पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६१ ] शन श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकषष्टितमः सर्गः ॥ ६१ ॥ पर्णशालादावन्वेषणेपिसीतायाअलाभाद्वहुधाविलापेन शोचन्तंरामप्रतिलक्ष्मणेनससान्त्वनंसमग्रवनभागेषुपुनरन्वेषणस्य कर्तव्यत्वोक्ति ॥ १ ॥ पुनर्वनगिरिद्र्यादिषुगवेषणेपिसीतामलब्धवतारामेणलक्ष्मणेनसान्त्वनेपिशोकात्सीतांप्रत्याक्रो २०५ दृष्ट्राऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥ अदृष्टा तत्र वैदेहीं सन्निरीक्ष्य च सैर्वशः ॥ उवाच रामः प्राकुश्य अँगृह्य रुचिरौ भुजौ ॥ २ ॥ क नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहंता वा सौमित्रे भक्षिता केन वा प्रिया ।। ३॥ वृक्षेणाँच्छाद्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ।। ४ ।। यैः संह क्रीडस सीते विश्वस्तैर्तृगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ॥५॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण ॥ ६ ॥ मृतं शोकेन महता सीताहरणजेन माम् । परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥ ७ ॥ कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः । अपूरयित्वा तं कालं मत्सकाशमिहागतः ।। ८ ।। कामवृत्तमनार्य मां मृषावादिनमेव च ॥ धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ॥ ९ ॥ विवशं शोकसंततं दीनं भग्रमनोरथम् ॥ मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानूजुम् ॥ १० ॥ क गच्छसि वरारोहे मां नोत्सृज सुमध्यमे । त्वया विरहितश्चाहं मैोक्ष्ये जीवितमात्मनः ॥११॥ इतीव विलपत्रामः सीतादर्शनलालसः । न ददर्श सुदुःखात राघवो जनकात्मजाम् ॥ १२ ॥ अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे । यन्ति त्वामिति शेषः । किमपि ध्यायन्तीति वा ॥५॥ दृष्टेत्यादिश्लोकद्वयमेकान्वयं । शून्यं सीतारहितं । । सीतयेति इदमर्धमेकं वाक्यं ॥६॥ परलोके स्वर्गे।॥७॥ राहेितां सीतयेति शेषः । विध्वस्तानि रावणाक्रान्तत्वा- | श्लोकद्वयमेकान्वयं । प्रतिज्ञां चतुर्दशवर्षवनवासप्र दिति भावः । सर्वशः सर्वत्र । तत्र वनप्रदेशे । वैदेहीं | तिज्ञां । संश्रुत्य अङ्गीकृत्य । मया अभियोजित: नियु संनिरीक्ष्य विचित्य । तत्रादृष्ट्रा पुनरपि रामग्रहणं |क्तस्त्वं तं कालमपूरयित्वा कथमागतः । कामवृत्तं यथे क्रियाभेदात् । प्राकुश्य सीतामुचैराहूय उवाच । |ष्टाचारं । अनार्यदुर्जनं मां धिक्त्वामिति वक्ष्यति । अहः भुजग्रहणं शोककृतविकारविशेषः । प्रगृह्य उत्क्षिप्य |मुपालम्भयोग्य एव कामवृत्तत्वादिति भावः ॥८-९॥ ॥ १-२ । क नु अत्र वने कुत्र प्रदेशे वर्तते । कं | विवशमित्यादश्लोकद्वयं । विवशं अस्वाधीनं त्वत्परत वा देशान्तरं गता ।। ३ । आच्छाद्य स्खमिति शेषः । | श्रमित्यर्थः । करुणं यथा भवति तथा उत्सृज्य त्यागका हसितुं अन्तर्हितां मांज्ञातुमसमर्थोसीयेवं परिहसितुं। लेऽपि तव द्यास्येवेति भावः । अनृतुं कपटाचारं । अद्य शोककाले ।। ४ । क्रीडसे क्रीडसि । विश्वस्तै: |मां नोत्सृज सुमध्यमे इदं मदुत्सर्जनं त्वलक्षणस्यान चिरोपलालनेन विश्वासं प्राप्तः । मृगपोतकैः बाल-|नुरूपमिति भावः । उत्सर्जने को दोष इत्यत्राह -- मृगैः । “पोतः पाकोऽर्भको डिम्भः इत्यमरः । ध्या- | त्वयेति ॥१०-११॥ इतीवेति । एवंप्रकारेणेत्यर्थ । ति० प्राकुश्य हाइतिशब्दंकृत्वा ॥ २ ॥ [ पा० ]१ ड.-ट. प्रविद्धान्यासनानेिच. ख, ग. विप्रविद्धासनानिच. २ ग. च. ज. अ. सर्वतः. ३ ट. परिगृह्यशुभौ भुजै. ४ ज. कवादिशं. ५ क.ख. ग. नाहृताच. ६ च. छ. अ. केनवाभक्षिता. ७ क- ट. वृक्षेणावार्य. ८ ड. झ. ट परिक्रीडसे. ९ च. छ. ज. अ. सीते. १० ग. ड. झ. ज. ट. ध्यायन्त्यस्राविले. क. च. ज. धावन्त्यस्राविले. ११. क. ख ग. मभिचोदित १२ ख. मितोगतः. १३ ड. झ. मनार्यवा १४ ग. नून १५ ग. झ. अ. ट. मामोत्सृज. क. घ मामुत्सृज्य. १६ ड. झ. ट. त्यक्ष्ये. १७ क. ड .-ज. अ. इत्येवं