पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री मद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ॥ ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६ ॥ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् || उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥ अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ॥ अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ २८ ॥ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥ तब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् || करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ ३० ॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम् || उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ ३१ ॥ पुरा दैवासुरे युद्धे पित्रा ते मम राघव || रक्षितेन वरौ दत्तौ सशल्येन महारैणे ॥ ३२ ॥ तत्र मे याचितो राजा भरतस्याभिषेचनम् || गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ ३३ ॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि ॥ आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ ३४ ॥ राजैबकुतोनवदतीत्यत्राह—यदीति | नविपत्स्यतेयदि | हेतवः | करिष्येतदित्यनुकर्षः ॥ २९ ॥ यत्कार्यम- विफलंनभविष्यतिचेदित्यर्थः ॥ २६ ॥ व्यथितः तिनं तद्विषयवचनंब्रूहि । तत्कार्यकरि- गुरुवचनंकरिष्यतिनवेतिसंदेहस्यविषयोस्मीतिसंतप्त - ष्ये । प्रतिजानेच प्रतिज्ञांकरोमिच । रामोद्विर्ना- इत्यर्थः ॥ २७ ॥ व्यथामेवाह – अहोइत्यादिना भि भाषते विनाप्रतिज्ञयारामोद्विरुक्तिंनकरोतीत्यर्थः ॥ २८ ॥ गुरुत्वपितृत्वनृपत्वहितपरत्वानिवचनकर- | || ३० – ३२ ॥ तत्र वरप्रदाननिमित्तं ||३३–३४॥ 'तर्हीदंसर्वमाख्यास्यामीत्यन्वयः । “पुनरप्रथमेप्रश्ने व्यावृत्ताववधारणे" इत्यभिधानात् ॥ २५ ॥ ती० राज्ञा राजानुमत्या ॥२६॥ सत्य॰ देवींदेवीमिव । “देवीकृताभिषेकायां" इत्यमरः । भरतसंपत्संपादनेच्छयादशरथदाशरथ्युभयजिगीषावती मितिवा ॥२७॥ सत्य० ईदृशं याः रमाया दृक्यस्मिन्मयितं मांईदृशंपूर्वोतंवचः वक्तंनाह से अतस्त्वयैवमुक्तंमांधिक् | साक्षान्मङ्गलदेवतापिरमानि- यंमांकामयतेतादृशस्यममकिमल्पराज्येनेतिरामभावमाविश्चकारक विरितिज्ञेयम् । नार्हसे नार्हसि । “चन्द्रादय स्तुमन्यन्तेसर्वस्मादु- भयंपदं” इत्युक्तेरात्मनेपदत्वं ॥ २८ ॥ शि० गुरुणा वसिष्ठेन । सत्य ० नपितृत्वंहिरण्यकशिप्वादिवदित्याह- हितेनेति । तदपिनोप्रसेनादिवदित्याह - नृपेणेति । तदपिनधृतराष्ट्रवदित्याह- गुरुणेति ॥ २९ ॥ ति० रामोद्विरिति । यदुक्तंतदुक्तमेव । तद्विरुद्धंनपुनर्वदतीत्यर्थः । तत्तदभावविषयतयाद्विरावृत्तंभाषर्णन करोतीतियावत् । सत्य० रामइतिपरोक्षोक्त्या स्वस्ययथार्थवादि- त्वंसार्वजनीन मितिसूचयति ॥ ३० ॥ शि० अनार्या सर्वश्रेष्ठा ॥ ३१ ॥ सत्य • देवासुरे मत्वर्थीयाच्प्रत्ययान्तोयं । कर्तृत्व- संबन्धेनदेवासुरविशिष्टेयुद्धइत्यर्थः । महारणेदेवासुरयुद्धान्तर्गतदेव सहायार्थंग तस्वकर्तृकेमहारणेइत्यर्थः । तेननपौनरुक्त्यम् । मम । संबन्धसामान्येषष्ठी | सचप्रकृतेकर्तृत्वरूपः । मयारक्षितेन । सशल्येन शङ्कुसहितेन | नतावन्मात्रेण सशल्येन बाणसहितनेत्यर्थः । क्षत्रियाणांशरादिधारणेनोदीरणंशपथज्ञापकमितिभावः । “शल्यश्शकौशरेवंशकुञ्जिकायांचतोमरे” इतिविश्वः ३२ ॥ ती० तत्र द्वयोर्वरयोर्मध्ये | एकेनभरतस्याभिषेचनम् अन्येनतवदण्डकारण्यगमनम् | शि० तत्र देवासुरसंग्रामसमये । प्राप्तौवरौरा- जाअद्यैवमयायाचितः । सत्य० मयाभरतस्याभिषेचनंतवाद्यैवदण्डकारण्येग मनंचाद्यैवराजायाचितः । गौर्दुह्यतेपय इतिवत्प्रधानक- र्मवाद्राज्ञस्तद्वाचकात्प्रथमा । “गौणेकर्मणिदुह्यादेः” इतिवचनात् । कैकेय्यास्सत्स्वभावमप्यनयोक्त्यानिरूपयति – दण्डकारण्य इति । हेआद्य । हेदण्डक अखिलशिक्षक | त्वं अरेणसहितोण्यः अरण्यस्तस्मिन्सुधासमुद्रद्वये याचितः या रमया आचितः सम्य- क्संबद्धः । नित्यावियोगीतियावत् । अततेर्डप्रत्ययेअइतिभवति । अस्य विष्णोस्स्त्री ई | "पुंयोगादाख्याया" मितिङीषू | "अकारो वासुदेवस्स्यालक्ष्मीरीकारउच्यते” इत्यभिधानात् । ईआचित इति स्थितेयणादेशेयाचितइतिभवति । तस्यतवेतिपूर्ववत्सर्वम् ॥३३॥ शि० शृणु श्रवणपूर्वकाचरणंकुरु | सत्य० सत्यप्रतिज्ञं कर्तुमिच्छसी त्यनेन तस्यसामर्थ्याभावान्मत्कार्यंत वहस्तेविन्यस्तमितिध्व- नयति । पितरंसत्यप्रतिज्ञं कर्तुमर्हसीत्यनेनैवराम प्रतिज्ञायास्सत्यत्वलाभेपि "द्विर्बद्धंसुबद्धं” इतिमहाभाष्योक्तेः पुनर्वचनंदार्थ्यायेत्युक्तं भवति । स्वपुत्रस्याभिलषितंनरश्रेष्ठत्वंपारवश्येनरामेप्रयुक्तं । यथोक्तंकर्णामृते “सौमित्रेवधनुर्धनुर्धनुरितिव्यग्रागिरःपातुवः” इति । श्रीभागवतेपञ्चमेद्वितीयेपूर्वचित्तिप्रतिआग्नीध्रवचनं “कात्वं चिकीर्ष सिचकिंमुनिवर्यशैले” इत्यादि । तत्तात्पर्येच "परिहासप्रलापादि- [ पा० ] १ ङ. छ. झ. चार्णवे. २ ख. ग. राज्ञा. ३ क. सातमार्जवसंयुक्तं ख. तमार्जवे. ४ क – घ. च. छ. झ. अ. ट. देवासुरे. ५ ट. मयारणे. ६ क. ख. मर्हसि.