पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । कूरखंनोथ गोमायुर्विननादास्य पृष्ठतः ॥ २ ॥ सं तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ ३ ।। अशुभं बत मन्येहं गोमायुर्वाश्यते यथा ।। खति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ ४ ॥ मारीचेन तु विज्ञाय स्खरमाँलम्ब्य मामकम् । विकुटं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ।। ५ ।। स सौमित्रिः खरं श्रुत्वा तां च हित्वां च मैथिलीम् ॥ तयैव प्रहितः क्षिप्रै मत्सकाशमिहैष्यति ॥ ६ ॥ राक्षसैः सहितैर्ननं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमातु माम् ।। ७ ॥ दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः॥ हा लक्ष्मण हतोस्मीति यद्वाक्यं व्यजिहार च ॥ ८ ॥ अपि स्वस्ति भवेत्ताभ्यां रंहिताभ्यां महावने ॥ जनस्थाननिमित्तं हि कृतवैरोसि राक्षसैः ॥ ९ ।। निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च॥ इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिस्खनम् ॥१०॥ [ निर्वर्तमानस्त्वरितो जगामाश्रममात्मवान् ॥] आत्मनश्चपनयनान्मृगरूपेण रक्षसा ॥ आजगाम जनस्थानं राघवः परिशङ्कितः ॥ ११ ॥ तै दीनमनसो दीनमासेदुमृगपक्षिणः ।। सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः खरान् ।। १२ ॥ तानि दृष्टा निमित्तानि महाघोराणि राघवः ॥ न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः । स तु सीतां वरारोहां लक्ष्मणं च महाबलम् ॥ आजगाम जनस्थानं चिन्तयन्नेव राघवः ॥ १४ ॥ राक्षसमित्यादिना । निवर्तते न्यवर्तत ।। १ । द्रष्ट- | तया सीतया च प्रेषितः सन् इहदेशे मत्सकाशं कामस्य । तदर्थत्वरमाणस्येति संबन्धः । गोमायुः | मत्समीपं एष्यति ।। ५-६ । राक्षसैरित्यादिश्लोक क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्खरकरणं | द्वयमेकान्वयं । यद्यस्मान्मारीचः काचन: मृगो भूत्वा दुर्निमित्तमिति भावः ।। २ । भयंकरत्वेन रोमहर्ष- |मामाश्रमाद्यपनीय दूरं नीत्वा मया हतःसन् राक्षसो णमित्युच्यते । पूर्वमेव मारीचस्वरेण परिशङ्कितः | भूत् लक्ष्मण हतोस्मीति वाक्यं व्याजहार च तस्मा सैजातशङ्कः । स रामः तस्य गोमायोः स्वरं आज्ञाय | त्कचित्सहितै: राक्षसैः सीताया वधः ईप्सितः । नूनं श्रुत्वा । चिन्तयामास ।। ३ । चिन्तामेवाह- | ।। ७-८ ॥ जनस्थाननिमित्तं जनस्थानवासनिमि अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण । | तेन । निमित्तकारणहेतूनां सर्वासामिष्टि ॥ ९ ॥ वाइयते शब्दायते । तेन प्रकारेणाशुभं मन्ये । अपि: | निमित्तानीत्यादिश्लोकद्वयमेकान्वयं । गोमायुनिस्वनं संभावनायां ॥ ४ ॥ मारीचेनेत्यादिश्लोकद्वयमेकान्व- | श्रुत्वा मृगरूपेण रंक्षसाऽऽत्मनः अपनयनात् आश्र यं । मृगरूपेण मारीचेन मामकं मदीयं । स्वरंविज्ञाय | मादपकर्षणाच । परिशङ्कितः सन् जनस्थानं आज मामकं स्वरं आलम्ब्य अनुस्मृत्य । विकुटं हा सीते |गाम ।। १०-११ । सव्यंकृत्वा अप्रदक्षिणंकृत्वा लक्ष्मणेत्याह्वानेनोद्धोषितंस्वरं । लक्ष्मणः श्रृणुयाद्यदि | आसेदुः ।। १२ । त्वरितः मानसिकत्वरासहितः । तदा स सौमित्रिमर्मामकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या | जवेन कायिकत्वरया ।। १३ । सीतां लक्ष्मणं च ॥१॥ शि० तस्यगोमायोःखरं दारुणं दारुणकर्मसूचकं । आज्ञाय निश्चित्य । खरेण खशब्दानुकारकमारीचखनेन । परिशङ्कित ॥ ३ ॥ ति० मारीचेन मामकखरं विज्ञाय मामकखरध्वनिंज्ञात्वा । आलक्ष्य मदपकारोपायमवधार्य । यन्मृगरूपेणतेनाकुटं हासीतेलक्ष्मणेतिच । तद्यदिलक्ष्मणःश्रृणुयातू ॥ ५ ॥ [ पा० ] १ क.-घ. छ. ल. खरोथ. २ क. ग. तस्यसखरं. च. छ. ज. अ. तस्यखरमथालक्ष्य. क. तस्यसखरमालक्ष्य ड, झ. शङ्कयामास. ख. च. छ. ज. श. रामः प्रोवाचगोमायोः. ४ ख. घ. छ. ज. अ. स्यादथ. ५ क ट. मालक्षय ६ क. ड. चव. ज.-ट. हित्वाथ. ध. छ. हेिखातु. ७ ड. झ. ट. नीत्वाथ. ८ क.-ट. व्याजहारह. ९ ड. झ. ट. भवेद्वाभ्यां १० घ. राक्षसानां. ११ क. ख. ग. ड.-ट. मयावने. १२ क. च. छ. ज. अ. दृश्यन्तेत्र. १३ इदमधे ख.-ट. पाठेषु दृश्यते. १४ क. ग. ड,-ट. श्वापनयनंमृगरूपेण. १५ ख. ग. ड. झ. ज. ट, दीनमानसं. १६ क. घ. सीतांसतु