पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ ते राघवस्तुल्य भरतेन महात्मना || बैहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ २१ ॥ तस्य धर्मात्मनो देवि वँने वासं यशस्विनः ॥ कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥ अत्यन्तै सुकुमारस्य तस्य धर्मे धृतात्मनः ॥ कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥ रोचयस्यभिरामस्य रामस्य शुभलोचने ॥ तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥ राँमो हि भरताद्भूयस्तव शुश्रूषते सदा || विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २५ ॥ शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् || कैस्ते भूयस्तरं कुर्यादन्यत्र मैनुजर्षभात् ॥ २६ ॥ बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् || परिवादोपवादो वा राघवे नोपपद्यते ॥ २७ ॥ सान्त्वयन्सर्वभूतानि रामः शुद्धेन चेतसा || गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २८ ॥ सत्येन लोकाञ्जयति दीनन्दानेन राघवः ॥ गुरुशुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २९ ॥ सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ॥ विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥ तस्मिन्नार्जवसंपन्ने देवि देवोपमे कथम् || पापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥ ५४ प्रियकरणमितिशेषः ||२०|| त्वत्प्रीतिविरुद्धंचेदं वचन - | ड्मनः कायैर्जनरञ्जकत्वमुक्तं । प्रियैः अभीष्टप्रदानैः । मित्याह – नन्वित्यादि । ते राघवः भरतेन तुल्योननुतु | गृह्णाति संगृह्णाति ||२८|| सत्येन भूतहितेन | लोकान् ल्यः खलु । अत्रत्वद्वचनमेवप्रमाणमित्याह - बहुशइति । स्वर्गादिवैकुंठपर्यन्तान् । जयति स्वाधीनान्करोति । बहुशइत्यनेनाहृदयत्वव्यावृत्तिः । सुबालेइत्यकुटिलत्व- दीनान् दरिद्रान् । दानेन धनप्रदानेन । जयति वशीकरो- व्यावृत्तिः ॥ २१ ॥ धर्मात्मनइत्यनेनवनवासहेतुभूता- ति । गुरून्शुश्रूषयाजयति स्वहितोपदेशप्रवणान्करोति। कृत्यराहित्यमुक्तं । भीरुइति । तवचधर्मभीरुत्वंकग- शात्रवान् शत्रून् धनुषा धनुःप्रदर्शनमात्रेण । नतु तमितिभावः ॥ २२ ॥ रामसौकुमार्यानुचितंचेदमि- बाणप्रयोगेण । युधि युद्धे । नतुकपटवृत्त्या । जयति निर- त्याह — अत्यन्तेति ॥ २३ ॥ शुश्रूषादर्शनेनापिरामो स्यतीत्यर्थः । वीरइतिसर्वत्र संबध्यते । दयावीरस्त्यागवी - नविवासनार्हइत्याह — रोचयसीति । तवशुश्रूषमा- रोविद्यावीरः पराक्रमवीरइत्येवं | चोलमहीपतिः कदा- णस्येत्यत्र "नलोकाव्यय –" इत्यादिनानिषिद्धाऽपिष- | चित्सन्निहितंमध्यमवीथिभट्टारकंप्रति " आत्मानंमा - ष्ठयार्षीबोध्या ॥ २४ ॥ शुश्रूषमाणस्येत्येतदुपपादयति नुषंमन्ये " इतिवदन्रामः कथंजटायुषोमोक्षंदत्तवा- —रामोहीति || २५ । नकेवलं शुश्रूषैवैववचनका- नितिपप्रच्छ | सोपि " सत्येनलोका जयति " इत्यु- रणं अपितु प्रमाणादिकमपीत्याह - शुश्रूषामिति । त्तया महतींबहुमतिमवाप्तवानित्यैतिह्यमत्रज्ञेयं ||२९|| गौरवं प्रतिपत्तिः । प्रमाणं पूजा | वचनक्रिया उक्त - सत्यादीनिचनकादाचित्कानीत्याह – सत्यमिति । तपः- करणं ॥ २६ ॥ परिवादादिकमपिरामविवासकारणं प्रभृतिगुणषट्कंपूर्वश्लोकेऽर्थसिद्धमनूद्यते । दानं पर- नास्तीत्याह – बहूनामिति । स्त्रीसहस्राणामुपजीविनां लोकप्रयोजनं । तपः शास्त्रविहितभोजनानिवृत्त्यादि- चसंबन्धीपरिवादोनोपपद्यते । बहूनामितिविशेषणेन रूपः । त्यागः ऐहिकप्रयोजनःप्रीत्यर्थः । मित्रता सर्व- तन्मध्ये एकयाएकेनवास्त्रीपुरुषाविशेषेण परिवादस्तत्सं- सुहृत्त्वं । शौचं स्नानजन्यशुद्धि | आर्जवं परचित्तानु- बन्धीपरिभवविषयवादः अपवादः निन्दावा राघवेनो- वर्तित्वं । विद्या तत्त्वज्ञानं | गुरुशुश्रूषा गुरोःशुश्रूषा पपद्यते नदृश्यते ।। २७ ॥ अविवासननिमित्तभूता- | पादसंवाहनादिपरिचर्या ॥ ३० ॥ आर्जवसंपन्नइति न्भूयोगुणान्दर्शयति – सान्त्वयन्नित्यादि । अनेनवा- | दानादिसंपत्तेरप्युपलक्षणं । पापं विवासनरूपं । आ- ति० कृतात्मनः शिक्षितमनस्कस्य ॥ २३ ॥ शि० समूलिकाकीर्तिः परिवादः । निर्मूलिकाकीर्तिरपवादः ॥ २७॥ [ पा० ] १ ग. ज. ननुमेराघव. २ क. ग. ङ. छ—ट, बहुशोहिस्म. क. ञ. बहुशोहिस्मबाल्येलं. ३ क. वनवासं. ४ क. ज. अत्यर्थसुकुमारस्य ५ ङ. छ. झ. ट. कृतात्मनः ख. रतात्मनः ६ ख शुभदर्शने. ज. प्रियदर्शने. ७ क. ख. रामोपि. ८ छ. नलक्ष्यते ९ ङ. छ. झ. ट. कस्तुभूयस्तरं. क. ख. ग. च. ज. भूयस्तरां. १० ङ. छ. झ. ट. पुरुषर्षभात. ११ ख. प्रियेविषयवासिनः १२ ङ. छ. झ. सलेन. १३ ङ. छ. झ. ट. द्विजान्दानेन.