ति सुँग्भाण्डानग्नीन्सिञ्चन्ति वारिणा || कलशांश्च मृद्गन्ति हवने समुपस्थिते ।। १७ ।। तैर्दुरात्मभि॑िरौमृष्टानाश्रमान्मर्जिंहासवः ॥ गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥ १८ ॥ तत्पुरा राम शारीरीमुपहिंसां तपस्विषु || दर्शयन्ति हि दुष्टास्ते त्यैक्ष्याम इममाश्रमम् ॥ १९ ॥ बहुमूलफलं चित्रमविदूरौंदितो वनम् || पुराणाश्रममेवाहं ये सगणः पुनः ॥ २० ॥ दर्शनै: विकृतदृष्टिभिः । रूपैः शरीरैः । दर्शयन्ति भयमितिशेषः ॥ १४ ॥ अप्रशस्तै ः अशुभैः । अशुभ चिभि: अशुचिद्रव्यैः संप्रयोज्य ॥ १५ ॥ अबुद्धंअवि- दितंयथाभवतितथा अवलीय निलीय | रमन्ते विह- रन्ति । अल्पचेतसः क्षुद्रबुद्धयः ।। १६ ।। हवनेसमु- तपसाचजरांगतः सुदीर्घतपाइत्यर्थः ॥ ८ ॥ कल्या- | विप्रकुर्वन्ति अपकुर्वन्ति ॥ १३ ॥ बीभत्सै : जुगु- णसत्त्वायाः कल्याणस्वभावाया: । " सत्त्वोस्त्रीजन्तु- प्सितैः । क्रूरै : भीषणकैः भयंकरैः । नानारूपैः अने- पुढीबोऽध्यवसायेपराक्रमे । आत्मभावेपिशाचादौद्र- कप्रकारैः । विरूपैः लोकविलक्षणसंस्थानैः । विकृत- व्येसत्तास्वभावयोः " इतिवैजयन्ती ॥ ९ ॥ त्वन्नि - मित्तं त्वत्तोहेतोः । रक्षोभ्यः समागतं इदं वक्ष्यमाण- मुपद्रवजातं । तापसान्प्रति वर्तते । तेनरक्षस्संजातो- पद्रवेण । संविग्नास्तापसा: । मिथ: रहसि । कथा: रक्षोविषयिणीः तदुपद्रवविषयिणीश्चकथयन्ति ॥१०॥ ताएवाह रावणावरजइत्यादिना । श्लोकद्वयमेकंवाक्यं । उत्पाट्य उत्खाय निष्कास्येतियावत् । जितेनजयेन पस्थिते होमकर्मणिप्रवृत्ते ॥ १७ ।। प्रजिहासवः प्रक- काशतेप्रकाशतइतिजितकाशी । यद्वा जिताहवः । र्षेणहातुमिच्छवः ॥ १८ ॥ पुरादर्शयन्ति दर्शयिष्य- “जितकाशीजिताहवः” इतिहलायुधः ||११ - १२॥ | न्ति । यावत्पुरानिपातयोर्लडितिलट् ॥ १९–२० ॥ तेत्यर्थः । शि० कुलपतिं संघाधीशंऋषिवाल्मीकिं ॥ ४ ॥ वि० स्खलनं स्वभावविपर्यासः | स० अन्तेकथनात्सीतायाबु- द्धौपरिवर्तनात्तद्विषयएव । कल्याणसत्वायाः मङ्गलदेव्याः | कल्याणेत्वयिअभिरतिर्यस्यास्सातस्याश्चलन मितिवा । विशेषतइत्यनेन साधारणस्थलेपिमङ्गलकार्याच्चलनंनास्तीतिसूचयति ॥ ९ ॥ स० काशः मौजीरजवात्मकः यस्मिन्नाहवेसकाशीत्युच्यते । ततोब- हुव्रीहिः “ जितकाशीजिताहवः ” इतिहलायुधः । ति० जितकाशी जितभयोवा ॥ १२ ॥ स० असृग्भाण्डानि रक्तपात्राणि अवक्षिपन्ति ॥ १७ ॥ ति० प्रजिघांसवः । परित्यक्तुमिच्छवः । मिथोमिलिताः ॥ १८ ॥ ति० अश्वस्य नविद्यतेश्वः संचयो [ पा० ] १ `छ. परः. २ ख. वृत्तायाः ३ घ, ङ, छ. झ. ट. रतेस्सदा. ज. रुचेस्सदा ४ ख. अ. स्खलनं. ५ क. च. ताततापसान्. ६ ङ. कथयन्तिस्मते मिथः ७ ङ. छ. झ. ट. निवासिनः ८ क. ख. ङ. च. झ ञ ट रूपैरसुखदर्शनैः, छ. रूपैरसुरदर्शनैः ९ क. ङ. झ ञ ट संप्रयुज्यच. छ. संप्रसाच, १० ख. च. क्षिप्रंमायया. ११ क. ख. घ. — टं. स्थितान्. १२ घ. छ. " ट. अवक्षिपन्ति १३ न्त्यसृग्भाण्डान्यग्नी. १४ ङ. झ ञ ट प्रमर्दन्ति. १५ क. ख. ङ. च. छ. झ ञ ट राविष्टान्. १६ ग. छ. झ. जिघांसवः १७ च झ. ज. न्त्यृषयोमिथ: १८ क. दर्शयन्तिस्म. ख. दर्शयन्तिसु. १९ ख. च. ञ. त्यक्ष्यामस्त्विमं. २० क. ख. च. ज. दितोपरं. २१ क. ख. ग. च. ञ. कण्वस्याश्रम. ङ. छ. झ. ट. अश्वस्याश्रम. २२ ख. च. ञ. गमिष्ये.