पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १८३ वस्रमुत्सृज्य तन्मध्ये निंक्षिप्त सहभूषणम् । संभ्रमातु दशग्रीवस्तत्कर्म नै स बुद्धवान् ॥ ३ ॥ पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिपैरिव । विक्रोशन्तीं तैथा सीतां ददृशुर्वानरर्षभाः ।। ४ ।। स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् । जगाम रुंदतीं गृह्य "वैदेहीं राक्षसेश्वरः । ५ ।। तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ ६ ॥ वनानि सरितः शैलान्सरांसि च विहायसा ।। स क्षिप्रै समतीयाय शरश्चापादिव च्युतः ॥ ७ ॥ तिमिनक्रनिकेतं तु वरुणालयमक्षयम् । सरितां शरणं गत्वा समतीयाय सागरम् ॥ ८ ॥ संभ्रमात्परिवृत्तोमी. रुद्धमीनमहोरगः । वैदेह्यां हियमाणायां बभूव वरुणालयः ।। ९ ।। अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । एतदन्तो दशग्रीव इति सिद्धास्तदाऽबुवन् ।। १० ।। स तु सीतां विवेष्टन्तीमङ्कनादाय रावणः । प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः।। ११ ।। सोभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् । संरूढकक्ष्याबहुलं खमन्तःपुरमाविशत् ।। १२ ।। तत्र तामसितापाङ्गां शोकमोहँपरायणाम् । निदधे रावणः सीतां मयो मायामिव स्त्रियम् ।। १३ ।। अब्रवीच दशग्रीवः पिशाचीधरदर्शनाः । यथा नेमां पुमान्स्त्री वा सीतां पश्यत्यसंमतः ॥ १४ ॥ वचने लिङ् ? इति लिङ् ॥ २ ॥ सहभूषणं भूषणा-|सागरं समतीयाय ।। ८ ॥ संभ्रमात् रावणदर्शन न्तरितं वस्त्रं । उत्सृज्य उन्मुच्य । तन्मध्ये सीतया | क्षेोभात् परिवृत्तोर्मि : । रुद्धमीनमहोरगः बहि:सं निक्षिप्तमिति यत् तत्कर्म। संभ्रमात्सीतापहारजनित- |चाररहितमत्स्यसर्पः । । ९ । अन्तरिक्षगताश्चारणा क्षेोभात् न बुद्धवान् । यदि बुध्येत गृहीयादेवेति | दशग्रीवः एतदन्तः एतत्सीतापहरणावसानइति भावः ।। ३ । पिङ्गाक्षाः वानराः । न केवलं वानराः | वाचः ससृजुः ऊचुरित्यर्थ । अन्तरिक्षगता:सिद्धाश्च अपि तु वानरर्षभाः वानरश्रेष्ठा । अनिमिवैरिव | एतदन्तो दशग्रीव इत्यब्रवन् ।। १० ॥ आत्मनः रू निमेषरहितैरिव । तथा विक्रोशन्तीं राम रामेति | पिणीं रूपवतींमृत्युमिति सीताविशेषणं ।। ११ ।। विक्रोशन्तीमित्यर्थ ।। ४ । पम्पां पम्पोपर्याकाशं । | संरूढा: जनाकीर्णा: कक्ष्याः द्वारप्रकोष्ठा: ताभिः लङ्कामभिमुख इत्यनेन एतावत्पर्यन्तं रामाश्रमदत्तदृ- | बहुलं निबिडं ।। १२ । तत्र अन्तःपुरे शोकमोहपरा ष्टिर्गतः ततः स्वच्छन्दं गतवानिति गम्यते । अतएव | यणां शोकमोहपरतत्रां । निद्धे स्थापितवान् । मय सुसंहृष्ट इति वक्ष्यते ॥ ५ ॥ उत्सङ्गेनेत्यस्य उभय- | त्रिपुराधिपतिः । मायां मायामयीं आश्चर्यशक्तियुक्ता त्राप्यन्वयः । मृत्यु मृत्युहेतुभूतां ।। ६ । विहायसा |मित्यर्थः । स्त्रियं स्वयंप्रभां बिले यथानिद्धे तथत्यर्थः आकाशमार्गेण ॥ ७। तिमीति तिमयो मत्स्यविशेषा : |॥१३॥ पिशाचीः पिशाच्याकारा: राक्षसी: । यथेमां नक्राः प्राहाः तेषां निकेतं वासस्थानं । वरुणस्य | स्री वा पुमान्वा असंमतः अननुज्ञातः । नपश्यति अालय वासः । शरणं प्राप्यं । गत्वा प्राप्य । क्रमेण | तथाऽब्रवीत् । एनामन्यो न पश्येदित्यब्रवीदित्यर्थ ति० वस्तुतोऽयंयदिशब्दः“वेदा:प्रमाणंयदिस्युः” इतिवत् । स० संभ्रमात् राम आगच्छेदितिमनश्वाञ्चल्यातू । शि० सहभू षर्णवस्रमुत्सृज्यविद्यमानायास्सीतायाः संभ्रमात् तदुक्तिहेतुकोद्वेगाद्धेतोः । निक्षिप्त निक्षेपरूपं । तत्कर्मदशग्रीवोनबुद्धवान् ॥ ३ ॥ ति० सुसंहृष्टः मृत्योस्तत्वेनाज्ञानात् । केचित्तु —लब्धरामहस्तान्मृत्युद्वारमितिसंहृष्टः । विनाचोत्कटंपापंपुण्यक्षयाभावेननमृत्युस्सं निहितःस्यादितितमोगुणावृतस्सन्मातर्यपिविरुद्धशब्दव्यवहारंकृतवानितिवदन्ति । तेषामेतत्सर्गान्तेवक्ष्यमाणं“बभूवमोहान्मुदितः इत्यसङ्गतंस्यात् । तथा “आत्मानंबुद्धिवैङ्कब्यात्कृतकृत्यममन्यत” इत्युत्तरसर्गादिस्थंचासंगतंस्यात् ॥६॥ ति० संरूढकक्ष्यां बहुज नाकीर्णद्वारां । बहुलां विपुलां । संरूढकक्ष्याबहुलामितिपाठे तादृशबहुतरद्वारवत्इत्यन्तःपुरविशेषणं ॥ १२ ॥ [ पा० ] १ क. ख. ग. विनिक्षिसंसभूषणं. २ ध.-ट. चनबुद्धवान्. क. ख. ग. नचबुद्धवान्. ३ ख. ग. ड. झ. ट सदा. ४ ड. छ. ज. झ. मैथिलींगृह्यरुदतीं. च. म. ट. मैथिलींगृह्यरुदन्तीं. ५ क. ख. ग. मैथिलीं. ६ क. ग. च. छ. ज रम्यं. ७ ड. झ. ट. स्तथा• ८ ख. प्रवेष्टन्तीं. ड.-ट. विचेष्टन्तीं. ९ ख. सुसंरुद्ध. १० क. ड. छ. झ. ट. संरूढकक्ष्यांबहुलां ११ क. ड.-ट. मसितापाङ्गीं. १२ ड. झ. ट. मोहसमन्वितां. १३ क .-ट. मिवासुरीं