पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीमद्वाल्मीकिरामायणम् । द्विपञ्चाशः सर्गः ॥ ५२ ॥ [ आरण्यकाण्डम् ३ जटायुप्रतिराभलक्ष्मणयोः स्ववृत्तान्तनिवेदनावधिप्राणधारणरूपवरदानपूर्वकं तदङ्गपरामर्शन परिदेवयमानांसीतामेत्यं रावणेनपुनःकेशग्रहणेन तदपहरणपूर्वकं गगनमार्गेणगमनम् ॥ १ ॥ तदानीं हरिणादिप्राणिगणैरेरावणगर्हणपूर्वकं दुःखात्प रिदेवनम् ॥ २ ॥ रावणस्यगतेर्वेगात्सीताङ्गेभ्योहारनूपुराद्याभरणानांधरणीतलेपरिभ्रंशनम् ॥ ३ ॥ तमल्पजीवितं गृध्र स्फुरन्तं राक्षसाधिपः ।। ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥ १ ॥ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ।। २ ।। आलिङ्गय गृधं निहतं रावणेन बलीयसा । विललाप सुदुःखातों सीता शशिनिभानना ।। निमित्तं लक्षणज्ञानं शकुनिखरदर्शनम् । अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ ४ ॥ नूनं राम न जानासि महद्धवसनमात्मनः ॥ धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ।। ५ ।। अयं हि पैपचारेण मां त्रातुर्मभिसैगतः । शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः ॥ ६ ॥ [रावणेन हृतां मां हि कथयित्वा विहंगम ॥ राघवाभ्यां यथातत्वमथो हास्यसि जीवितं ।। ७ ।। आदेहपातं पक्षीश युध्यता रावणेन यत् । त्वया विदर्शितलेहौ श्वशुरे मम राघवौ ॥ ८ ॥ जटायो हरणं यावन्मम रामाय वक्ष्यसि । तावच्छरीरे ते प्राणाः संचरिष्यन्ति धीरपि ॥ ९ ॥ इति पक्षिं समालिङ्गय स्मृत्वा श्वशुरमेव च ॥ उचैस्खरेण चुक्रोश हा राघव न पश्यसि ] ॥ १० ॥ त्राहि मांमंद्य काकुत्स्थं लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छ्ण्वतां तु यथाऽन्तिके ॥११॥ तां क्रिष्टमाल्याभरणां विलपन्तीमनाथवत् । अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ।। १२ ।। जटायुर्युद्धकाले वेिस्सृष्टायाः सीतायाः पुनरपि |नप्रयोजनमुद्दिश्य । मृगपक्षिणः काकुत्स्थं त्वामभि रावणेन हंरणप्रकारमाह। राघवाश्रमादित्यवधित्वात्प- |धावन्ति । नूनं संप्रतिमद्यसनसूचका मृगपक्षिणः श्चमी ।। १ । रावणेन विनिहतं समीक्ष्येत्यन्वय काकुत्स्थंत्वामभिधावन्ति । तेन निमित्तेन मठद्यसनं ॥.२ । विशेषान्तरं वतुं पुनरनुवदति-आलिङ्गये ति । कराभ्यांसंस्पृश्येत्यर्थः ।। ३ । लक्षणानि अक्षि-| जानास्येवेत्यर्थ ।। ५ । व्यसनमेवाह--अयं हीति । स्पन्दनादीनि तेषां ज्ञानं । शकुनीनां पिङ्गल्यादीनां | अयं विहङ्गमः । पापचारेण रावणेन । विनिहत स्वरस्य दर्शनं ज्ञानं । नराणां सुखदुःखेषु निमित्तं | शेते ॥ ६-१० । श्रृण्वतामन्तिकेयथा श्रृण्वतां ज्ञांपूकं प्रदृिश्यते ।। ४ । ततःकिमित्यत्राह-नूनमि- | समीप इव । दूरस्थितं रामं लक्ष्मणं च रामेति लक्ष्म ति । हे राम आत्मनो महद्यसनं न जानासि केिमि- |णेति च संबोध्य आक्रन्दत् ॥ ११ । क्रुिष्टमाल्याभर ति, काकुः । जानास्येव । यस्मान्मदर्थे मदपहरणसूच- | णां मृदितमाल्याभरणां । क्षणंविश्रान्तः अभ्यधावत ती० अन्येतु-निमित्तंलक्षणंज्ञानमितिपाठमङ्गीकृत्यएवंव्याचक्षते । निमित्तं गोमाथ्वादिकं । लक्षणं अङ्गस्पन्दनादिकं । ज्ञानं यदृच्छयातथाप्रतिभासः ॥ ति० नराणांसुखदुःखेषुनिमित्तं सूचनं वामदक्षिणाङ्गस्पन्दनादिरूपंलक्षणं चिहं । तथाजलाद शदावात्मनोशिरसोदर्शनंचलक्षणं । खग्रं “खप्रेयःपुरुषंकृष्णंकृष्णदन्तंप्रपश्यति । सएनहन्ति'इत्यादिखप्राध्यायोपदिष्टं । तथाशकु नीनां वामदक्षिणगमनविशेषदर्शनं । . तथातेषांखराणांदर्शनमनुभवः । एतत्सवेयथायोगंपरिदृश्यतेसर्वेण । लक्षणज्ञानमिति पाठे अङ्गस्फुरणादिज्ञानमित्यर्थः । शकुनिग्रहणंमृगाद्युपलक्षणं ॥ ४ ॥ ति० मदर्थमृगपक्षिणोशुभसूचनमार्गेणधावन्ति । खंतु तै स्सूचितमपिखस्यमहद्यसनंनजानासिनूनं । जानीथाश्चेन्नोपेक्षेथाइतिात्पर्यमितिलोकाभिनयेनरामोपालंभः ॥ ५ ॥ ति० यथान्ति केनिकटस्थितानांशृण्वतांश्रवणैभवेत्तथासमाक्रन्दत् नतूचैः । शीघ्ररामागमनंमाभूदितिात्पर्येण ॥ ११ ॥ [पा०]१ अत्रत्यौप्रथमतृतीयौश्लोकौ झ. अ. ट. पुस्तकेषुनदृश्येते. २ क. ख. च. छ. ज. ल. भूमौ. ३ क.ख. च. छ ज. क. गृध्र,४ झ. लक्षणंखझं. ५ क. च.-आ. संप्रदृश्यते. झ. ट. परिदृश्यते . ६ झ. अ. ट. काकुत्स्थ. ७ क. ग. अ. ट पापाचारेण. ख. ड. झ. कृपयाराममांत्रातुं. ८ ख. ड. झ. ट. मिहसंगतः. ९ इदंश्लोकचतुष्टयं ख. पाठेदृश्यते