पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७५ विरराद नखैरस्य तुण्डं पृष्ठ समर्पयन् ॥ केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३५ ॥ स तेथा गृध्रराजेन क्रिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्टः सन्प्राकम्पत सँ रावणः ॥ ३६ ॥ सं परिष्वज्य वैदेहीं वामेनाङ्केन रावणः ॥ तलेनाभिजघांनाशु जटायुं क्रोधमूर्चिच्छतः ॥ ३७ ॥ जटार्युस्तमभिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून्दश तदा व्यपाहरदरिंदमः ॥ ३८ ॥ संच्छिन्नबाहोः सैछैव बाहवः सहसाऽभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥३९॥ ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः । मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ ४० ॥ ततो मुहूर्त संग्रामो बभूवातुलवीर्ययोः ।। राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ।। ४१ ॥ तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ॥ पक्षौ पश्चौं च पादौ च खङ्गमुंबृत्य सोच्छिनत्।॥४२॥ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात हँतो गृध्रो धरण्यामल्पजीवितः ।। ४३ ॥ तं दृष्टा पतितं भूमौ क्षतजाद्रं जटायुषम् । अभ्यधावत वैदेही खबन्धुमिव दुःखिता ।। ४४ ॥ तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवान्निदावम् ॥ ४५ ॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमार्दतम् । पुनः परिष्वज्य शशिप्रभानना रुरोद सीताजनकात्मजा तदा ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकपञ्चाशः सर्गः ।। ५१ ॥ विरराद् । स्यादिति संभावनायां ।। ३४ ॥ नखपक्ष- [ त् अताडयत् ।। ४० । संग्रामो युद्धं ॥ ४१ ॥ व्या मुखायुधा गृध्रः अस्य रावणस्य पृष्ठे नखैः सह तुण्डं | यच्छमानस्य व्यायामं कुर्वतः । 'आडयमहनः समर्पयन् व्यापारयन्सन् । विरराद् व्यदारयदित्यर्थः । इत्यात्मनेपदं “शरीरायासजनकं कर्मव्यायामउच्यते केशांश्चोत्पाटयामास ॥३५॥ अमर्षेण क्रोधेन। स्फुरितो- |इति वाग्भटः । युद्धं कुर्वतः इत्यर्थः । पाश्धौ पक्षमूले ष्ठः चलितोष्टः। प्राकम्पत प्रहारार्थ प्रदक्षिणं प्राचलदि- |॥ ४२ ॥ अल्पजीवितः द्वित्रिक्षणावस्थानोवितप्राण त्यर्थः॥३६॥ अङ्कन ऊरुभागेन। जटायु जटायुरित्युका-|इत्यर्थः ।। ४३ ॥ क्षतजं शोणितं ।। ४४ । नीलजी रान्तोप्यस्ति ।। ३७ । अभिक्रम्य अभितोगत्वा । | मूतनिकाशकल्पं नीलमेघप्रकाशतुल्यं । अन्निदावं अवसरंप्रतीक्ष्येत्यर्थः । अस्य वामबाहून् यै:सीतापरि-|दावात्रिं ॥ ४५ ॥ परिष्वज्य बाहुभ्यामिति शेषः ष्वक्ता तानित्यर्थः । व्यपाहरत् अच्छिनत् ॥ ३८ ॥ |।। ४६ । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय संछिन्नबाहोः रावणादिति शेषः । सचैवेत्यार्षे सलोपे | णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने वृद्धिः । अभवन् प्रादुरभवन् । विषज्वालेत्युपमान-|एकपश्चाशः सर्गः ॥ ५१ ।। विशेषणाद्वाहूनांसायुधत्वं गम्यते ।। ३९ । अपोथय- । स० अन्निदावं अन्निषुदावं दावान्निमिव ॥ ३५ ॥ ती० सर्गफलश्रुतिःस्कान्दे–श्रुत्वाखगेश्वरस्यापि रक्षसामीश्वरस्यच । आयोधनमृणान्मुक्तो भृत्यस्खामिकृताद्रवेत् ॥ इत्येकपञ्चाशस्सर्गः ॥ ५१ ॥ [ पा० ] १ ख. च. छ. ज. ज. विद्दारनखैस्तुण्डतस्य. घ. ड. झ. ट. र्विदार . २ तदा. ३ ख. ट. चव. राक्षस ४ ख. परिष्वज्यच. क. ध. ड. च. ज.-ट. संपरिष्वज्य. ५ क.-ट. जघानात. ६ क. ख. ड. झ. अ. ट. मतिकम्य. ७ क. घ. ड. छ. झ. अ. ट. सद्योवै . ८ क. ख. ड.-ट. वीर्यवान्. ९ ख. च. छ. ज. अ. स्यार्थेऽथ. १० ड. छ. झ. ट . पादौच. पाश्च. ११ घ. मुद्यम्य. १२ च. छ, ज. ज. घोरकर्मणा. १३ ड. झ. ट. महागृध्रो. छ. ततोगृध्रो. १४ ड. इ. ट पुनश्वसगृह्य