पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ॥ परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥ खामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ॥ रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४ ॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ॥ येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ १५ ॥ तदिदं काकतालीयं घोरमासादितं मया ॥ अँत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ १६ ॥ मां निहत्य तु रामश्च नचिरात्वां वधिष्यति । अनेन कृतकृत्योसि म्रिये यंदरिणा हतः ।। १७॥ दर्शनादेव रामस्य हतं ममुपधारय । आत्मानं च हतं विद्धि हत्वा सीतां सबान्धवम् ॥ १८ ॥ आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया ॥ नैव त्वमसि नहं च नैवं लङ्का न राक्षसाः ॥१९॥ निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ।। २० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ।। तथेत्यर्थः ।। १२ । उत्तरश्लोके वक्ष्यमाणस्य सामान्य-| हतो म्रिये इति यत् अनेन हेतुना कृतकृत्योस्मि न्यांयं दर्शयति-बहव इति । साधवो धर्मज्ञा : । | विश्वामित्रयागसंरक्षणप्रभृतिखरादिवधान्तातिमानुष युक्ताः नीतिमार्गनिष्ठाः । धर्म अनुष्ठिताः अनुष्ठित. | चारित्रानुस्मृतिकृतासाधारणमहिमस्फूत्र्या राघवं प वन्तः । “गत्यर्थौकर्मक-' इत्यादिना कर्तरि क्तः । | रमपुरुषं निश्चितवतो मम तत्करप्रापितमरणस्य पर सपरिच्छदाः सपरिवाराः ॥ १३॥ गोमायुना क्रोष्ट्र ।|मपुरुषार्थत्वादितिभावः । तथोक्तं नृसिंहपुराणे “रा सहेि मेषघातुक इति प्रसिद्धिः ।। १४ । कर्कशः | मादपि हेि मर्तव्यं मर्तव्यं रावणादपि । उभयोरपि कूरबुद्धिः ।॥ १५ ॥ काकतालीयं यादृच्छिकं । घोरं | मूर्तव्ये वरं रामान्न रावणात्’ इति । यद्वा त्वत्तो भयंकरं इदं कृत्यं मया आसादितं ततो नाहं शोच्यः । | निरुपाधिकवधाच्छत्रुहस्ताद्वधो निःश्रेयसकर इति नहि प्रमादविपन्न: शोच्य इति भावः । यद्वा ससै-| भावः ।। १७-१९ । उक्तमर्थ न्यायप्रदर्शनेन प्रति न्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मे शोचनीय: | पादयति-निवार्यमाण इति । हिर्हेतौ । यस्मात् ग बुद्धिपूर्वकारी त्वमेव हि शोच्य इति भावः । यद्वा | तायुषो नराः हितं न गृहन्ति तस्माद्वाक्यमिदं न मृ ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं | ष्यसे न सहसे । गतायुष्कत्वाद्धितं न गृहासीत्यर्थः । कार्य त्वया आसादितं । अत्रैव मया त्वं शोचनीय: | परेतकल्पाः आसन्नमरणा:। ईषद्समाप्तौ कल्पप्प्रत्ययः हन्त दैवान्महाननर्थो राज्ञ उपस्थित इति शोचामी-| ।। २० । । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण त्यर्थः ।। १६ । त्वयि विद्यमाने मम का हानिरित्य-| भूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने ए त्राह-मामिति । नविरात् क्षणेनैव । अहं न शोच-| कचत्वारिंशः सर्गः ।। ४१ ।। नीय इत्यत्र हेतुमाह-अनेनेति । तवारिणा रामेण । ति० राजतो बलान्मरणापेक्षया रणेशत्रुतोमृत्योःखर्गदखादाद्यमृत्योरपमृत्युत्वेनदुर्मरणत्वेनशात्रेउत्तेः राज्ञामारितस्य शैौ चोदकदानाद्यभावश्रवणाद्रामतोमरणेन कृतकृत्योहमितिव्यङ्गयं । ईदृशंज्ञानंचास्य तपसायोगेनचवशुद्धचित्तत्वादितिबोध्यं ॥ १७ ॥ इत्येकचत्वारिंशस्सर्गः ॥ ४१ ॥ [पा० ] १. ख. थ-ट. युक्तधर्म २ ग. ड. छ. झ. ज. ट. मृगाः . ३ क. घ. च, छ. ज, ज. अत्रकिं. ड. झ. ट अत्रत्वंशोचनीयोसि. ४ घ. ड. छ. झ. ल. ट. रामोसावचिरात्. ५ ड, झ. चाप्यरिणा. ६ घ. मांविद्धिरावण, ङ. झ. ट मामवधारय. ७ घ. त्वमपि. ८ ड. झ. अ. ट. नाहँवै, ९ ख. नापि