पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेनं पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ॥ तस्य शब्दोऽभवद्भीमः पतितस्याशैनेरिव ॥ ४९ ॥ तोऽहं तंत्र रामाय पित्रा सत्याभिसन्धिना || निश्चिंता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥ दीयमानां न तु तदा प्रतिजग्राह राघवः || अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ ५१ ॥ ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् || मैम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ ५२ ॥ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना || भार्याार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ एवं दत्ताऽसि रामाय तेदा स्वयंवरे || अनुरक्ताऽसि धर्मेण पतिं वीर्यवतां वरम् ॥ ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥११८ ॥ ४३४ एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥ अनसूययास्वदत्तदिव्यमाल्याभरणादिविभूषितांसीतांप्रतिसायंकालवर्णनपूर्वकंरामसमीपगमनचोदना ॥ १ ॥ सीतया स्वावलोकनसंहृष्टंरामं प्रतिस्वस्मै दिव्य माल्या भरणा दिवितरणपूर्वानसूयावृत्तान्त कथनम् ॥ २ ॥ तापसकुलाचितेनरामेण सीतयासहरानयापनपूर्वकंप्रभातेगमनाय मुनिगणंप्रत्यापृच्छनम् ॥ ३ ॥ तथास्वेषांराक्षसकृतोपत्र वनिवेदनेनतन्निधनप्रार्थ- नपूर्वकं मुनिकुलप्रदर्शितवर्त्मनासीतालक्ष्मणाभ्यांसहदण्डकारण्यप्रवेशः ॥ ४ ॥ ॥ अनसूया तु. धर्मज्ञा श्रुत्वा तो महतीं कथाम् || पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥१॥ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ॥ यथा स्वयंवरं वृत्तं तत्सर्व हि श्रुतं मया ॥ " रमेऽहं कथया " ते तु दृढं मधुरभाषिणि || २ || रविरस्तंगतः श्रीमानुपोह्य रजनीं शिवाम् || दिवसं प्रतिकीर्णानामाहारार्थ पतत्रिणाम् || संध्याकाले निलीनानां निद्रार्थ श्रूयते ध्वनिः ॥ ३ ॥ ते चाप्यभिषेकार्द्रा मुनयः कलशोधताः ॥ सहिता उपवर्तन्ते सलिलाप्नुतवल्कलाः ॥ ४ ॥ अथात्र्याश्रमे रजनीमुषित्वा प्रातर्निर्गमएकोनविंश- " त्युत्तरशततमे ॥ १२ ॥ उपोह्य समीपंप्रापय्य | ॥४३ -५०॥ छन्दं अभिप्रायं । “वशाभिप्राययोश्छ- “न्दः” इतिवैजयन्ती ॥५१-५४॥ इतिश्रीगोविन्दरा- जविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो ध्याकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ११८ | स्वसंचाराद्विमुक्तंप्रदेशप्रापथ्येत्यर्थः ॥ ३ ॥ कलशो- मनैकान्तिकतास्यप्रमेयस्येतिसूच्यते । विश्चासौईर्यःप्रेर्यश्चसगरुडोस्यास्तीतिसवा ॥ ४८ ॥ स० जलभाजनं कमण्डलं उद्यम्य दा तुमुद्यता ॥ ५० ॥ स० ममश्वशुरं आमन्त्र्य आकारयित्वा ॥ ५२ ॥ इत्यष्टादशोत्तरशततमस्सर्गः ॥ ११८ ॥ ति० स्वयंवरवृत्तं स्वयंवरोवृत्तः । अर्धर्चादिस्स्वयंवरः || शि० यथास्वयंवरं स्वयंवरमनतिक्रम्ययत्त्वयाभाषितं तद्वृत्तं वृत्तान्तं सर्वे मया श्रुतं | तेकथयादृढंयथास्यात्तथारमेय विहरेय ॥ २ ॥ शि० रविस्तुरजनीमुपोह्यसमीपंप्रापय्यअस्तंगतः ॥ दिवसंप्राप्य आहारार्थप रिकीर्णानांचतुर्दिक्षुगतानां | सन्ध्याकालेप्राप्तेस ति निद्रार्थ निलीनानां स्वस्खावासस्थानेषुस्थितानांपतत्रिणां पक्षिणां । ति० निलीनानां निलीयमानानां ॥ ३ ॥ शि० उपवर्तन्ते समीपे दृश्यन्तइत्यर्थः । स० उपवर्तन्ते शालांप्रत्यागच्छन्ति ॥ ४ ॥ [ पा० ] १ ङ. छ. झ. तेनापूरयता. क. तेनकृष्टंतदा. २ ख. च. ज. महद्धनुः क. तदाधनुः ३ क. ख. ङ. च. छ. झ ञ ट . स्याशनेर्यथा ४ ख. अहंच. ५ क. - ठ. उद्यता. ६ ग. मात्रापित्रापिरामायदत्ताहं. ञ. ट. शुभदर्शना ८ ग. - च. ज. ञ. पित्रादत्ता ९ ङ. छ. झ ट तथा १० क. ख. ग. च. ज. तत्रस्वयंवरे. ११ क. -घ. च. ज. ज. अनुरक्ताच १२ छ तांतुमहत्कथां. १३ क. ग. स्वयंवरे. १४ ङ. छ. झ. ट. तत्सर्वेच. १५ ङ. छ. झ. ट. रमेय. १६ च. ञ. देवि १७ ङ. च. झ ञ ट . शुभां. १८ ख. ङ. च. छ. झ ञ ट परिकीर्णानां. १९ घ. निद्रार्थे. २० च. ञ. एतेवैयभिषेकाय. क. ख. एतेचाप्यभिषेकाय. २१ क. ह्यपवर्तन्ते. ७ ङ. च. छ. झ.