पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ।। १५ ॥ या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ॥ अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्॥१६॥ तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्। निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् १७ ददर्शष्टौ महावीर्यात्राक्षसान्पिशिताशनान् ॥ १८ ॥ स तान्दृष्टा महावीर्यो वरदानेन मोहितः ॥ उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ १९ ॥ नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । जनस्थानं हतस्थानं भूतपूर्व खरालयम् ॥ २० ॥ तैत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ।। २१ ।। बैलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । सदूषणखरं युद्धे हँतं रामेण सायकैः ॥ २२ ॥ तैत्र क्रोधो ममामर्षाद्वैर्यस्योपरि वर्तते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३ ॥ निर्यातयितुमिच्छामि तैच वैरमहं रिपोः ॥ नें हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २४ ॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।। रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ।। २५ ।। जनस्थाने वसद्रिस्तु भवद्री राममाश्रिता । प्रवृत्तिरुपनेतच्या किङ्करोतीति तत्त्वतः ॥ २६ ॥ अप्रमादाच गन्तव्यं सैवैरपि निशाचरैः । कर्तव्यश्च सदा यतो राघवस्य वधं प्रति ।। २७ ।। युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि । अतश्चास्मिञ्जनस्थाने मया यूयं "नियोजिताः ॥ २८ ॥ तैतः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावैभिवाद्य रावणम् ।। विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ २९ ॥ ॥ १४ । एषा यद्यदिच्छेत्तत्तद्देयं यथामच्छन्दतः | वधनिमित्तं । अमर्षात् असहनात् ।। २३ । निर्यात मदिच्छानुसारेण । यथा मह्य दीयंते तद्वद्देयमित्यर्थः |यितुं अवसितुं ॥ २४ ॥ शर्म सुखं । उपलप्स्यामि ॥ १५ ॥ जीवितं न प्रियं मारयेयमित्यर्थः ।। १६ । |प्राप्स्यामि ॥ २५ ॥ प्रवृत्तिर्वार्ता । रामः किं करो चिन्तयन् महावीर्यात्राक्षसान् ददर्श अपश्यत् ।१७ |तीति तत्त्वतो वार्ता मत्सकाशमुपनेतव्येत्यर्थः ॥२६॥ १८ । वरदानेन ब्रह्मवरदानेन । तानेतानित्यन्व-| अप्रमादादिति अवधानादित्यर्थः ।। २७ । खरादिस्थाने यः ॥ १९ ॥ नानेति “आयुधं तुप्रहरणं' इत्यमरः । अस्माभिः कथं स्थातुं शक्यं तत्राह-युष्माकं चेति हतस्थानं शून्यसन्निवेशं । खरालयं भूतपूर्व पूर्वे खरा ॥ २८ ॥ महानर्थोभिधेयो यस्य तं महाथै प्रियं श्ला लयमित्यर्थः । “भूतपूर्वे चरट्’ इति निर्देशात्समास |उपेत्य लब्ध्वा २० ॥ पौरुषं बलं न केवलं ॥ नीतिबलमित्यर्थः । |घारूपं वाक्यं । । रावणतः स्तुतिं २१ ॥ पौरुषबलाश्रयणे हेतुमाह-बलं हीति । यत् |प्राप्येत्यर्थः । यतो यत्र जनस्थानं तद्वनमुद्दिश्य प्रत बलं सैन्यं निवेशितं तद्धतमित्यन्वयः ॥ २२ ॥ तत्र | स्थिरे । अलक्ष्यदर्शनाः वेगातिशयेन दुष्प्रेक्षस्वरूपाः ति० मायामिवासुरीमेित्यनेन मायारूपैवैषासीतायालङ्कामागतेतिध्वनितं । मुख्यसीताखामेिंप्रविष्टतिपूर्वमेवध्वनितं । अत एवरावणस्यवहनीयैषाजाता । मायात्वादेवरावणस्यतदज्ञानं ॥ १३ ॥ ति० मच्छन्दतइत्यस्यमद्वशप्राप्तिसिन्नद्यर्थमित्यर्थइति तकः १५ [ पा० ] १ घ. राक्षसंाः. २ ड. झ. ट. तत्रास्यतां. ३ क. ड ट. बहुसैन्यंमहावीये. ४ क. ख. ड. च. छ. झ. अ ८. निहतरामसायैकः. ५ ख. ड.-ट. ततःक्रोधोममापूर्वोधैर्यस्योपरिवर्धते. क. ततःक्रोधोमयापूर्वोधैर्येणपरिवर्धते. ६ ४.–ट. तच्चवैरंमहारिपोः. ख. वैरंममरिपोर्वधात्. ७ क. नाभिगच्छाम्यहं. ख. च. छ. ज. नाभिपत्स्याम्यहं. घ. नैवल प्स्याम्यहं. ८ क .–ट. सवैरेव. ९ ग. युष्माकंहि. ड. छ. झ. ट, युष्माकंतु. १० ड, झ. ट. बलंज्ञातं. ११ क. ख. ग ड:-ट. निवेशिताः. १२ घ. अतः, १३ च. छ, ज. ल. वभिवन्द्य