पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १७७ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्चमुञ्चेति बहुशः अवदत्राक्षसाधिपः ।। १३ ।। क्रोशन्तीं रामरामेति रामेण रहितां वने ॥ जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ॥ १४ ॥ प्रधर्षितायां सीतायां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम् ॥ १५ ॥ न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः ॥ १६ ॥ दृष्टा सीतां परामृष्टां दीनां दिव्येन चक्षुषा । कृतं कार्यमिति श्रीमान्व्याजहार पितामहः ॥ १७॥ ग्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः ।। दृष्टा सीतां परामृष्टां दण्डकारण्यवासिनः ।। रावणस्य विनाशं च प्राप्त बुद्वा यदृच्छया ।। १८ ।। स तु तां रामरामेति रुदन्तीं लक्ष्मणेति च ॥ जैगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ १९ ॥ तप्ताभरणवैर्णाङ्गी पीतकौशेयवासिनी ।। रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ २० ॥ उद्धतेन च वस्त्रेण तस्याः पीतेन रावणः ॥ अधिकं प्रतिबभ्राज गिरिदप्त इवाग्निां ॥ २१ ॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ २२ ॥ तस्याः कौशेयमुदूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ २३ ॥ तस्यास्तत्सुन वक्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम् ॥ २४ ॥ बभूव जलदं 'नीलं भित्त्वा चन्द्र इवोदितः । सुललाटं सुकेशान्तं पद्मगर्भभमत्रणम् ॥ २५॥ अभ्यधावत् ॥ १२ ॥ तामेित्यादि द्वावेकान्वयौ । | नी तटित् । अनेन तटिद्यथा मेघे क्षण तिष्ठति तथा लतामिव भूतले वेष्टन्तीं वेष्टमानां ।। १३-१४ ॥ | रावणे सीतेति सूचितम् ।। २० । उद्धतेति । अत्रापि अमर्यादं भिन्नसत्त्वप्रकृतिकं । अन्धेन गाढेन । तमसा | सीताग्रहणेन रावणस्य संतापो भविष्यतीत्यलंकारेण अज्ञानान्धकारेण । तदा जगत्सर्वं संवृतं विमूढं चा- | वस्तुध्वनिः ।। २१ । रावणमभ्यकीर्यन्त रावणाङ्गे सीदित्यर्थः ।। १५ । न वातीत्यर्धमेकं वाक्यं ॥१६॥ | पतितानीत्यर्थः । अत्र रावणैश्वर्यं क्षणाद्विशीर्ण भविं परामृष्टां अपहृतां । दिव्येन चक्षुषा ज्ञानेन । दृष्टा | ष्यतीति वस्तुना वस्तुध्वनिः ।। २२ । आतपे मध्या ज्ञात्वा । कायै बालकाण्डे विष्णुना प्रतिज्ञातं । कृत- | हे । आदित्यरागेण ताम्रो अरुणमभ्रमिव बभौ । अ मिति व्याजहार । प्रीत्यतिशयेन पुरुषान्तरासन्निधा-|नेन रावणविनाशपिशुनोत्पात: सूचितः ॥ २३ ।। नेप्युदाहरत् ।। १७ । प्रहृष्टाइति रावणवधस्य सिद्ध- | “उपसर्गाच'इति नासिकाशब्दान्ताद्वहुत्रीहेरच्समा प्रायत्वेन हर्षः । तादाविकसीतादशावलोकनेन व्यथा । | सान्त: । नासिकाशब्दस्य नसादेशश्च । अत्र सीताया सीतां परामृष्टां दृष्टा । यदृच्छया दैवगत्या । रावणस्य | मुखविवर्णत्वोक्तया खेदातिशय उच्यते ।। २४ । अथ प्राप्त सन्निहितं विनाशं च बुद्भा व्यथिताः प्रहृष्टाश्चा- | त्वरितगमनमाहबभूवेति । अत्र मुखमिति शेषः । - सन्नित्यन्वयः ।॥१८॥ सत्विति तुशब्देन ऋष्यादिभ्यो | जलदं भित्त्वा उदितः प्रकाशमानश्चन्द्र इव । मेघरन्धे व्यावृत्तिः ।। १९ । तप्ताभरणं तप्तं काश्चनाभरणं तत्- |भासमान इत्यर्थः । अत्र प्रतिचन्द्रदर्शनरूपोत्पात ल्यवर्णाङ्गी । विद्युत् विशेषेण द्योतमाना । सौदामि- ‘सूच्यते । पद्मगर्भाभं विकसितपद्माभमित्यर्थः । ति० वेष्टन्तीं लतामिववृक्षानालिङ्गन्तीं मामुञ्चमुञ्चेति बहशोवृक्षान्वदन्तीमितिशेषः । मोचयमोचयेत्यर्थोवा । प्राप इतस्ततोधावन्तीं समीपगत आसीत् ॥ १३ ॥ ति० जीवितान्ताय अनेन परस्रीकेशस्पशों यस्यकस्यापि जीवितापहारीतिबोधितं । ॥ ति० सुदाम्रोबहुरन्नादिमखात्तद्रवाविद्युदतिप्रकाशमानाभवति तद्वत्सीतेत्यर्थः ॥ २० ॥ ती० तरुप्रवालरत्रेतिपाठे १४ प्रवालसदृशरत्रा ॥ २१ ॥ [पा० ] १ ड. झ. ट. प्रापतांराक्षसाधिपः. २ क. ख. ग. ड.-ट. वैदेह्यां. ३ क. ख. दीनां. घ. हितां. ४ क् ख. घः सीतां. ड. छ. झ. अ. ट. देवोदिव्येन. ५ ग. दृष्टा. ६ क. ख. ग. च. छ. ज. अ. जगामाकाशमादाय. ७ क .-घ च. ज. ल. सर्वाङ्गी. ८ क. पुत्रीसा. ९ क. ख. ग. ड.-ट. परिबभ्राज. १० ग. च. छ. अ. अवाकीर्यन्त. ११ क. ख. गं ड.-ट. स्तद्विमलं. १२ च. छ. ज. भित्त्वानीलं