संर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । दध्यक्षतं घृतं चैव मोदकान्हविषैस्तथा ॥ लाजान्माल्यानि शुक्लानि पायसं कुसरं तथा ॥ समिधः पूर्णकुंभांश्च ददर्श रघुनन्दनः ॥ १८ ॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् || तर्पयन्तीं ददर्शाद्भिदेवतां देववर्णिनीम् ।। १९ ॥ सो चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् || अभिचक्राम संहृष्टा किशोरं बडवा यथा ॥ २० ॥ स मातरमँभिक्रान्तामुपसंगृह्य राघवः || [पर्यध्वजत धर्मात्मा मात्रा चैव परंतपः । ] पॅरिष्वक्तच बाहुभ्यामुपाघातश्च मूर्धनि |॥ २१ ॥ तमुवाच दुराधर्ष राघवं सुतमात्मनः ॥ कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ॥ प्राप्नुयायुश्च कीर्तिं च धर्म चोपहितं कुले ॥ २३ ॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव || अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः || मातरं राघवः किंचिद्रीडा प्राञ्जलिरत्रवीत् ॥ २५ ॥ तिशेषः ॥१७॥ हविषः ह॒वींषि । कृसरं तिलौदनं । द- त्यादिश्लोकद्वयमेकान्वयं | सराघवो भोजनेननिमन्त्रि - ध्यक्षतमित्यारभ्यवाक्यान्तरम् । अतोनक्रियाद्वयविरो- तःसन् दत्तमासनं आलभ्य स्पृष्ट्वा । दण्डकारण्यंप्रस्थि- धः । पूर्वेदेवकार्यनिमित्तमितिद्रव्याणिसामान्येनोक्ता- तोऽहम् । आप्रष्टुं गमनंनिमन्त्रयितुम् । उपचक्रमे नि अथविशेषेणेतिविवेकः ॥ १८ ॥ तर्पयन्तीं प्रीण- यन्तीम् ॥ १९ ॥ अभिचक्राम अभिमुखंजगाम । कि- शोरं अश्वबालकं । बडबा अश्वस्त्री ||२०|| उपसंगृह्य अ- भिवाद्य । स्थितइतिशेषः ॥२१ - २३॥ सत्यप्रतिज्ञमिति अभिषेक्ष्यतीत्यत्रहेतुः । इदानीमप्यभिषेकोनारब्धइति नाशङ्कनीयमितिभावः । पश्यजानीहि ||२४|| दत्तमि- ९५ उद्योगमकार्षमितिमातरमब्रवीदितिसंबन्धः । यद्वा भो- जनेननिमन्त्रित : भोजनार्थनिमन्त्रितः । भोजनार्थदत्त- मासनमालभ्यतिष्ठन् । दत्तासनेउपवेशनाभावेपिस्प- र्शमात्रंकार्यमित्यागमात् । किञ्चिद्रीडात् एवंब्रुवन्त्यै- मात्रेकथंमयाप्रस्थानंकथनीयमितिलज्जया अब्रवीत् । किमर्थमासनमुपलभ्यनोपविष्टवानित्यत्राह — सइति । हावयन्तीति । जुहोतीतिपूर्वमुक्तस्स्वार्थेवाणिच् ॥ १६ ॥ सत्य हविषइतिषष्ठीद्वितीयार्थे । लिङ्गव्यत्ययोवा | " सुप्तिडुपग्रहलि- मनराणां" इत्युक्तेः । अथवा हविषो मोदकान् हविस्संबन्धिमोदकानित्यर्थः । संबन्धश्च “राहोशिशरः" इत्यादिवत्तादात्म्यरूपः ॥ १८ ॥ शि० वरवर्णिनीं उत्तमवर्णविशिष्टां । गौराङ्गीमित्यर्थः ॥ १९ ॥ सत्य दुराधर्षमित्यनेनअ निवर्त्यवनवासमनस्क- लंद्योतयति । आत्मनस्सुतं स्वपुत्रं । पुत्रवात्सल्यात् पुन्ना मनरकात्त्राणकर्तेतिवात्सल्यात् । इदंप्रियहितं अयंप्रियोयेषांतेइदंप्रि- याःतेभ्यो हितं । प्रियायदशरथायहितंयस्मात्सप्रियहितः । तं राघवंप्रति इदं वक्ष्यमाणं । वस्तुतस्तु आत्मनस्सुतं जगदादानादि- कर्तुःपद्मनाभस्यप्रादुर्भूतरूपं । पुत्रवात्सल्यं पुत्र इतिवात्सल्यंतस्मादित्यर्थः । एतेनात्मनस्तुत मित्यनेनैवस्वस्त नंघयतायांवात्सल्यस्य सिद्धायांपुनरत्रपुत्रेत्यधिकमितिशङ्कानवकाशः ॥ २२ ॥ वि० कुलेउचित कुलस्योचितमितियावत् | शि० आयुःआयुस्खुल्यमा युः | आयुश्शब्दस्वसदृशेलाक्षणिकः | मुख्यस्येहासंभवात् । कीर्तिधर्मयोरप्येषैवगतिः । एकचकारस्यइवार्थकत्वेतु मुख्यत्वेपिन क्षतिः । सत्य० वृद्धानांधर्मशीलाना मित्यनेनमार्कण्डेयादीनांसंग्रहः । राजर्षीणां बल्यादीनां | उचित्तंचउचिताच उचितश्चउचितमि- तिनपुंसकशेषः । “नपुंसकम नपुंसके नै कवचास्यान्यतरस्यां" इत्युक्तेः । कुलेइतिसप्तमीषष्ट्यर्थे । यद्वा कुले अस्मत्कुलेवावृद्धानांरा- जर्षीणांआयुरादिकं प्राप्नुहीत्यन्वयः ॥ २३ ॥ ति० राजानंपश्य गत्वेतिशेषः । कौसल्यायाराजगृहगमनादिव्यापारापरिज्ञानादेव- मुक्तिः । सत्य यः अद्यैवत्वामभिषेक्ष्य तितं सत्यप्रतिज्ञंपश्य | ऋतयथार्थादिपदमगृह्णानोगृह्णानश्च सत्येतिइममर्थमसूचयत्सूचितचे- ताः । प्रतिज्ञायतइतिप्रतिज्ञः प्रतिज्ञातोर्थः यौवराज्येतवाभिषेकरूपः । सनविद्यतेयस्यसतथा । सत्यभार्यया अप्रतिज्ञः जायाप्रयो- ज्यप्रतिज्ञातार्थोच्छित्तिमानिति । यौवराज्येअभिषेक्ष्यतित्वामवज्ञायसेकंकरिष्यति । अन्यामभिषेक्ष्यतीतितात्पर्ये । निपातानाम- नेकार्थत्वादभिरवज्ञानवर्तते । यथोक्तंकाठके "अभिप्रेयसः" इत्येतद्व्याख्यानावसरे | धात्वर्थेसे के अभ्यर्थावज्ञानस्यान्वितत्वान्नष- वानुपपत्तिशङ्का ॥ २४ ॥ ति० प्रसाद्याज लिरितिपाठेप्रकर्षेण सन्नाञ्जलिर्विशीर्णाञ्जलिरित्यर्थइतिकश्चित् । मातुःप्रसादनयोग्याज- [पा०] १ क. ख. घट. दध्यक्षतघृतं. २ ख. ग. स्तदा. ३ क. ङ. च. छ. झ ञ ट वरवर्णिनीम् ४ घ. सुचिरस्य. ५ ङ. झ. ट. मुपक्रान्तां. ६ इदमर्धे क ख च दृश्यते. ७ क. परिष्वक्तस्स. ख. परिष्वक्तः ख. ८ ङ. च. छ. झ ञ. ट. मवघ्रातच. ९ क. ख. च. छ. झ ञ ट चाप्युचितं. १० ङ. च. छ. झ. ञ. ट त्वांसधर्मात्मा क. ख. त्वांहिधर्मात्मा. ११ छ. झ ञ ट प्रसार्याञ्जलिमब्रवीत्. ङ. प्रसाद्याज लिमब्रवीत्.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति