पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ करान्तमितमध्यासि सुकेशी संहतस्तनी ॥२१ ॥ नैव देवी न गन्धर्वी न यक्षी नच किन्नरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। २२ ।। रूपमठयं च लोकेषु सौकुमार्य वयश्च ते । इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ।। २३ ।। सैा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ॥ राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥२४॥ प्रासादाग्राणि रम्याणि नगरोपवनानि च ।। संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २५ ॥ वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ २६ ॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने । वसूनां वा वरारोहे देवता प्रतिभासि मे ।। २७ ।। नेहं गच्छन्ति गन्धर्वा न देवा न च किन्नराः ।। राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २८ ॥ इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।। ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥२९॥ मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् । कथमेका महारण्ये न बिभेषि वरानने ।। ३० ।। कासि कस्य कुतश्चित्वं किंनिमित्तं च दण्डकान्। एका चरसि कल्याणि घोरात्राक्षससेवितान् ॥ ३१ ॥ इति प्रशस्ता वैदेही रावणेन दुरात्मना । द्विजातिवेषेण हितं दृष्टा रावणमागतम् ।। सवैरतिथिसत्कारैः पूजयामास मैथिली ।। ३२ ।। उंपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च । अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ।। ३३ ।। स्थानीयः । अतो न न्यूनोपमा ॥ २० ॥ करान्तेति |न्धिनी उत मरुतां आहोस्विद्वसूनां संबन्धिनी । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परि-| वाकार:समुचयार्थः । तेन क्रिमादित्यानामित्यपि सि च्छिन्नं मध्यं यस्याः सा । संहतस्तनीति पूर्वे सं- |ध्यति ।। २७ । तत्रापि संशयनिवृत्तिमाह-नेहेति हतावित्युक्तकल्पेपि पुनरुक्तिदुर्लभलक्षणत्वविस्मयेन |।। २८ । भयहेत्वन्तरमाह-इहेति । शाखामृगा ॥ २१ । एवंरूपा देवी देवस्री । देवलोके न दृष्टा । वानराः । द्वीपं चर्म तद्योगात् द्वीपिनो बालव्याघ्राः । एवमुत्तरत्रापि योज्यं । नारी मनुष्यस्री ।। २२ । | व्याजिघ्रन्तीति व्याघ्राः द्वीप्यपेक्षया केिचिन्महा लोकेष्वयं श्रेष्ठं । रूपं लावण्यं । रूपादीनि कान्तार-|न्तोऽमी । तरक्षवो मृगादनामहाव्याघ्राः । न बिभ्यः वासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र | सि न बिभेषि । कङ्काः मांसादा भयंकराकृतय:पक्षि तवागमनमिति निर्णयबुद्धिं न जनयन्तीत्यर्थः ।॥२३॥ | विशेषाः ॥ २९ । पञ्चम्यर्थे षष्ठी । तरस्विनां बल प्रतिक्राम प्रतिनिवर्तस्व । निलयमिति शेषः । वस्तुं |वतां ।। ३० । कासि किंनामधेयासि । कस्य संब स्थातुं ।। २४ संपन्नानि समृद्धानि । आचरितुं |न्धिनी । कुतः कस्माद्देशादागतासि ॥ ३१ । द्विजा संचरितुम् ।। । वरं श्रेष्ठं । माल्यादि त्वद्युक्तं २५ तिवेषेण संन्यासिवेषेण हितं सहितं । सत्क्रियते तव 'योग्यं मन्ये । नतु यादृशतादृशं । एवमुत्तर त्रापि । यद्वा माल्यादिकं त्वद्युक्तं त्वत्संबद्धं सत् वरं एभिरिति सत्काराः पूजाद्रव्याणि तै : ।। ३२ । उक्तं प्रशस्तं भवतीति मन्ये ।। २६ । त्वं मे देवता देव-|विवृणोति-उपनीयेति । पाद्येन पादोदकेन । अभि स्रीति प्रतिभासि । तत्र कात्वं किं रुद्राणां संब- | निमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमि यथा तथेत्यर्थः । तैश्चारुस्मितादिभिर्मनोहरसीत्यर्थः । अरामे इतिच्छेदः । रामरहितदेशेवा ॥ २० ॥ ति० प्रतिक्राम निर्गच्छ । रामचन्द्राधिष्ठितस्थाने राक्षसपराक्रमासंभवादेवंवचनं ॥ २४ ॥ ति० द्वीपिव्याघ्रौ सबिन्दुनिर्बिन्दू ॥ २९ ॥ ति० द्विजातिवेषेण तमागतंदृष्टा द्विजातिवेषोऽयंरावणइतिज्ञावापि । तिथिसत्कारैः अतिथियोग्यसत्कारैः ॥ ३२ ॥ [ पा० ] १ खः रूपमप्रतिमंलोके. २ क. ख. घ. संप्रतिक्राम. ३ ड. झ. ट. गन्धं. ४ क. ग. ड-ट. शुचिस्मिते . ख. शुभानने. ५ क. ख. ड. च. ज. अ. नेहागच्छन्ति. ६ ड. झ. ट. मृगावृकाः. ७ क-ट. बिभ्यसे.८ ड. झ. ट. महात्मना। ९ ख–ड. झ. ट. उपानीय . १० क. सौम्यदर्शना