१६४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तेन किं भ्रष्टराज्येन रांमेण गतचेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना ।। १६ ।। सर्वराक्षसभर्तारं कामात्खयमिहागतम् ॥ न मन्मथशराविष्ट प्रत्याख्यातुं त्वमर्हसि ॥ १७ ॥ प्रत्याख्याय हि मां भीरु पैरितापं गमिष्यसि ॥ चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ १८ ॥ अङ्गुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन संप्राप्त भजस्व वरवर्णिनि ॥ १९ ॥ एवमुक्ता तु वैदेही कुद्धा संरक्तलोचना ॥ अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ।। २० ।। कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ।। २१ ।। अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ।। २२ । अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। न च रामस्य भार्या मामपनीयास्ति जीवितम् ॥२३॥ जीवेचिरं वज्रधरस्य हंस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् ॥ न मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ।। शोच्यः' इति विश्वः । अनेन इतः परं राज्यं सा- | कथा ॥ १८ ॥ अडुल्या अडुलेिबलेन । न समः न धयिष्यतीत्याशा न कर्तव्येत्युक्तं ।। १५- १६ ॥ | समबलः । संप्राप्त मामेिति शेषः ।। १९ । संरक्तति सर्वराक्षसभर्तारं त्वया प्रार्थनीयमित्यर्थः । स्वयं | कोपातिशयो द्योत्यते । रहिते निर्जने वने । “ रागं कामात् अर्थितया इहागतं । प्रत्याख्यातुं निराकर्तु । | विविक्ताइति वर्धयन्तीः ? इति रागजननौचित्येपि स्वयमागमने हेतुः-मन्मथेति ॥ १७ प्रत्याख्यान- | परुषमब्रवीत्। हन्त सीतायाः पातिव्रत्यमेतदिति ऋषि फलमाह-प्रत्याख्यायेति । भीरु इत्यनेन रामाद्भीतिः |र्विस्मयते ॥२०॥ कथमिति पुण्यात्मनःकुबेरस्यभ्राता प्रत्याख्यानमूलमिति मम मन इति व्यज्यते । परि- | सन्कथं पापकर्मणि प्रवर्तस इत्यर्थः ।॥२१॥ कर्कश तापं पश्चात्तापं । पुरूरवसं राजानं चरणेनाभिहत्य । | क्रूरः ।। २२ । अपनीय स्थितस्य तवेति शेषः ।। २३ ।। उर्वशीव उरून् महतो वशीकरोतीत्युर्वशी । वश का- | क्रोधातिशयेनोक्तमेव पुनराह-जीवेदिति । अप्रति न्तौ । पृषोद्रादित्वादुकारलोपः । गौरादित्वात् डीष् । | रूपं अनुपमं रूपं यस्यास्तं मादृशीं । अश्लीलत्वपरि एवं हृस्वादस्तालव्यान्तश्च । तथाच माघयमक हाराय न मामित्यनुक्तिः । मोक्षः मरणादिति शष दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी | अमतमपि न त्वद्रक्षणसमर्थमित्यर्थः ।। २४ । इति तलं” इति । नारायणस्य ऊरौ वसतीति व्युत्पत्तावपि |श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेख पृषोदरादित्वाद्वर्णलोपादिना हखादिस्तालव्यान्त एव |लाख्याने आरण्यकाण्डव्याख्याने अष्टचत्वारिंशः च युक्तः । उर्वशी किल खयमेव प्रार्थयन्तं पुरूरवसं | सर्गः ॥ ४८ ॥ प्रथमं निरस्य पश्चात्तापेन पुनस्तमागतेति पौराणिकी भाग्येनतत्रैवसंप्राप्तं तव पतिमितिशेषः । भजखेतिसंबन्धः ॥ १३-१९ ॥ स० तापसानामयंतापसः तद्वेषः तेन । तपखिना तद्वद्विद्यमानेन ॥ १६ ॥ ति० रक्ष पालय ॥ १७ ॥ ति० ईदृशवंश्यस्येदृशंकृत्यमनुचितमिति मिथ्यैवान्यवंशं खवंशत्वेन कथयसीतिव्यङ्गयं ॥ २१ ॥ ति० अत्रसर्गेरावणोत्तौ –“सप्तसप्तकवेत्ताहमष्टाष्टकविभूषितः । पञ्चपञ्चकतत्वज्ञो रावणोहंभजख माम्' इतिश्लोकः कवित्पठ्यते । तमेवंव्याचक्षते-सप्तसप्तकं षडङ्गसहितवेदोपवेदसहितचतुर्दशविद्यारूपं तद्वेत्ता । अष्टाष्टक विभूषितः चतुष्षष्टिकलाभूषितः । पञ्चपञ्चकतत्वज्ञः पञ्चविंशतितत्वखरूपवेत्ता । नित्यानित्यचतुविवेकवानितियावत् । इति । स कृतकाद्यव्याख्यातत्वात्प्रक्षिप्तइति ज्ञायते । आद्यपादेऽर्थासंगतिरपि । परपादपर्यालोचनया तृतीयपादोक्तज्ञानवतईदृशेकर्मणिप्रवृ त्तिरप्यनुचितेतिभाति । इत्यष्टचत्वारिंशस्सर्गः ॥ ४८ ॥ [पा०] १ क.-घ. यक्षराक्षस. ड. झ. ट. रक्षराक्षस. २ च. छ. ज. अ. तुमां. ३ ग. घ. ड. झ. ट. पश्चात्तापं. ४ ड इं. ट. सर्वेदेव. ५ ग. मर्हसि. ६ क.-घ. च. छ. ज. अ. ट. नतु. ड. झ. नहेि. ७ ड. झ. ट. मामानीयखस्तिमान्भवेतू, ८ ड. झ. ट, पश्चाच्छचीं. ९ ख. ड.-ट, धर्षयित्वा
पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति