पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।। १५ ।। ततोऽविदूरे रामेण समीयाय स लक्ष्मणः । विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥१६॥ सञ्जगर्हथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् । विहाय सीतां विजने वने राक्षससेविते ।। १७ ।। गृहीत्वा च करं सैव्यं लक्ष्मणं रघुनन्दनः । उवाच मधुरोदर्कमिदं परुषमॉर्तिमत् ॥ १८ ।। अही लक्ष्मण गर्ह ते कृतं यैस्त्वं विहाय ताम् । सीतामिहागतः सौम्य कचित्खस्ति भैवेदिह ॥१९॥ न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा । विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥ २० ॥ अपि लक्ष्मण सीतायाः समय्यं प्रामुयावहे । जीवन्त्यः पुरुषव्याघ्र सुताया जनकस्य वै ॥२१॥ यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ॥ वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।। २२ ।। अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ।। २३ ।। इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् ।। हतं कथंचिन्महता श्रमेण स राक्षसोभून्म्रियमाण एव ॥ २४ ॥ मनश्च मे दीनमिहाग्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ।। २५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ १९५ चिन्तयन्नेवाजगाम ।। १४ ॥ तत इत्यर्धमेकं वाक्यं | श्वद्वयदिशौ च प्रदीप्ता तामभिमुखं वाइयन्ते नदन्ति। ॥ १५ ॥ ततो दर्शनानन्तरं । अविदूरे समीपे । स- तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारा मीयाय संगतः । दुःखभागिनेत्यर्थः “संपृच-'इ- |दिमृगाणां च सूर्याधिष्ठितदिशि कूजनं दुःखसूचकमि त्यादिसूत्रेण घिनुण्प्रत्ययः ।। १६ । विजने स्वजन- |त्युक्तं ।। २२ । चिन्तातिशयेन पुनरप्याह-- रहिते ।। १७ । सव्यं करं गृहीत्वा लक्ष्मणमुवाच । | अपि स्वस्तीति । अर्धमेकान्वयं ।। २३ । लक्ष्म कथं परुषं अथ मधुरोदर्क मधुरोत्तरं । आर्तिमत् |णाय दर्शयति-इदमिति । मृगसन्निकाशं पूर्व आर्तियुक्तं । सर्वमिदं क्रियाविशेषणं । अहो इत्यादि |मृगवद्भातं । इदं रक्षः महता श्रमेण उपलक्षितं मां परुषं । लक्ष्मणेत्यादि मधुरं ।॥१८॥ ते त्वया । इत्यु - | प्रलोभ्य कथंचिद्धतं । कथंचिदित्यनेन चिरं लक्ष्यवधा वाचंत्यन्वयः ॥ १९ ॥ केनापिहेतुना विनष्टा वा प्राप्तिद्यत्यते । मृगत्वं कुतो गतमित्यत्राह--स इति राक्षसैर्भक्षिता वा । उक्तार्थे हेतुमाह-अशुभानी सः स्त्रियमाणः सन् राक्षस एवाभूदित्यर्थः ।। १४ त्यर्धन । भूयिष्ठं बहुलं यथा तथा ।। अपि प्रश्रे सामग्रयं । अक्षतत्वं। क्षेममिति यावत् । हे लक्ष्मः |निमित्तान्तरेणापि सीताहानिमनुमिनोति-मनश्चेति। णेति सम्बन्धः ।। २१ सामग्रयप्राप्तिसंशये ॥ का- | इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणं । रणमाह-यथेति । प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पा- | नास्तीति आश्रम इति शेषः ।। २५ । । इति श्रीगोवि ति० यद्वा मधुरोदकं तात्पर्यतोमधुरं । आपाततःपरुषं ॥ १८ ॥ शि० जनकस्यसुतायास्सीतायाः सामभ्यं अविच्छिन्नावय वत्वं । प्राप्नुयामहेअपि । अपिस्संभावनार्थकः ॥ २१ ॥ स० कथंचित् महताश्रमेणेतिलोकानुकरणं ॥ २४ ॥ शि० सीताना स्ति अभावप्रतियोगिनी । ननुनित्यायाःकथमभावप्रतियोगित्वमित्यत आह । अमृता नित्यापिसीता असंशयंयथाभवतितथाह्य तासतीपथ्येववर्तते । एकोवाशब्दोप्यर्थे द्वितीयएवार्थे ॥ २५ ॥ इतिसप्तपञ्चाशस्सर्गः ॥ ५७ ॥ [ पा० ] १ ड. झ. सन्विषण्णेन. ख. घ. सविषण्णेन. २ क. ग. ड ट. दृष्टा. ३ ख. तस्य. ४ ख. घ. ड. छ. झ. अ. ट मार्तवत्. ५ क. च. छ. ज. अ. यत्त. यत्वं. ६ ख. ग. ड. च. झ. ल. ट. भवेदिति. ७ ख. ग. घ. सकाशं.८ ड.-ट प्रामुयामहे. ९खः जनकस्यच. १० च. छ. ज. ज. गोमायुश्वाथ. क. ख. गोमायुश्चापि. ११ च. छ, ज. अ. भवेदस्याः वा. ११२ |