पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३३] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ ११३ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ शूर्पणखयासभामध्येरावणंप्रतिजनस्थानवृत्तान्तनिवेदनपूर्वकंतस्मिन्नाजगुणरहित्यप्रतिपादनेनोपालंभः । ततः शूर्पणखा दीना रावणं लोकरावणम् ॥ अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ प्रमत्तः कामभोगेषु खैरवृत्तो निरङ्कुशः । समुत्पन्न भयं घोरं बोद्धव्यं नावबुध्यसे ॥ २ ॥ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ॥ लुब्धं न बहुमन्यन्ते श्मशानान्निमिव प्रजाः ॥ ३ ॥ खयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कायैर्विनश्यति ॥ ४ ॥ अयुक्तचारं दुर्दर्शमखाधीनं नराधिपम् ॥ वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ ५ ॥ ये न रक्षन्ति विषयमस्वाधीना नराधिपाः । ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ।। ६ ।। आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि ।। ७ ।। त्वं तु बालस्खभावश्च बुद्धिहीनश्च राक्षस ॥ ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि ॥ ८ ॥ येषां चारश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ।। ९ ।। यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः ॥ चारेण तस्मादुच्यन्ते राजानो दीर्धचक्षुषः ॥ १० ॥ मिति शेषः । विरूपितेत्युक्त: । अभीततया सर्वेपुरु- | दिना । ग्राम्येषु मैथुनादिषु । कामवृत्तं यथेच्छव्या षेषु सर्वलोके च चारोस्या अस्तीति सा ॥ २४ ॥ | पारं ।। ३ । कार्याणि पालनादीनि ।। ४ । अयुक्तचारं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | अनियोजितचारं । दुर्दशै उचितकाले सभायां प्रजा रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने द्वात्रिंशः | दर्शनप्रदानरहितं । अस्वाधीनं पत्र्यादिपरतन्त्रं पर ३२ प्रत्ययनेयबुद्धिं वा । पङ्कपि विशेषणद्वयं योज्यं । अयुक्तश्चारो यस्मिन् स्वस्य संचारकर्तुरधीनो न भव अमर्यादो भृशं मूखें वध्यो यस्य निशाचरः । | तीत्यर्थः ।। ५ । विषयं स्वराज्यं । वृद्धया वर्तमान तमहं नीतिसंपन्ने रघुनाथं समाश्रये ।। दीना रामप - | याऽपीति शेषः ॥ ६ ॥ आत्मवद्भिः यन्नवद्भिः त्वत्प्र रिभूतत्वात् । स्वपरिभवदर्शनेपि भ्रातुर्निश्चलतया | तीकारद्त्तावधानैरित्यर्थः । चपलः विषयचपलः ॥७॥ संक्रुद्धा ॥ १ । कामभोगेषु खैरवृत्तः खतस्रः । उक्तमेवार्थे पुनरपिप्रलपति रावणस्याग्रहोत्पादनाय सदा कामपरवश इत्यर्थः । निरङ्कशः कामभोग एव | त्वमित्यादिना। बालस्येव स्वभावो विवेकशून्यत्वं यस्य निष्प्रतिबन्धः । घोरंभयं श्रृण्वतामपि भयंकरमित्यर्थः। | स तथा। बुद्विहीनः विवेकहेतुबुद्धिः तयाहीन ॥८॥ बोद्धव्यं चारमुखेनेति शेषः ।। २ । एवं कामवृत्तस्य | खपरराष्ट्रकार्याकार्यज्ञापकश्चार:। कोशो धनसमृद्धिः । संभावितां हानिं लोकरीत्या दर्शयति-सक्तमित्या- | नयो नीतिः । प्राकृतैर्जनैः साधारणैर्जनैः ॥ ९॥ चार स० लोकरावणं जनरोदकं ॥ १ ॥ स० बोद्धव्यं अवश्यंज्ञातव्यं ॥ २ ॥ स० ग्राम्येषुभोगेषु खस्रयादिभोगेषु । विहितम यदोछङ्कनेनासक्तं । कामवृत्तं परनार्यादिनिरतं । इमशाना िशवामेिं । ति० श्मशानान्निमिव अस्पृश्यत्वेनसादृश्यं स० राज्येनकायैश्च सहेतिसंबन्धः । ति० तैः कायैः अननुष्ठितैः ॥ ४ ॥ ति० अखाधीनं खभिन्नाधीनं । पूर्वेखाधीनं देशं पश्चात्परायत्तं ये नरक्षन्ति खाधीनीकरणेनेतिशेषः ॥ ६ ॥ ती० आत्मवद्भिः प्रशस्तधैर्ये ॥ ७ ॥ टीका० चारः देशा [ पा० ] १ ड. झ. दीप्ता. २ ग. समुत्पन्नमिदं. ३ ड. झ. ल. ट. मखाधीनं. ४ क. बुछद्या. ५ च, छ. ज. , सागरे गिरयोयथा. ६ ड. झ. ट. ज्ञातव्यंतं, ख. श. ज्ञातव्यंच. ७ ख. तैः:समाजनैः, घ, तैर्जनैस्समा वा. रा, १ १२