पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ केन रम्यं जनस्थानं हतं मम परासुना ॥ को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ।। ४ ।। न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्रातुं वैश्रवणेनापि नें यमेन न विष्णुना ॥ ५ ॥ कालस्य चाप्यहं कालो दहेयमपि पावकम् ॥ मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ।। ६ ।। देहेयमपि संकुद्धस्तेजसाऽऽदित्यपावकौ । वातस्य तरसा वेगं निहन्तुर्महमुत्सहे. ॥ ७ ॥ तथा कुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात्संदिग्धया वाचा रावणं याचतेऽभयम् ।। ८ ।। दशग्रीवोऽभयं तसै प्रददौ रक्षसां वरः ।। स विस्रब्धोऽब्रवीद्वाक्यमसंदिग्धमकम्पनः ।। ९ ।। पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।। रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ।। १० ।। वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।। हँतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२ ॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह ॥ उपयातो जनस्थानं ब्रूहि कचिदकम्पन ॥ १३ ॥ रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः ।। १४ ।। रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ॥ दिव्यास्त्रगुणसंपन्नः पुरंदरसमो युधि ।। १५ ॥ तस्यानुरूपो बलवात्रंक्ताक्षो दुन्दुभिस्वनः । कनीयाँलुक्ष्मणो नाम भ्राता शशिनिभाननः ॥ १६ ॥ स तेन सह संयुक्तः पावकेनानिलो यथा ।। श्रीमान्नाजवरस्तेन जनस्थानं निपातितम् ॥ १७ ॥ नैव देवा महात्मानो नात्र कार्या विचारणा ।। १८ ।। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥ सर्पः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ॥१९॥ येन येन च गच्छन्ति राक्षसा भैयकर्शिताः । तेन तेन स पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ ।। २० ।। तिरेकं दृष्टान्तमुखेनाह-निर्दहन्निवेति ॥ ३ ॥ परा- | स्यैतादृशसामथ्यै न युज्यत इति भावः ।। १३-१४ ॥ गता: असवः प्राणाः यस्य तेन परासुनेति परुषभा-| इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह-रामो ना षणमात्रं । गम्यत इति गतिः स्थानं ।। ४-५ ।।|मेत्यादिना । दिव्यास्रगुणसंपन्नः दिव्यास्रकृतातिशय कालस्यापि काल इत्यत्रोपपत्तिमाह-मृत्युमिति ।॥ ६॥ | युक्तः ॥१५ ॥ रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दु आदित्यपावकौ परस्परसाहाय्येन संयुक्तावपीत्यर्थः । | भिखन: दुन्दुभिवत् गम्भीरखनः । संयुक्त इति अतो न पुनरुक्ति: ।। ७ । संदिग्धया सदिग्धाक्षरया ।| वर्तत इति शेषः ।। १६-१७ । नैव देवा इति । याचते अयाचत । अभयमिति छेदः ।। ८–११ ॥| सहायार्थमागता इतिशेषः ॥ १८ ॥ पञ्चाननाः नागेन्द्रः सर्पन्द्रः ।। १२ । स रामः सुरेन्द्रणामरैश्च | विस्तृताननाः भूत्वा भक्षयन्ति स्मेत्युत्प्रेक्षा ।। १९ ।। युक्तः सन् जनस्थानमुपयातः कचित् । अन्यथा त-| राक्षसाः भयकाशैिता: भयपीडिताः सन्तो येन येन दूषणत्रिशिरसावुच्येते ॥ २ ॥ स० परासुना मृतेन । तस्यमरणंनिश्चित्येयमुक्तिः । गतिं त्रातारं ॥ ४ ॥ स० सिंहसंहननः वराङ्गरूपोपेतः । “ वराङ्गरूपोपेतोयस्सिहसंहननोहिसः ' इत्यमरः ॥ १० ॥ स० हे इन रावण सता लक्ष्मणेन यःश्रीमात्रा जवरोरामःसंयुक्तः तेन जनस्थानंनिपातितं । शि० संयुक्तः अतिविचारवान् ॥१७ ॥ स० ससुरेन्द्रेणसंयुक्तइत्यस्योत्तरमाह नैवेति । देवाः एतदपेक्षया महात्मानोनैव । तस्माद्युक्तंतेषां तेन हननमितिभावः ॥ १८ ॥ स० पञ्चाननास्सर्पभूत्वा तद्व न्मारकाः ॥ १९ ॥ तनि० येनयेन मार्गेणेत्यर्थः । अथवा येनयेन यद्यद्वस्त्वन्तर्धानसाधनखबुद्यागच्छन्ति तेनतेन तमिस्त [ पा० | १ ख. ड. झ. ट. भीमं. २ क. ग. च. छ. ज. अ. कोद्य. ३ क. ग.-ट, नाधिगमिष्यति. ४ ग. यमेनव रुणेनवा. ड. झ. ट. नयमेनच.५ च. छ. ज. ज. दहेयंवाखयंकुद्धः. ६ड. झ. मपिञ्चोत्सहे. ७ ख. स्यासीत्. ड. झ. ट. स्यास्ते ८ ड-ट. महास्कन्धो. ९ ख. डः -ट. श्यामः. १० ग. ड. झ. अ. ट. हतस्तेनजनस्थाने. ११ छ. मृगेन्द्रइव. १२ क ट. इदंवचनमब्रवीत. १३ क. ड. झ. ट. परंधर्मगतो. ख. परंधामयतो. १४ ख. त्रक्तास्यो. १५ ङ. झ. ट. भ्राताराकाशः शिनिभाननः. १६ क. येनहि. १७ क. भयशङ्किताः. १८ क. तेनच