पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ] श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् । जनस्थानं गमिष्यामि हैन्तुं रामं सलक्ष्मणम् ॥२१॥ अथैवमुक्ते वचनेन प्रोवाचेदमकम्पनः । शृणु राजन्यथावृत्तं रामस्य बलपौरुषम् ।। २२ ।। असाध्यः कुपितो रामो विक्रमेण महायशाः ।। ऑपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ।। २३ ।। सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ २४ ॥ भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ॥ वेगं वाँऽपि समुद्रस्य वायुं वा विधमेच्छरैः ।। २५ ।। संहृत्य वा पुनलोकान्विक्रमेण महायशाः । शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ २६ ।। न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि ।। रक्षसां वाऽपि लोकेन खर्गः पापजनैरिव ॥ २७॥ १०७ मार्गेण गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव |मज्जन्तीं समुद्र इति शेषः ।। २४ । विप्ावयेत् सि पश्यन्ति स्म । अत्र विशेषणासामथ्यद्रामदर्शनं भ - | चेत् । विधमेत् दहेत् । ध्मा शब्दान्निसंयोगयोरिति यकृतमिति व्यज्यते ।। २० -२१ । यथावृत्तं परमाः र्थभूतमित्यर्थः ।। २२ । असाध्यः अनिग्राह्यः ॥२३ धमादशः ॥ २५ ॥ लोकान् भूरादीन् ग्रहाः नवग्रहाः । नक्षत्राणि सप्तविंशतिनक्षत्राणि । | सहृत्य पुनः स्रष्टु शक्तः इमाः प्रजाश्च सहृत्य पुनः ताराः तद्न्यज्योतींषि । अवसादयेत् विशीर्ण कुर्यात् । | स्रष्टुं शक्त इत्यर्थः ।। २६ । लोकेन समूहेन ॥२७॥ धात स्मिन्वस्तुनि राममेवाग्रतस्थितंपश्यन्ति । अत्रप्रतिराक्षसमिच्छागृहीतदेहखंध्वन्यते । तनि० यथावृत्तं तत्कृतातिमानुः षकर्मानतिकमेण । यद्वा रामस्यवृत्तं इतिहासपुराणोक्तवृत्तान्तं यथा यथावत् । बलं पराभिभवसामथ्र्ये । पौरुषं महापुरुषकर्म । कुपित मर्यादोछङ्कनविषयनिग्रहवान् रामइति कोपस्यापरिहार्यत्वंव्यज्यते । विक्रमेणासाध्यः विक्रमेप्रवृत्ते निवारयितुमशक्यइत्यर्थः । असाध्यइतिनिरुपपदेन ब्रह्मरुद्रेन्द्रादिभिरसाध्यखंध्वन्यते । महायशाः लोकेवेदेचप्रसिद्धविभवः । अनेन त्रिविक्रमावतारोव्यज्यते । आपगायास्सुपूर्णायावेगंपरिहरेदित्यनेन भविष्यत्कृष्णावतारो भूतकृष्णावतारोवा व्यज्यते । “ भयानकावर्तशताकुलानदी मार्ग ददौसिन्धुरिवश्रियःपतेः” इति श्रीभागवतोत्तेः । अनेन मत्स्यावतारइति केचित ॥२३॥ तनि० सताराग्रहनक्षत्रं ताराः अश्विन्या दयः । ग्रहाः सूर्यादयः । तदितराणि नक्षत्राणि । नभश्चापीति तदधिष्ठानाण्डकोशउच्यते । तमप्यवसादयेदित्यनेनापित्रिविक्रमाः वतारध्वनिः । तथाचश्रुतिः “योअस्कभायदुत्तरंसधस्थैविचक्रमाणत्रेधोरुगायः” इति । सीदन्तीं मज्जन्तीं । महीमभ्युद्धरेदसाविति वराहावतारोव्यज्यते“तांवराहोभूत्वाऽहरत् ?' इतेिश्रुतेः । श्रीमानित्यवतारेषुसचैत्रानुवृत्तिर्लक्ष्म्यास्सूच्यते । “ अन्येषुचावतारेषु विष्णोरेषानपायिनी इतिपराशरवचनात् । श्रीमानिति लक्ष्मीसमभिव्याहारवलेन संसारेमज्जन्तंचेतनमभ्युद्धरेदिति परवासा धारणलिङ्गमोक्षप्रदखंव्यञ्जितं । श्रीमान्महीमभ्युद्धरेदिति लक्ष्म्यास्सहकारिखश्रवणेन सपनीद्वेषाभावोव्यज्यते । भिलेखेति । समुद्रवेलाभेदेन लोकानाप्तावयेदिति संकर्षणावतारोध्वन्यते । समुद्रस्यवेगमपिविधमेदिति करिष्यमाणसमुद्रबन्धनं व्यज्यते । वार्युवाविधमेदिति पृथिव्यादिभूतोपलक्षणं । “ पृथिव्यप्सुप्रलीयते, आपस्तेजसिलीयन्ते ?' इत्याद्युक्तप्रकारेण प्रलयं कुर्यादितिध्वन्यते । संहृत्येत्यनन्तरमनुवादात् ॥ २५ ॥ तनि० पुनस्संहृत्येत्यनेन पूर्वसंहारसृष्टयोरप्येतत्कर्तृकत्वंव्यज्यते । “ ब भूवभूयश्चयथा महाभागभविष्यती'ति प्रश्रवछोकानितिबहुवचनस्यासंकोचेन साण्डास्सर्वलोकाविवक्षिताः । विक्रमेण संकल्पमा त्रेणेत्यर्थः । “ एतस्यवाअक्षरस्य -' इत्यादिश्रुतेः । महायशाः षडुणैश्वर्यकृतप्रसिद्धिः । शक्तः अनन्तशक्तिमान् । “ परास्य शक्तिः' इतिश्रुतेः । ननु नारायणस्य “ एकोहवैनारायणः ?” इत्यादिना सृष्टयादिकर्तृत्वंश्रूयते कथमेतस्येति तत्राह-सपुरु षव्याघ्रइति । “ सहिदेवैरुदीर्णस्य इत्यादिना सएवायंनारायणोरामात्मनाऽवतीर्णइत्युक्तत्वात् । स्रष्टुंपुनरित्यत्रापि पुन ३शब्दःपूर्वसृष्टेरेतदधीनखव्यञ्जकः । प्रजाइतिप्रकृतिसंसृष्टचेतनवर्गस्समष्टिकारणभूतउच्यते । अकंपनस्यापि भगवत्प्रसादादेवंज्ञानं ॥ २६ ॥ स० खर्गपक्षे जेतुं प्रामुमित्यर्थः । तनि० रामः विक्रमैरञ्जनीयः । दशग्रीवः अनितरसाधारणदशवदनखंखलु तवावलेपहेतुः रामरामानुजौतु सहस्रशीर्षावितिव्यज्यते । त्वयाजेतुंयुधिनशक्यः अल्पशक्तिस्वं अपरिमितानन्तशक्तिमात्रामः कथंजेतुंशक्यः । रक्षसां नमुचिहिरण्यकशिपुशंबरबलिप्रभृतीनां । लोकेन जनेन । “ कोमज्जतोरणुकुलाचलयोर्विशेषः ” इति न्यायसाम्यंद्योतयितुं त्वयालोकेनेत्येकवचननिर्देशः । जयस्यात्यन्तासंभावनाद्योतयितुं खर्ग:पापजनैरिवेत्युक्तं । प्रसिद्वैर्बहुभिरेक [ पा०] १ क-ड. झ. ट. गमिष्यामिजनस्थानं २ क-ड. झ. ट. रामहन्तु. ३ क. अवध्य आपगायासुतु. ५ क. ग. ड. छ-ट, सीदन्तीं. ६ ख. ग. च. छ, ज. ज. नाप्लावयेदिमान्. ७ च, चापि. घ. सोपि ८ ड. झ. ट. शक्तश्श्रेष्ठस्सपुरुषः. घ. शक्तश्च. ९ ड. झ. ट. रणेखया. १० घ. चापि